३४३. कुन्तिनीजातकं (४-५-३)

१६९. अवसिम्ह तवागारे, निच्चं सक्कतपूजिता;

त्वमेव दानिमकरि, हन्द राज वजामहं.

१७०. यो वे कते पटिकते, किब्बिसे पटिकिब्बिसे;

एवं तं सम्मती वेरं, वस कुन्तिनि मागमा.

१७१. न कतस्स च कत्ता च, मेत्ति [मेत्ती (पी.), मित्ती (क.)] सन्धीयते पुन;

हदयं नानुजानाति, गच्छञ्ञेव रथेसभ.

१७२. कतस्स चेव कत्ता च, मेत्ति सन्धीयते पुन;

धीरानं नो च बालानं, वस कुन्तिनि मागमाति.

कुन्तिनीजातकं ततियं.