धम्मुद्देसवारो
पठमचित्तवण्णना
३६५. खणत्तयस्स अकुसलेसु असम्भवतो समवायकालहेतुसमूहत्थो समय-सद्दो. लोभाभिभूताय एव इट्ठारम्मणस्मिं इतरत्र च इट्ठाकारग्गहणवसेन सोमनस्ससहगतभावोति एवमादिं सन्धाय ‘‘यथानुरूप’’न्ति वुत्तं. ‘‘किलेसातुरताय अनारोग्यट्ठेन किलेसवज्जसब्भावतो सावज्जट्ठेन अविज्जासम्भूतताय अकोसल्यसम्भूतट्ठेन अकुसल’’न्ति च ‘‘सावज्जदुक्खविपाकलक्खणं, अनत्थजननरसं, संकिलेसपच्चुपट्ठानं, अयोनिसोमनसिकारपदट्ठानं, गारय्हभावतो वा सावज्जलक्खणं, संकिलेसभावरसं, अनिट्ठविपाकपच्चुपट्ठानं, यथावुत्तपदट्ठानमेवा’’ति च एवमादिना वुत्तनयेन अनुगन्तब्बताय वुत्तं ‘‘वुत्तनयं अनुगन्त्वा’’ति.
गतं गमनं पवत्तीति कत्वा वुत्तं ‘‘गतमत्तं गतिमत्तं गहणमत्त’’न्ति. दिट्ठिया हि गति पवत्ति एवाति. आसन्नकारणत्ताति पदट्ठानताय, योनिसोमनसिकारो विय हि कुसलस्स अयोनिसोमनसिकारो अकुसलस्स अच्चासन्नहेतु. तथा हि सतिपि असद्धम्मसवनादिकारणे अयोनिसो अनावज्जिते अववत्थापिते च नत्थि अकुसलप्पवत्ति. तथा च वक्खति अट्ठकथायं ‘‘अयोनिसो अकुसल’’न्ति. एतेन एकन्तकारणता च वुत्तत्था होति. पटिसङ्खा सीतादिखमनं अप्पमादविहारोति वुत्तं ‘‘अप्पमज्जनं खमन’’न्ति. तेन सतिसंवरोति इध खन्तिसंवरो वुत्तोति अधिप्पायो इन्द्रियसंवरस्स वुत्तत्ता. पहानसंवरोति वीरियसंवरो. सो हि ‘‘उप्पन्नं कामवितक्कं नाधिवासेति पजहती’’तिआदिना (म. नि. १.२६; अ. नि. ४.१४; ६.५८) वुत्तोति.
सम्मापटिपत्तिया पटिपक्खभावेन गहेतब्बताकारो मोहो सम्मापटिपत्तिपटिपक्खभावग्गहणाकारो. तेन हि निवुता न सम्मा पटिपज्जन्ति. अभिज्झाय विसेसयोगो कम्मपथप्पत्ति.
अनुपपरिक्खा मोहो. सो चेत्थ दिट्ठिरहितो वेदितब्बो. दिट्ठिसहितस्स पन दिट्ठिया अनुविधायकत्ता तग्गहणेनेव गहणन्ति. अवत्थुस्मिन्ति असद्दहनीये वत्थुस्मिं. सानुनयो अधिमोक्खोति मोहदिट्ठीनं सद्धापतिरूपतमाह. अहिरिकानोत्तप्पमोहादीहि पमज्जनतो अहिरिकादीहि कारणेहि. आरक्खरहितचित्तेति चित्तस्स सतिविरहतंयेव दस्सेति. आरक्खपच्चुपट्ठाना हि सतीति. एतेन ‘‘अस्सद्धियचित्ते अन्धबालचित्ते’’ति पदद्वयं वुत्तत्थं होति. उपनाहादीति आदि-सद्देन रागादयो सङ्गय्हन्ति. रागादीनं परियुट्ठानादिसभावताय ‘‘अविसेसेना’’ति वुत्तं विसेसस्स एकच्चस्स असम्भवतो. इधाति, इमस्मिं चित्ते. निप्फादेतब्बे पयोजने भुम्मं ‘‘चम्मस्मिं दीपिनं हन्ती’’ति (वजिर. टी. १७-१८ वेरञ्जकण्डवण्णना) विय आरम्मणं वा अवूपसमो फलूपचारेन ‘‘सेम्हो गुळो’’ति विय.
धम्मुद्देसवारकथावण्णना निट्ठिता.
निद्देसवारकथावण्णना
३९०. सभावपटिच्छादवसेन पकतिअत्तादिअसन्तग्गहणस्स निस्सयत्ता निमित्तत्ता असन्तं बुज्झति, निच्चादिविसमग्गहणस्स सञ्ञादिविपरियेसस्स निस्सयत्ता असमं बुज्झतीति मोहो वुत्तो निमित्तस्स कत्तुभावेन उपचारितत्ता, अयञ्च अत्थो दिट्ठिसहितमोहवसेन दट्ठब्बो. एत्थ च पकतीति कापिलानं पधानं.
ततियचित्तवण्णना
४००. अपण्णकपदं विय अविरज्झनकपदम्पि कदाचि नियतभावं दीपेय्याति अनियततं दीपेतुं ‘‘उप्पत्तिअरहङ्गानी’’ति वुत्तं मानस्स अनियतत्ता. यदि हि मानो नियतो सिया, कामरागस्स मानरहिता पवत्ति न सिया, तथा भवरागस्स. एवं सति पट्ठाने चतुक्खत्तुं कामरागेन योजना न सिया, तिक्खत्तुंयेव सिया, भवरागमूलिका च न सिया, एवञ्च संयोजनानं संयोजनेहि अट्ठविधेन योजना सिया, न दसविधा दस्सिताति यथावुत्ताहि योजनाहि मानस्स अनियतभावो पकासितो. अथ वा मानेन सद्धिं पञ्च होन्ति यथावुत्तानि अपण्णकङ्गानि, किं पन होन्तीति अपेक्खायं येवापनकाति विदितोवायमत्थो. येवापनकानञ्हि पञ्चभावो इध विधीयति, न अपण्णकङ्गानन्ति सो यथा होति, तथा योजेतब्बं. किलेसदुके पटिच्चवारादीसु ‘‘किलेसं धम्मं पटिच्च किलेसो धम्मो उप्पज्जति हेतुपच्चया’’तिआदीसु ‘‘लोभं पटिच्च मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं. लोभं पटिच्च मोहो मानो उद्धच्चं अहिरिकं अनोत्तप्पं. लोभं पटिच्च मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं. लोभं पटिच्च मोहो उद्धच्चं अहिरिकं अनोत्तप्प’’न्ति विभत्तत्ता ‘‘तथा किलेसदुकेपी’’ति वुत्तं. दिट्ठिविप्पयुत्तससङ्खारिकासङ्खारिकचित्तवसेन हि अयं पाठभेदोति.
‘‘कामरागो चतुधा एकतो उप्पज्जति, पटिघो तिधा, मानो एकधा, तथा विचिकिच्छा भवरागोति उद्दिसित्वा कामरागो मानसंयोजनअविज्जासंयोजनेहि चेव अविज्जासंयोजनमत्तेनेव च सद्धिं मानो भवरागाविज्जासंयोजनेहि सद्धिं भवरागो अविज्जासंयोजनेन सद्धि’’न्ति अट्ठकथाकण्डवण्णनायं (ध. स. अट्ठ. १४८५) वक्खमानत्ता ‘‘इध च वक्खती’’तिआदि वुत्तं. तत्थेव ‘‘लोभो छधा एकतो उप्पज्जति, पटिघो द्वेधा, तथा मोहो’’ति उद्दिसित्वा ‘‘लोभो असङ्खारिको दिट्ठिविप्पयुत्तो मोहउद्धच्चअहिरिकानोत्तप्पेहि, ससङ्खारिको मोहथिनउद्धच्चअहिरिकानोत्तप्पेहि, असङ्खारिको एव मोहमानउद्धच्चअहिरिकअनोत्तप्पेहि, ससङ्खारिको एव च मोहमानथिनउद्धच्चअहिरिकअनोत्तप्पेही’’ति वक्खमानत्ता ‘‘तथादसविधा किलेसान’’न्ति वुत्तं. ‘‘अह’’न्ति गहणताय अवंकत्वा गहणम्पि ‘‘सम्पग्गहो’’ति वुत्तं.
चतुत्थचित्तवण्णना
४०२. उस्साहं जनेन्ताति एत्थ चित्तपयोगसङ्खातो सङ्खारो एव उस्साहो, न वीरियुस्साहोति.
नवमचित्तवण्णना
४१३. विसप्पनानिट्ठरूपसमुट्ठानं येन कुपितस्स सकलसरीरं कम्पति, कुपिताकारो पञ्ञायति. एतेन सम्पत्तिअत्थो रसो दस्सितो होति, पवत्तिआकारवसेन वा विसप्पनरसो. तथा हि यस्स कुप्पति, तस्स अमित्तस्स सम्पत्ति येभुय्येन पटिघुप्पत्तिहेतु होतीति. एतेन किच्चत्थो रसो वुत्तो होतीति.
४१८. वचनत्थमेव वचनपरियायमेव.
एकादसमचित्तवण्णना
४२४. निच्छयाभावाति अधिमोक्खाभावा. असण्ठहनतोति सन्तानवसेन एकस्मिं आरम्मणे अनवट्ठानतो.
द्वादसमचित्तवण्णना
४२९. सहजाताधिपति नत्थि ‘‘छन्दवतो चे विचिकिच्छा उप्पज्जति, सा मय्हं उप्पज्जेय्या’’तिआदिप्पवत्तिया अभावा. अनुद्धटत्ता पटिसिद्धता, यथाधम्मसासने अवचनम्पि अभावं दीपेति.
अवचनतोति अ-कारस्स तदञ्ञवचनतं दस्सेति. एतेन च दस्सनेन पहातब्बेसु अभाववचनेन कारणसिद्धिया फलसिद्धीति तत्थ अभावस्स कारणमेव ताव दस्सेतुं ‘‘पटिसन्धिअनाकड्ढनतो’’ति वुत्तं. तेन तंसभावता तस्स चित्तुप्पादस्स वुत्ता होति. ततो च ‘‘बलवं पटिसन्धिं आकड्ढति, दुब्बलं नाकड्ढती’’ति इदं पटिसन्धिदानसभावेसु. यस्स पन पटिसन्धिदानसभावो एव नत्थि, न तस्स बलवभावो पटिसन्धिआकड्ढने कारणन्ति अयमत्थो दस्सितो होति. अनाकड्ढनं साधेति ‘‘यदि हि आकड्ढेय्या’’तिआदिना. यस्मा च नागतं, तस्मा नाकड्ढतीति अधिप्पायो. ‘‘यस्मा पन तं पटिसन्धिदानं नत्थि, तस्मा नागत’’न्ति वुत्तत्ता ‘‘अनाकड्ढनतो अनागमनं साधेतु’’न्ति वुत्तं.
अपायगमनीयस्साति अपायं गमेतीति अपायगमनीयं, तंसभावन्ति अत्थो. पटिसन्धिआकड्ढने सति उद्धच्चसहगतं एकन्तेन अपायगमनीयं सिया. तेन वुत्तं अट्ठकथायं (ध. स. अट्ठ. ४२९) ‘‘इतरस्सापि एत्थेव पटिसन्धिदानं भवेय्या’’ति. न हि अकुसलपटिसन्धि सुगतियं सम्भवतीति. ‘‘चतूहि अपायेहि च विप्पमुत्तो (खु. पा. ६.११; सु. नि. २३४) अविनिपातधम्मो’’ति (स. नि. २.४१; ५.९९८, १००४) वचनतो अपायगमनीयञ्च दस्सनेन पहातब्बं. तेनाह ‘‘अपायगमनीयस्स दस्सनेन पहातब्बत्ता’’ति. न चेतं दस्सनेन पहातब्बं, न सो तस्स अपायगमनीयो रागो दोसो मोहो तदेकट्ठा च किलेसाति एतेन सङ्गहोति सक्का वत्तुं नियोगतो भावनाय पहातब्बभावेन वुत्तत्ता. वुत्तञ्हेतं ‘‘कतमे धम्मा भावनाय पहातब्बा, उद्धच्चसहगतो चित्तुप्पादो’’ति (ध. स. १४०६).
‘‘कुसलाकुसलं कम्मं विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२७) वुत्तकम्मपच्चयभावो नानाक्खणिककम्मपच्चयभावो. सो च यदि उद्धच्चसहगतं पटिसन्धिं आकड्ढेय्य, तस्सापि सिया. तथा च सति उद्धच्चसहगतं दस्सनेन पहातब्बं सिया दस्सनेन पहातब्बानंयेव नानाक्खणिककम्मपच्चयभावस्स वुत्तत्ता. न चेतं दस्सेनेन पहातब्बन्ति सब्बं पुब्बे विय आवत्तति.
सहजातमेव विभत्तन्ति यथा दस्सनेन पहातब्बविभङ्गे ‘‘दस्सनेन पहातब्बो धम्मो नेव दस्सनेन न भावनाय पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.८६) सहजातं नानाक्खणिकन्ति उद्दिसित्वा ‘‘सहजाता दस्सनेन पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो, नानाक्खणिका दस्सनेन पहातब्बा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति विभत्तं, एवं अविभजित्वा ‘‘भावनाय पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.८९) एत्तकमेव वुत्तं, न वुत्तं ‘‘नानाक्खणिका चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति. तेन न भावनाय पहातब्बस्स नानाक्खणिककम्मपच्चयभावोति विञ्ञायति. पच्चनीयेपि यथासम्भवं सङ्गाहकपच्चयानं वसेन पच्चयुद्धारे करियमाने. इतरत्थ चाति दस्सनेनपहातब्बपदे. तत्थ हि ‘‘दस्सनेन पहातब्बो धम्मो नेव दस्सनेन न भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, सहजातउपनिस्सयपच्छाजातकम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.७१) कम्मपच्चयोपि वुत्तोति.
तदभावाति नानाक्खणिककम्मपच्चयत्ताभावा. न च नानाक्खणिककम्मपच्चयं विना पटिसन्धिआकड्ढनं अत्थीति ‘‘पटिसन्धिअनाकड्ढनतो तत्थ अनागता’’ति वुत्तं. एत्थाति ‘‘ठपेत्वा उद्धच्चसहगतं सेसानि एकादसेव पटिसन्धिं आकड्ढन्ती’’ति एत्थ. पवत्तिविपाकस्साति पवत्तियं विपाको पवत्तिएकदेसताय पवत्तिभूतो वा विपाको एतस्साति पवत्तिविपाकं, कम्मं, तस्स. अथ वा पवत्तियं विपाको पवत्तिविपाको. इमस्मिं पन अत्थे नानाक्खणिककम्मपच्चयो एतस्साति नाना…पे… यो, तब्भावो…पे… ताति एवं पदच्छेदो दट्ठब्बो. न सक्का निवारेतुं नानाक्खणिककम्मपच्चयं विना विपाकस्स अनुप्पज्जनतो.
इदानि पवत्तिविपाकानं नानाक्खणिककम्मपच्चयलाभिताय आहच्चभासिततं दस्सेतुं ‘‘वुत्तञ्चा’’तिआदिमाह. विपाकदानं पटिसन्धिविपाकधम्मताति मञ्ञमानो ‘‘यदि भावना’’तिआदिमाह. इतरो विपाकदानाभावेपि सिद्धो विपाकधम्मभावो तादिसानं अञ्ञेसम्पि लब्भमानत्ताति आह ‘‘अभिञ्ञाचित्तादीन’’न्ति. आदि-सद्देन अत्तनो कालमतिक्कन्तं दिट्ठधम्मवेदनीयं उपपज्जवेदनीयञ्च सङ्गण्हाति. वुत्तं सियाति इदं सहायपच्चयलाभतो पुथुज्जनसन्तानवुत्तिनो उद्धच्चसहगतस्स विपाकुप्पादनं, तदभावा सेक्खसन्ततियं तस्स विपाकानुप्पादनञ्च युत्तं सियाति वुत्तं. तेनेवाह ‘‘इदं पन ठानं सुट्ठु विचारेतब्ब’’न्तिआदि. तथा च वक्खति ‘‘पुथुज्जनेसु उप्पज्जमानानं सकभण्डे छन्दरागादीनं उद्धच्चसहगतचित्तुप्पादस्स च संयोजनत्तयतदेकट्ठकिलेसानं अनुपच्छिन्नताय अपरिक्खीणसहायानं विपाकुप्पादनं न सक्का पटिक्खिपितुन्ति उद्धच्चसहगतधम्मानं विपाको विभङ्गे वुत्तो’’ति. तस्स तादिसस्सेव सति सहाये विपाकुप्पादनवचनं, असति विपाकानुप्पादनवचनं विरुज्झतीति च पवत्तिविपाकदायिकं वा उद्धच्चसहगतस्स मनसि कत्वा ‘‘वुत्तं सिया’’ति वुत्तं. ‘‘पवत्तिविपाकञ्हि सन्धाय ‘तेसं विपाके ञाण’न्ति पटिसम्भिदाविभङ्गे (विभ. ७२५-७२६) वुत्त’’न्ति एके वण्णयन्ति. एवं उद्धच्चचेतनापि न होति, सापि विञ्ञाणपच्चयभावे अपनेतब्बाति इदम्पि पटिसन्धिविञ्ञाणमेव सन्धाय वुत्तन्ति.
अकुसलपदवण्णना निट्ठिता.