३३०. सीलवीमंसजातकं (४-३-१०)
११७. सीलं किरेव कल्याणं, सीलं लोके अनुत्तरं;
पस्स घोरविसो नागो, सीलवाति न हञ्ञति.
११८. यावदेवस्सहू किञ्चि, तावदेव अखादिसुं;
सङ्गम्म कुलला लोके, न हिंसन्ति अकिञ्चनं.
११९. सुखं निरासा सुपति, आसा फलवती सुखा;
आसं निरासं कत्वान, सुखं सुपति पिङ्गला.
१२०. न समाधिपरो अत्थि, अस्मिं लोके परम्हि च;
न परं नापि अत्तानं, विहिंसति समाहितोति.
सीलवीमंसजातकं दसमं.
कुटिदूसकवग्गो ततियो.
तस्सुद्दानं –
समनुस्स -सदुद्दुभ-याचनको, अथ मेण्डवरुत्तम-गोधवरो;
अथ कायसकेपुक भोतीवरो, अथ राधसुसीलवरेन दसाति.