अब्याकतपदं

अहेतुककुसलविपाकवण्णना

४३१. कामावचर…पे… आदि वुत्तन्ति एत्थ आदि-सद्देन ‘‘उपचितत्ता’’ति पदं सङ्गय्हति ‘‘असाधारणकम्मपच्चयवसेना’’ति वुत्तत्ता. ‘‘उपचितत्ताति लद्धासेवनत्ता’’ति केचि वदन्ति, तं पठमजवनस्स न युज्जति अनासेवनत्ता. तथा च सति तस्स विपाकदानमेव न सियाति ततो अञ्ञथा अत्थं दस्सेन्तो ‘‘यथा’’तिआदिमाह. तत्थ विपाकाभिमुखन्ति विपाकदानाभिमुखं कतोकासं. कतोकासता च अनादिम्हि संसारे अनेकेसं कम्मानं कतानं अत्थिताय परस्स पटिबाहनेन होतीति ‘‘अञ्ञस्स विपाकं पटिबाहित्वा’’तिआदि वुत्तं. वड्ढितता च सकम्मस्स बलदानसमत्थतावसेन अत्तनो कारणेहि अभिसङ्खतता. असाधारणेन नामं उद्धटं ‘‘भेरीसद्दो यवङ्कुरो’’ति यथा. विञ्ञाणानन्ति चक्खुविञ्ञाणादीनं. विसेसपच्चयत्ताति अधिकपच्चयत्ता.

चक्खुसन्निस्सितञ्च तं रूपविजाननञ्चाति एतेन समानाधिकरणतं समासस्स दस्सेन्तो तत्थ च ‘‘चक्खुसन्निस्सित’’न्तिआदिपदद्वयस्स नीलुप्पलसद्दादीनं विय अञ्ञमञ्ञविसेसनविसेसितब्बभावमाह. अञ्ञविञ्ञाणन्ति रूपारम्मणं मनोविञ्ञाणं. रूपंयेवारम्मणन्ति पन अत्थे दिब्बचक्खुविञ्ञाणं दट्ठब्बं तंसदिसानं तदुपचारं कत्वा यथा ‘‘सा एव तित्तिरी तानि एव ओसधानी’’ति. झानपच्चयत्ताभावे न झानङ्गता नत्थीति पञ्चविञ्ञाणेसु उपेक्खादीनं उपचरितझानङ्गतं साधेति. न हि झानङ्गानं झानपच्चयतं वत्वा तेसं झानपच्चयभावो पटिक्खित्तोति. यदि एवं पञ्चविञ्ञाणेसु उपेक्खादयो झानरासिट्ठाने न वत्तब्बा सियुन्ति आह ‘‘झानपच्चयत्ताभावे’’तिआदि. उपेक्खादिभावतोति उपेक्खासुखदुक्खेकग्गताभावतो. अञ्ञट्ठानाभावतोति चित्तट्ठितिं एव सन्धाय वुत्तं.

४३६. अकुसलं भवङ्गनिस्सन्देन ‘‘पण्डर’’न्ति वुच्चति, भवङ्गे अपण्डरे तंमूलिका कुतो अकुसलस्स पण्डरताति ‘‘अकुसलस्स चा’’ति वुत्तं. पण्डरताय कारणं वत्तब्बं, यदि अञ्ञकारणा पण्डरता, सभावोवायन्ति चित्तस्स अकिलेससभावताय वुत्तं, न चेत्थ फस्सादीनम्पि पण्डरतापत्ति. यतो धम्मानं सभावकिच्चविसेसञ्ञुना भगवता विञ्ञाणंयेव तथा निद्दिट्ठन्ति.

४३९. अनतिक्कमनेन भावनाय. पसादघट्टनं विसयस्स योग्यदेसे अवट्ठानन्ति ‘‘पसादं घट्टेत्वा आपाथं गन्त्वा’’ति वुत्तं. महाभूतेसु पटिहञ्ञतीति एत्थ न सयं किञ्चि पटिहञ्ञति, नापि केनचि पटिहञ्ञीयति अफोट्ठब्बसभावत्ता. विसयविसयीभूतं पन अभिमुखभावप्पत्तिया विञ्ञाणुप्पत्तिया हेतुताय विसिट्ठभावप्पत्तं पटिहतपटिघातकभावेन वोहरीयति, तस्मा तेसु सप्पटिघवोहारो. ‘‘उपादारूपं घट्टेतीति एवमादि च उपचारवसेनेव वेदितब्बं. महाभूतारम्मणेन पन कायप्पसादनिस्सयभूतेसु महाभूतेसु घट्टियमानेसु पसादोपि घट्टितो एव नाम होतीति वत्वा वीमंसितब्ब’’न्ति वदन्ति. यथाधिप्पेतेन एकदेससामञ्ञेन उपमावचनतो निस्सितनिस्सयघट्टनानं सतिपि पुब्बापरभावे उपमत्ते उपमाभावेन गहेतब्बभावं दस्सेन्तो ‘‘उभयघट्टनदस्सनत्थ’’न्ति आह.

४५५. दस्सनादिप्पवत्तिभावतोति मनोधातुमनोविञ्ञाणधातूनं अदस्सनादिताय सा एतेसं एव विसेसो. अनञ्ञनिस्सयमनोपुब्बङ्गमतायाति अञ्ञनिस्सयमनोपुब्बङ्गमत्ताभावतो. अञ्ञनिस्सयविञ्ञाणस्स अनन्तरपच्चयत्ताभावेनाति इमिना किरियामनोधातुतोपि विसेसस्स वुत्तत्ता ‘‘मनोद्वारनिग्गमनमुखभावाभावतो’’ति वुत्तं, न वुत्तं ‘‘निग्गमनपवेसमुखभावाभावतो’’ति. तिविधेनपि हि मनोधातुविञ्ञाणधातूहि मनोविञ्ञाणधातुया विसेसो दस्सितोति. ततो एव विजाननविसेसविरहतोयेव. यदि मनोधातु ‘‘मनोविञ्ञाण’’न्ति न वुच्चति, छविञ्ञाणकायाति कथं मनोधातुया तत्थ सङ्गहो होतीति? सङ्गहो एव परियायदेसनत्ता. अत्थि हि एस परियायो ‘‘मननमत्तं विञ्ञाणं मनोविञ्ञाण’’न्ति यथा ‘‘मननमत्ता धातु मनोधातू’’ति. अपिच वत्थुकिच्चेहि मनोविञ्ञाणसभागत्ता तस्स उपरमुप्पादभावतो अन्तादिभावतो च मनोविञ्ञाणकायसङ्गहिता मनोधातु, न सेसविञ्ञाणकायसङ्गहिता अतंसभागत्ता, इध पन निप्परियायकतत्ता मनसो सम्भूय विसिट्ठमनोकिच्चयुत्तं मनोविञ्ञाणन्ति तदभावतो ‘‘मनोविञ्ञाणन्तिपि न वुच्चती’’ति इममेवत्थं साधेतुं ‘‘न हि तं विञ्ञाणं मनतो’’तिआदि वुत्तं. तेन मनोधातुया निप्परियायतो मनोविञ्ञाणकिच्चविरहंयेव दस्सेति. दस्सनादीनं पनातिआदिना अञ्ञविञ्ञाणविधुरं मनोधातुया च सभावं दस्सेति.

यदि जनकसदिसता नाम महाविपाकेसु वितक्कादीनं सम्मासङ्कप्पादिता, तिहेतुकतो निब्बत्तानं तिहेतुकानं, दुहेतुकतो निब्बत्तानं दुहेतुकानञ्च भवतु सम्मासङ्कप्पादिता, तिहेतुकतो पन निब्बत्तदुहेतुकानं कथन्ति आह ‘‘तत्थ ही’’तिआदि. तंसोतपतितता न सिया तस्सा अनानन्तरत्ता. ततो एव हीतिआदिना वुत्तसोतपतितं एवानन्तरेन वचनेन समत्थयति. यदि विज्जमानानम्पि मनोधातुआदीसु वितक्कादीनं पञ्चविञ्ञाणेसु विय अगणनूपगभावो, एवं सन्ते पट्ठाने कथं तेसं झानपच्चयतावचनं. ‘‘अब्याकतो धम्मो अब्याकतस्स धम्मस्स झानपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४३१), ‘‘विपाकाब्याकतानि किरियाब्याकतानि झानङ्गानि सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४३१) हि वुत्तं. पच्चनीयेपि ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति न झानपच्चया, पञ्चविञ्ञाणसहितं एकं खन्धं पटिच्च तयो खन्धा’’तिआदिना (पट्ठा. १.१.९८) पञ्चविञ्ञाणानि एव उद्धटानि, न मनोधातुआदीनीति आह ‘‘झानपच्चयकिच्चमत्ततो’’तिआदि. न हेत्थ झानङ्गानं बलवदुब्बलभावो अधिकतो, अथ खो झानपच्चयभावमत्तन्ति अधिप्पायो.

४६९. समानवत्थुकं अनन्तरपच्चयं लभित्वाति दस्सनादितो मनोधातुया च बलवभावे कारणवचनं. यथारम्मणन्ति आरम्मणानुरूपं. यदि समाननिस्सयताय मनोधातुतो बलवतरत्तं विपाकमनोविञ्ञाणधातुया सोमनस्ससहगताय, वोट्ठब्बनं कथं मज्झत्तवेदनन्ति अनुयोगं मनसि कत्वा तस्स बलवभावं सम्पटिच्छित्वा सन्ततिपरिणामनब्यापारविसेसा न सोमनस्सवेदनन्ति परिहारं वदन्तो ‘‘वोट्ठब्बन’’न्तिआदिमाह. विपाको विय अनुभवनमेव न होतीति सति समत्थताय विपाकानं एकन्तेन आरम्मणरसानुभवनताय वुत्तं.

अहेतुककुसलविपाकवण्णना निट्ठिता.

अट्ठमहाविपाकचित्तवण्णना

४९८. विपाकधम्मानं कम्मद्वारं वुत्तं द्वारकथायं ‘‘तेभूमककुसलाकुसलो एकूनतिंसविधो मनो’’ति (ध. स. अट्ठ. मनोकम्मद्वारकथा). पयोगेनाति अत्तना परेहि वा कतेन उस्साहनपयोगेन. कुसलाकुसलानि विय येसं तं तदारम्मणं अनुबन्धभूतं. पठमपञ्चमचित्तानं अञ्ञमञ्ञबलवदुब्बलभावविचारेन दुतियछट्ठादीनम्पि सो विचारितो होतीति ‘‘एतेसु बलवं दुब्बलञ्च विचारेतु’’न्ति वुत्तं. यथा सालिआदीनं थद्धमुदुभूमिवसेन तिणादीनं अनीहरणनीहरणवसेन उतुआदिअवसेसपच्चयानं विपत्तिसम्पत्तिवसेन च फलविसेसयोगो, एवं कम्मस्स सुगतिदुग्गतिवसेन अविसुद्धविसुद्धपयोगवसेन उपपत्तिया विपत्तिसम्पत्तिवसेन च विसिट्ठफलताय परिणमनं, एवमेव गिम्हवस्सकालादीसु बीजानं फलविसेसयोगो विय तंतंकालविसेसेन कम्मस्स फलविसेसयोगो होतीति आह ‘‘कालवसेन परिणमती’’ति. सुक्कसोणितपच्चयानन्ति कम्मविसेसपरिभावितसन्तानुप्पन्नताय सुक्कसोणितानं आयुविसेसहेतुभावमाह सुक्कसोणितवसेनपि वण्णादिविसेसदस्सनतो, येन ‘‘पितूनं आकारं पुत्तो अनुविदहती’’ति वुच्चति. तंमूलकानन्ति अप्पायुकसंवत्तनियकम्ममूलकानं. आहारादीति आदि-सद्देन विसमूपक्कमादयो परिग्गण्हाति.

विपाकुद्धारकथावण्णना

यतो तिहेतुकादिकम्मतो. यस्मिञ्च ठानेति पटिसन्धिआदिट्ठाने, सुगतिदुग्गतियं वा. तिहेतुकतो दुहेतुकं अनिच्छन्तो पटिसन्धिन्ति अधिप्पायो. पवत्तिविपाकं पन तिहेतुकतो दुहेतुकम्पि इच्छति एव. तथा हि वक्खति अट्ठकथायं ‘‘यं पुरिमाय हेतुकित्तनलद्धिया न युज्जती’’ति (ध. स. अट्ठ. ४९८).

ये ‘‘तस्सेव कम्मस्स विपाकावसेसेना’’ति, ‘‘एकपुप्फं यजित्वान, असीति कप्पकोटियो (थेरगा. ९६). दुग्गतिं नाभिजानामी’’ति (अप. थेर २.४६.६४) च एवमादिवचनस्स अधिप्पायं अजानन्ता ‘‘किं नु खो एकेनपि कम्मेन अनेका पटिसन्धि होती’’ति, ‘‘दिस्वा कुमारं सतपुञ्ञलक्खण’’न्तिआदिवचनस्स (दी. नि. ३.२०५) अत्थं असल्लक्खेत्वा ‘‘किन्नु खो नानाकम्मेहि एका पटिसन्धि होती’’ति संसयपक्खन्दा, तेसं बीजङ्कुरोपमाय ‘‘एकस्मा एका, अनेकस्मा च अनेका पटिसन्धि होती’’ति विनिच्छितत्ता कम्मपटिसन्धिववत्थानतो साकेतपञ्हे विपाकुद्धारकथाय उस्सदकित्तनगहणस्स सम्बन्धं आह ‘‘कम्मवसेन…पे… दस्सेतु’’न्ति. पटिसन्धिजनककम्मवसेन पटिसन्धिविपाको एव अलोभलोभादिगुणदोसातिरेकभावहेतूति अत्थो दट्ठब्बो. तथा हि वुत्तं ‘‘सो तेन कम्मेन दिन्नपटिसन्धिवसेन निब्बत्तो लुद्धो होती’’तिआदि. एत्थ च लोभवसेन, दोस, मोह, लोभदोस, लोभमोह, दोसमोह, लोभदोसमोहवसेनाति तयो एकका, तयो द्विका, एको तिकोति लोभादिदस्सनवसेन अकुसलपक्खेयेव सत्त वारा. तथा कुसलपक्खे अलोभादिदस्सनवसेनाति चुद्दस वारा लब्भन्ति.

तत्थ ‘‘अलोभदोसामोहा, अलोभादोसमोहा, अलोभदोसामोहा बलवन्तो’’ति आगतेहि कुसलपक्खे ततियदुतियपठमवारेहि दोसुस्सदमोहुस्सददोसमोहुस्सदवारा गहिता. तथा अकुसलपक्खे ‘‘लोभादोसमोहा, लोभदोसामोहा, लोभादोसामोहा बलवन्तो’’ति आगतेहि ततियदुतियपठमवारेहि अदोसुस्सदअमोहुस्सदअदोसामोहुस्सदवारा गहितायेवाति अकुसलकुसलपक्खे तयो तयो वारे अन्तोगधे कत्वा अट्ठेव वारा दस्सिता. ये पन उभयेसं वोमिस्सतावसेनेव लोभालोभुस्सदवारादयो अपरे एकूनपञ्ञास वारा दस्सेतब्बा, ते असम्भवतो एव न दस्सिता. न हि एकस्मिं सन्ताने अन्तरेन अवत्थन्तरं लोभो बलवा अलोभो चाति युज्जति. पटिपक्खतोयेव हि एतेसं बलवदुब्बलभावो, सहजातधम्मतो वा. तेसु लोभस्स ताव पटिपक्खतो अलोभेन अनभिभूतताय बलवभावो, तथा दोसमोहानं अदोसामोहेहि. अलोभादीनं पन लोभादिअभिभवनतो सब्बेसञ्च समानजातियं समभिभूय पवत्तिवसेनेव सहजातधम्मतो बलवभावो. तेन वुत्तं अट्ठकथायं ‘‘लोभो बलवा, अलोभो मन्दो, अदोसामोहा बलवन्तो, दोसमोहा मन्दा’’ति. सो च तेसं मन्दबलवभावो पुरिमूपनिस्सयतो आसयस्स परिभावितताय वेदितब्बो. एत्थ च पठमदुतियेहि, सत्तमपठमेहि वा वारेहि तिहेतुककम्मतो पटिसन्धिपवत्तिवसेन तिहेतुकविपाको, इतरेहि तिहेतुकदुहेतुककम्मतो यथासम्भवं पटिसन्धिपवत्तिवसेन दुहेतुकाहेतुकविपाका दस्सिताति अयम्पि विसेसो वेदितब्बो.

इधाति विपाकुद्धारमातिकायं. तेन हेतुकित्तनं विसेसेति. जच्चन्धादिविपत्तिनिमित्तं मोहो, सब्बाकुसलं वा. यं पन वुत्तन्ति सम्बन्धो. तेन पटिसम्भिदामग्गवचनेन. गतिसम्पत्तिया सति ञाणसम्पयुत्ते पटिसन्धिम्हि निप्फादेतब्बे. अञ्ञत्थाति निकन्तिपटिसन्धिक्खणेसु. कम्मसरिक्खकोति इध सातिसयो सरिक्खभावो अधिप्पेतोति दट्ठब्बो. इतरथा तिहेतुकदुहेतुकापि अञ्ञमञ्ञं सरिक्खायेवाति दस्सितमेतन्ति. चक्खुविञ्ञाणादीनीति एत्थ पञ्चविञ्ञाणानि विय अपुब्बनिस्सयपवत्तिनी विजाननविसेसरहिता च मनोधातु इट्ठादिभागग्गहणे न समत्थाति ‘‘पाकटायेवा’’ति न वुत्ता, आदि-सद्देन वा सङ्गहिता. तदारम्मणपच्चयसब्बजवनवताति तदारम्मणस्स पच्चयभूतसकलजवनप्पवत्तिसहितेन. यं सन्धाय ‘‘इध परिपक्कत्ता आयतनान’’न्ति वुत्तं. अञ्ञकालेति अबुद्धिपवत्तिकाले.

अनुलोमेति धम्मानुलोमे. आसेवनपच्चयाति आसेवनभूता पच्चया. न मग्गे अमग्गपच्चये. सोपि मोघवारो लब्भेय्याति यदि वोट्ठब्बनम्पि आसेवनपच्चयो सिया, यथा ‘‘सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति आसेवनपच्चया न (पट्ठा. १.२.३) मग्गपच्चया’’ति (पट्ठा. १.२.१४) अनुलोमपच्चनीये, पच्चनीयानुलोमे च ‘‘सुखा…पे… न मग्गपच्चया आसेवनपच्चया’’ति च वुत्तं हसितुप्पादचित्तवसेन, एवं वोट्ठब्बनवसेन ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्चा’’तिआदिना पुब्बे वुत्तनयेन पाठो सिया, तथा च सति वारद्वयवसेन गणनायं ‘‘आसेवनपच्चया न मग्गे द्वे. न मग्गपच्चया आसेवने द्वे’’ति च वत्तब्बं सिया, न पन वुत्तं, तस्मा न लब्भेय्यायं मोघवारोति अधिप्पायो.

वोट्ठब्बनम्पि यदि आसेवनपच्चयो सिया, दुतियमोघवारे अत्तनो विय ततियचतुत्थवारेसुपि सिया, तथा सति अत्तनापि कुसलाकुसलानं सिया. न हि…पे… अवुत्तो अत्थि ‘‘पुरिमा पुरिमा कुसला धम्मा’’तिआदिना अनवसेसतो वुत्तत्ता. वोट्ठब्बनस्स…पे… अवुत्तो ‘‘अब्याकतो धम्मो कुसलस्स धम्मस्स आसेवनपच्चयेन पच्चयो. अकुसलस्स…पे… पच्चयो’’ति वचनाभावतो. न केवलं अवुत्तो, अथ खो कुसलं…पे… पटिक्खित्तोव. अथापि सियातिआदि मग्गसोधनत्थमेव वुच्चति. समानवेदनानं एव आसेवनपच्चयभावस्स दस्सनतो ‘‘असमानवेदनानं वसेना’’ति वुत्तं. एवं ‘‘आसेवन पच्चयेन पच्चयो’’तिपि वत्तब्बं सिया, समानवेदनावसेनाति अधिप्पायो. अभिन्नजातिकस्स चाति च-सद्दो अभिन्नवेदनस्स चाति सम्पिण्डनत्थो. वेदनात्तिकेपि वोट्ठब्बनस्स आसेवनपच्चयत्तस्स अभावाति योजना. कुसलत्तिकादीसु यथादस्सितपाळिप्पदेसेसुपीति सम्पिण्डनत्थो पि-सद्दो. गणनाय कारणभूताय गणनाय निद्धारियमानाय सति गणनाय वा अब्भन्तरे. दुतियो मोघवारो वीमंसितब्बोति आसेवनपच्चयत्ताभावा जवनट्ठाने ठातुं न युज्जति. न हि विना आसेवनं जवनप्पवत्ति अत्थीति अधिप्पायो.

अपिचेत्थ ‘‘यं जवनभावप्पत्तं, तं छिन्नमूलकरुक्खपुप्फं विया’’ति (ध. स. अट्ठ. ५६६) वक्खमानत्ता अनुपच्छिन्नभवमूलानं पवत्तमानस्स वोट्ठब्बनस्स किरियभावो न सिया, वुत्तो च ‘‘यस्मिं समये मनोविञ्ञाणधातु उप्पन्ना होति किरिया नेव कुसला नाकुसला न च कम्मविपाका उपेक्खासहगता’’ति, तस्मा ‘‘जवनट्ठाने ठत्वाति जवनस्स उप्पज्जनट्ठाने द्विक्खत्तुं पवत्तित्वा, न जवनभावेना’’ति, ‘‘आसेवनं लभित्वाति च आसेवनं विय आसेवन’’न्ति वुच्चमाने न कोचि विरोधो, विप्फारिकस्स पन सतो द्विक्खत्तुं पवत्तियेवेत्थ आसेवनसदिसता. विप्फारिकताय हि विञ्ञत्तिसमुट्ठापकत्तञ्चस्स वुच्चति. विप्फारिकम्पि जवनं विय अनेकक्खत्तुं अप्पवत्तिया दुब्बलत्ता न निप्परियायतो आसेवनपच्चयभावेन पवत्तेय्याति न इमस्स पाठे आसेवनत्थं वुत्तं, अट्ठकथायं पन परियायतो वुत्तं यथा ‘‘फलचित्तेसु मग्गङ्गं मग्गपरियापन्न’’न्ति. अयमेत्थ अत्तनोमति. अयम्पि पोराणकेहि असंवण्णितत्ता साधुकं उपपरिक्खितब्बो.

एवञ्च कत्वाति वोट्ठब्बनावज्जनानं अनत्थन्तरभावतो ‘‘आवज्जना’’इच्चेव वुत्तं, वोट्ठब्बनट्ठानेपीति अधिप्पायो. तस्माति यस्मा वोट्ठब्बनं आवज्जनायेव अत्थतो उपेक्खासहगताहेतुककिरियमनोविञ्ञाणधातुभावतो, तस्मा. तं आवज्जना विय सति उप्पत्तियं कामावचरकुसलाकुसलकिरियजवनानं एकन्ततो अनन्तरपच्चयभावेनेव वत्तेय्य, नो अञ्ञथाति अधिप्पायेन ‘‘वोट्ठब्बनतो’’तिआदिमाह. चतुन्नन्ति मुञ्छामरणासन्नवेलादीसु मन्दीभूतवेगताय चत्तारिपि जवनानि उप्पज्जेय्युन्ति अधिप्पायेन वुत्तं. अयमेतस्स सभावोति आरम्मणमुखेनपि चित्तनियामंयेव दस्सेति. यदिपि ‘‘जवनापारिपूरिया…पे… युत्तो’’ति वुत्तं, ‘‘आवज्जनादीनं पच्चयो भवितुं न सक्कोती’’ति पन वुत्तत्ता चित्तप्पवत्तिवसेन पठममोघवारतो एतस्स न कोचि विसेसो. तेनेवाह ‘‘अयम्पि…पे… रेतब्बो’’ति. पटिसन्धिचित्तेयेव पवत्तियं ‘‘भवङ्ग’’न्ति वुच्चमाने न तस्स हेतुवसेन भेदोति ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. ३.१.१०२) न सक्का वत्तुं, वुत्तञ्च, तस्मा सहेतुकं भवङ्गन्ति तदारम्मणं वुत्तन्ति विञ्ञायति.

सभावकिच्चेहि अत्तनो फलस्स पच्चयभावो, सभावकिच्चानं वा फलभूतानं पच्चयभावो सभावकिच्चपच्चयभावो. अप्पटिसिद्धं दट्ठब्बन्ति ‘‘दुहेतुकसोमनस्ससहगतअसङ्खारिकजवनावसाने एवा’’ति इमस्स अत्थस्स अनधिप्पेतत्ता. यथा च अहेतुकदुहेतुकपटिसन्धिकानं तिहेतुकजवनावसाने अहेतुकदुहेतुकतदारम्मणं अप्पटिसिद्धं, एवं तिहेतुकपटिसन्धिकस्स तिहेतुकजवनानन्तरं दुहेतुकतदारम्मणं, दुहेतुकपटिसन्धिकस्स च दुहेतुकानन्तरं अहेतुकतदारम्मणं अप्पटिसिद्धं दट्ठब्बं. ‘‘तिहेतुककम्मं तिहेतुकम्पि दुहेतुकम्पि अहेतुकम्पि विपाकं देती’’ति (ध. स. अट्ठ. ४९८) हि वुत्तं. परिपुण्णविपाकस्साति इमिनापि तिहेतुकजवनतो यथावुत्ततदारम्मणस्स अप्पटिसिद्धंयेव साधेति. न हि पच्चयन्तरसामग्गिया असति तदारम्मणं सब्बं अविपच्चन्तं कम्मं परिपुण्णविपाकं होतीति. मुखनिदस्सनमत्तमेव यथावुत्ततदारम्मणप्पवत्तिया अविभावितत्ता. तिहेतुकादिकम्मस्स हि उक्कट्ठस्स तिहेतुककम्मस्स सोळस, इतरस्स द्वादस, उक्कट्ठस्सेव दुहेतुककम्मस्स द्वादस, इतरस्स अट्ठाति एवं सोळसविपाकचित्तादीनि योजेतब्बानि. तस्माति यस्मा परिपुण्णविपाकस्स पटिसन्धिजनककम्मस्स वसेन विपाकविभावनाय मुखनिदस्सनमत्तमेवेतं, तस्मा.

एवञ्च कत्वाति नानाकम्मतो तदारम्मणुप्पत्तियं इतो अञ्ञथापि सम्भवतोति अत्थो. ‘‘उपेक्खा…पे… उप्पज्जती’’ति एत्थ केन किच्चेन उप्पज्जतीति? तदारम्मणकिच्चं ताव न होति जवनारम्मणस्स अनालम्बणतो, नापि सन्तीरणकिच्चं तथा अप्पवत्तनतो, पटिसन्धिचुतीसु वत्तब्बमेव नत्थि, पारिसेसतो भवङ्गकिच्चन्ति युत्तं सिया. न हि पटिसन्धिभूतंयेव चित्तं ‘‘भवङ्ग’’न्ति वुच्चतीति.

तन्निन्नन्ति आपाथगतविसयनिन्नं आवज्जनन्ति सम्बन्धो. अञ्ञस्स विय पठमज्झानादिकस्स विय. एतस्सपि सावज्जनताय भवितब्बन्ति अधिप्पायो. अतदत्थाति एत्थ तं-सद्देन निरोधं पच्चामसति. उप्पत्तियाति उप्पत्तितो. तन्ति नेवसञ्ञानासञ्ञायतनं. तस्स निरोधस्स. तथा च उप्पज्जतीति ‘‘अनन्तरपच्चयो होती’’ति पदस्स अत्थं विवरति. यथावुत्ता वुत्तप्पकारा. वोदानं दुतियमग्गादीनं पुरेचारिकञाणं. एतेसन्ति अरियमग्गचित्तमग्गानन्तरफलचित्तानं. एतस्साति यथावुत्तविपाकचित्तस्स.

उपनिस्सयतो तस्सेव चक्खुविञ्ञाणादिविपाकस्स दस्सनत्थं चक्खादीनं दस्सनादिअत्थतो दस्सनादिफलतो, दस्सनादिप्पयोजनतो वा. पुरिमचित्तानि आवज्जनादीनि. वत्थन्तररहितत्ते दस्सेतब्बे वत्थन्तरे विय आरम्मणन्तरेपि न वत्ततीति ‘‘वत्थारम्मणन्तररहित’’न्ति वुत्तं.

यदि विपाकेन कम्मसरिक्खेनेव भवितब्बं, एवं सति इमस्मिं वारे अहेतुकविपाकानं असम्भवो एव सिया तेसं अकम्मसरिक्खकत्ताति इममत्थं मनसि कत्वा आह ‘‘अहेतुकानं पना’’ति. अभिनिपातमत्तन्ति पञ्चन्नं विञ्ञाणानं किच्चमाह. ते हि आपाथगतेसु रूपादीसु अभिनिपातनमत्तेनेव वत्तन्ति. आदि-सद्देन सम्पटिच्छनादीनि सङ्गण्हाति. कुसलेसु कुसलाकुसलकिरियेसुपि वा विज्जमाना ससङ्खारिकासङ्खारिकता अञ्ञमञ्ञं असरिक्खत्ता पहानावट्ठानतो च विरुद्धा वियाति विपाकेसु सा तदनुकूला सिया, सा पन मूलाभावेन न सुप्पतिट्ठितानं सविसयाभिनिपतनमत्तादिवुत्तीनं नत्थीति वुत्तं ‘‘न ससङ्खारिकविरुद्धो’’तिआदि. उभयेनपि तेसं निब्बत्तिं अनुजानाति यथा ‘‘कटत्तारूपान’’न्ति अधिप्पायो. ‘‘विपाकधम्मधम्मो विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाकधम्मधम्मे खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दोमनस्सं उप्पज्जति, कुसलाकुसले निरुद्धे’’तिआदिना (पट्ठा. १.३.९३) विपाकत्तिके विय सिया कुसलत्तिकेपि पाळीति कत्वा ‘‘कुसलत्तिके चा’’तिआदि वुत्तं. तत्थ हि ‘‘कुसलो धम्मो अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति उद्दिसित्वा ‘‘सेक्खा वा पुथुज्जना वा कुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, कुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति, कुसलं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि, विचिकिच्छा, उद्धच्चं, दोमनस्सं उप्पज्जति, अकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’ति वुत्तं. अविज्जमानत्ता एव अवचनन्ति अधिप्पायेन तत्थ युत्तिं दस्सेति ‘‘विप्फारिकञ्ही’’तिआदिना.

एत्थ केचि ‘‘छळङ्गुपेक्खावतोपि किरियमयचित्तताय किरियजवनस्स विप्फारिककिरियभावो न सक्का निसेधेतुन्ति निदस्सनभावेन पण्णपुटमुपनीतं असमानं. किरियजवनानन्तरं तदारम्मणाभावस्स पाळियं अवचनम्पि अकारणं लब्भमानस्सपि कत्थचि केनचि अधिप्पायेन अवचनतो. तथा हि धम्मसङ्गहे अकुसलनिद्देसे लब्भमानोपि अधिपति न वुत्तो, तस्मा किरियजवनानन्तरं तदारम्मणाभावो वीमंसितब्बो’’ति वदन्ति. सतिपि किरियमयत्ते सब्बत्थ तादिभावप्पत्तानं खीणासवानं जवनचित्तं न इतरेसं विय विप्फारिकं, सन्तसभावताय पन सन्निसिन्नरसं सियाति तस्स पण्णपुटं दस्सितं. धम्मसङ्गहे अकुसलनिद्देसे अधिपतिनो विय पट्ठाने किरियजवनानन्तरं तदारम्मणस्स लब्भमानस्स अवचने न किञ्चि कारणं दिस्सति. तथा हि वुत्तं तत्थ अट्ठकथायं ‘‘हेट्ठा दस्सितनयत्ता’’ति (ध. स. अट्ठ. ४२९). न चेत्थ दस्सितनयत्ताति सक्का वत्तुं विपाकधम्मधम्मेहि कुसलाकुसलेहि अतंसभावानं नयदस्सनस्स अयुज्जमानकत्ता. अपिच तत्थ वीमंसाय केसुचि सब्बेसञ्च अधिपतीनं अभावतो एकरसं देसनं दस्सेतुं ‘‘उद्धटो’’ति च सक्का वत्तुं, इध पन न तादिसं अवचने कारणं लब्भतीति ‘‘अवचने कारणं नत्थी’’ति वुत्तं.

अधिप्पायेनाति अकुसलानन्तरं सहेतुकतदारम्मणं नत्थीति तस्स थेरस्स मतिमत्तन्ति दस्सेति. ‘‘कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्जती’’ति (पट्ठा. ३.१.९८) वचनतो पन अकुसलानन्तरं सहेतुकतदारम्मणम्पि विज्जतियेवाति उप्पत्तिं वदन्तस्स युत्तग्गहणवसेनाति अधिप्पायो.

न एत्थ कारणं दिस्सतीति एतेन तिहेतुकजवनानन्तरं तिविधम्पि तदारम्मणं युत्तन्ति दस्सेति. येन अधिप्पायेनाति पठमथेरेन ताव एकेन कम्मुना अनेकतदारम्मणं निब्बत्तमानं कम्मविसेसाभावा तंतंजवनसङ्खातपच्चयविसेसेन विसिट्ठं होतीति इमिना अधिप्पायेन जवनवसेन तदारम्मणस्स ससङ्खारादिविधानं वुत्तं, विपाकेन नाम कम्मसरिक्खेन भवितब्बं, न कम्मविरुद्धसभावेन. अञ्ञथा अनिट्ठप्पसङ्गो सियाति एवमधिप्पायेन दुतियत्थेरो कम्मवसेनेव तदारम्मणविसेसं आह. ञाणस्स जच्चन्धादिदुग्गतिविपत्तिनिमित्तपटिपक्खता विय सुगतिविपत्तिनिमित्तपटिपक्खतापि सियाति मञ्ञमानो ततियत्थेरो ‘‘तिहेतुककम्मतो दुहेतुकपटिसन्धिम्पि नानुजानाती’’ति इमिना नयेन तेसु वादेसु अधिप्पायाविरोधवसेन युत्तं गहेतब्बं. महापकरणे आगतपाळियाति ‘‘सहेतुको धम्मो अहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. ३.१.१०२) इमस्स विभङ्गे ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो, सहेतुका खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो’’ति एवमादिना पट्ठाने सहेतुकदुकादीसु आगतपाळियाति अत्थो.

कामावचरकुसलविपाकवण्णना निट्ठिता.

रूपावचरारूपावचरविपाककथावण्णना

४९९. तस्मिं खणे विज्जमानानं छन्दादीनन्ति एतेन विपाकज्झाने दुक्खापटिपदादिभावस्स अविज्जमानतं दस्सेति. न हि कुसलज्झानं विय विपाकज्झानं परिकम्मवसेन निब्बत्ततीति. न चेत्थ पटिपदाभेदो विय कुसलानुरूपो विपाकस्स आरम्मणभेदोपि न परमत्थिको सियाति सक्का वत्तुं एकन्तेन सारम्मणत्ता अरूपधम्मानं विपाकस्स च कम्मनिमित्तारम्मणताय अञ्ञत्रापि विज्जमानत्ता. नानाक्खणेसु नानाधिपतेय्यन्ति ‘‘यस्मिं खणे यं झानं यदधिपतिकं, ततो अञ्ञस्मिं खणे तं झानं एकन्तेन तदधिपतिकं न होती’’ति कत्वा वुत्तं. चतुत्थज्झानस्सेवाति च पटिपदा विय अधिपतयो न एकन्तिकाति इममेवत्थं दस्सेति.

रूपावचरारूपावचरविपाककथावण्णना निट्ठिता.

लोकुत्तरविपाककथावण्णना

५०५. तण्हाविज्जादीहि आहितविसेसं लोकियकम्मं विपाकुप्पादनसमत्थं होति, न अञ्ञथाति वुत्तं ‘‘तण्हादीहि अभिसङ्खत’’न्ति. इतरस्साति सुञ्ञताप्पणिहितनामरहितस्स. यो सुद्धिकपटिपदाय विभावितो, यो च सुत्तन्तपरियायेन अनिमित्तोति वुच्चति. तेनेवाह ‘‘अनिच्चानुपस्सनानन्तरस्सपि मग्गस्सा’’तिआदि. वळञ्जन…पे… भेदो होति मग्गागमनवसेनाति अधिप्पायो. ‘‘मग्गानन्तरफलचित्तस्मिं येवा’’ति वचनं अपेक्खित्वा ‘‘सुञ्ञतादिनामलाभे सती’’ति सासङ्कं आह. अनिमित्तनामञ्च लभति मग्गागमनतो फलस्स नामलाभे विसेसाभावतोति अधिप्पायो. तादिसाय एवाति यादिसा मग्गे सद्धा, तादिसाय एव फले सद्धाय.

५५५. ‘‘कतमे धम्मा निय्यानिका? चत्तारो मग्गा’’ति वचनतो (ध. स. १२९५, १६०९) अनिय्यानिकपदनिद्देसे च ‘‘चतूसु भूमीसु विपाको’’ति (ध. स. १६१०) वुत्तत्ता न निप्परियायेन फलं निय्यानसभावं, निय्यानसभावस्स पन विपाको किलेसानं पटिप्पस्सद्धिप्पहानवसेन पवत्तमानो परियायतो तथा वुच्चतीति आह ‘‘निय्यानिकसभावस्सा’’तिआदि. पञ्चङ्गिको चाति एतेन मग्गविभङ्गे सब्बवारेसुपि फलस्स मग्गपरियायो आगतोति दस्सेति. तत्थ हि अरियमग्गक्खणे विज्जमानासुपि विरतीसु तदवसिट्ठानं पञ्चन्नं कारापकङ्गानं अतिरेककिच्चतादस्सनत्थं पाळियं पञ्चङ्गिकोपि मग्गो उद्धटोति. एवं बोज्झङ्गापीति यथा मग्गो, एवं मग्गबोज्झङ्गविभङ्गेसु फलेसु च बोज्झङ्गा उद्धटाति अत्थो.

लोकुत्तरविपाककथावण्णना निट्ठिता.

किरियाब्याकतकथावण्णना

५६८. पुरिमा पवत्तीति महाकिरियचित्तप्पवत्तिं आह. ताय हि खीणासवो एवं पच्चवेक्खति. तेनेवाह ‘‘इदं पन चित्तं विचारणपञ्ञारहित’’न्ति. एवन्ति यथा सोतद्वारे, एवं घानद्वारादीसुपि महाकिरियचित्तेहि तस्मिं तस्मिं विसये इदमत्थिकताय परिच्छिन्नाय इदं चित्तं वत्ततीति दस्सेति. पञ्चद्वारानुगतं हुत्वा लब्भमानन्ति पञ्चद्वारे पवत्तमहाकिरियचित्तानं पिट्ठिवट्टकभावेन इमस्स चित्तस्स पवत्तिं सन्धाय वुत्तं, पञ्चद्वारे एव वा इदमेव पवत्तन्ति सम्बन्धो. ‘‘लोलुप्प…पे… भूत’’न्ति वुत्तत्ता पञ्चद्वारे पठमं इमिना चित्तेन सोमनस्सितो हुत्वा पच्छा महाकिरियचित्तेहि तं तं अत्थं विचिनोतीति अयमत्थो वुत्तो विय दिस्सति. पुब्बेयेव पन मनोद्वारिकचित्तेन पधानसारुप्पट्ठानादिं परिच्छिन्दन्तस्स पञ्चद्वारे तादिसस्सेव तादिसेसु रूपादीसु इदं चित्तं पवत्ततीति वदन्ति. अयम्पि अत्थो पञ्चद्वारे एव पवत्तं लोलुप्पतण्हापहानादिपच्चवेक्खणाहेतु यथावुत्तकारणभूतं जातन्ति एवं योजेत्वा सक्का वत्तुं. एवञ्च सति इमस्स चित्तस्स पच्चयभूता पुरिमा पवत्तीति इदम्पि वचनं समत्थितं होति.

एत्थ च पञ्चद्वारे इमिना चित्तेन सोमनस्सुप्पादनमत्तं दट्ठब्बं, न हासुप्पादनं पञ्चद्वारिकचित्तानं अविञ्ञत्तिजनकत्ता, मनोद्वारे पन हासुप्पादनं होति. तेनेव हि अट्ठकथायं पञ्चद्वारे ‘‘सोमनस्सितो होती’’ति एत्तकमेव वुत्तं, मनोद्वारे च ‘‘हासयमान’’न्ति. इमिना हसितुप्पादचित्तेन पवत्तियमानम्पि भगवतो सितकरणं पुब्बेनिवासअनागतंससब्बञ्ञुतञ्ञाणानं अनुवत्तकत्ता ञाणानुपरिवत्तियेवाति. एवं पन ञाणानुपरिवत्तिभावे सति न कोचि पाळिअट्ठकथानं विरोधो, एवञ्च कत्वा अट्ठकथायं ‘‘तेसं ञाणानं चिण्णपरियन्ते इदं चित्तं उप्पज्जती’’ति वुत्तं. अवस्सञ्च एतं एवं इच्छितब्बं, अञ्ञथा आवज्जनचित्तस्सपि भगवतो पवत्ति न युज्जेय्य. तस्सपि हि विञ्ञत्तिसमुट्ठापकभावस्स निच्छितत्ता, न च विञ्ञत्तिसमुट्ठापकत्ते तंसमुट्ठिताय विञ्ञत्तिया कायकम्मादिभावं आवज्जनभावो विबन्धतीति.

ततो एवाति मूलाभावेन न सुप्पतिट्ठितत्ता एव. ‘‘अहेतुकानं झानङ्गानि बलानि चा’’ति सम्पिण्डनत्थो झानङ्गानि चाति च-सद्दो. यदि अपरिपुण्णत्ता बलभावस्स इमस्मिं अहेतुकद्वये बलानि अनुद्दिट्ठानि असङ्गहितानि च, अथ कस्मा निद्दिट्ठानीति आह ‘‘यस्मा पना’’तिआदि. सम्मा निय्यानिकसभावानं कुसलानं पटिभागभूतो विपाकोपि फलं विय तंसभावो सियाति सहेतुकविपाकचित्तानि अग्गहेत्वा किरियचित्तकतत्ता वा ‘‘महाकिरियचित्तेसू’’ति वुत्तं. अथ वा महाकिरियचित्तेसुचाति च-सद्देन सहेतुकविपाकचित्तानिपि गहितानीति वेदितब्बानि.

५७४. ‘‘इन्द्रिय …पे… इमस्सानन्तरं उप्पज्जमानानी’’ति वुत्तं तेसं ञाणानं कामावचरत्ता. इतरेसं महग्गतत्ता ‘‘परिकम्मानन्तरानी’’ति वुत्तं.

५७७. आहितो अहं मानो एत्थाति अत्ता, सो एव भवति उप्पज्जति, न परपरिकप्पितो विय निच्चोति अत्तभावो. अत्ताति वा दिट्ठिगतिकेहि गहेतब्बाकारेन भवति पवत्ततीति अत्तभावो.

किरियाब्याकतकथावण्णना निट्ठिता.

चित्तुप्पादकण्डवण्णना निट्ठिता.