३. भेसज्जसिक्खापदवण्णना
६२२. ततियसिक्खापदे येसं मंसं कप्पतीति इदं निस्सग्गियवत्थुदस्सनत्थं वुत्तं, न पन येसं मंसं न कप्पति, तेसं सप्पिआदीनि न कप्पन्तीति दस्सनत्थं. मनुस्सखीरादीनिपि हि नो न कप्पन्ति, कुतो ससस्स सप्पीति आह ‘‘येसञ्हि खीरं अत्थि, सप्पिपि तेसं अत्थियेवा’’ति. ‘‘इदञ्च येभुय्येन वुत्त’’न्ति वदन्ति. उग्गहितकं कत्वा निक्खित्तन्ति अप्पटिग्गहितं सयमेव गहेत्वा निक्खित्तं. सयंकतं निरामिसमेव वट्टतीति तदहुपुरेभत्तमेव सन्धाय वुत्तं. अथ सयंकतं निरामिसं भुञ्जन्तस्स कस्मा सामंपाको न होतीति आह – ‘‘नवनीतं तापेन्तस्स हि सामंपाको न होती’’ति. सवत्थुकपटिग्गहितस्स वत्थुगतिकत्ता आह – ‘‘सवत्थुकस्स पटिग्गहितत्ता’’ति. पच्छाभत्तं पटिग्गहितेहीति पच्छाभत्तं पटिग्गहितखीरदधीहि. पुरेभत्तम्पि च उग्गहितकेहि कतं अब्भञ्जनादीसु उपनेतब्बन्ति सम्बन्धो. उभयेसम्पीति पच्छाभत्तं पटिग्गहितखीरदधीहि च पुरेभत्तं उग्गहितकेहि च कतानं. एसेव नयोति निस्सग्गियं होतीति अत्थो. अकप्पियमंससप्पिम्हीति अकप्पियमंससत्तानं सप्पिम्हि. कारणपतिरूपकं वत्वाति सजातियानं सप्पिभावतोति कारणपतिरूपकं वत्वा.
सप्पिनयेनेव वेदितब्बन्ति निरामिसमेव सत्ताहं वट्टतीति अत्थो. एत्थाति नवनीते. धोतं वट्टतीति अधोतं चे, सवत्थुकपटिग्गहितं होति, तस्मा धोतं पटिग्गहेत्वा सत्ताहं निक्खिपितुं वट्टतीति थेरानं अधिप्पायो. तक्कतो उद्धटमत्तमेव खादिंसूति एत्थ तक्कतो उद्धटमत्तं अधोतम्पि पटिग्गहेत्वा परिभुञ्जन्ता धोवित्वा पचित्वा वा परिभुञ्जिंसूति एवमत्थो गहेतब्बो. थेरस्स हि दधिगुळिकादिसहितम्पि पटिग्गहितं पच्छा धोवित्वा पचित्वा वा परिभुञ्जन्तस्स सवत्थुकपटिग्गहणे दोसो नत्थीति अधिप्पायो, तेनेव थेरस्स अधिप्पायं दस्सेन्तेन ‘‘तस्मा नवनीतं परिभुञ्जन्तेन…पे… अयमेत्थ अधिप्पायो’’ति वुत्तं. केचि पन ‘‘तक्कतो उद्धटमत्तमेव खादिंसू’’ति वचनस्स अधिप्पायं अजानन्ता ‘‘तक्कतो उद्धटमत्तं अधोतम्पि दधिगुळिकादिसहितं विकालेपि परिभुञ्जितुं वट्टती’’ति वदन्ति, तं न गहेतब्बं. न हि दधिगुळिकादिआमिसेन संसट्ठरसं नवनीतं परिभुञ्जितुं वट्टतीति सक्का वत्तुं. नवनीतं परिभुञ्जन्तेनाति अधोवित्वा पटिग्गहितनवनीतं परिभुञ्जन्तेन. दधि एव दधिगतं यथा ‘‘गूथगतं मुत्तगत’’न्ति (म. नि. २.११९). खयं गमिस्सतीति वचनतो खीरं पक्खिपित्वा पक्कसप्पिआदिपि विकाले कप्पतीति वेदितब्बं. कुक्कुच्चायन्ति कुक्कुच्चकाति इमिना अत्तनापि तत्थ कुक्कुच्चसब्भावं दीपेति. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. भेसज्जसिक्खापदवण्णना) ‘‘निब्बट्टितसप्पि वा नवनीतं वा पचितुं वट्टती’’ति वुत्तं. तानि पटिग्गहेत्वाति तानि खीरदधीनि पटिग्गहेत्वा.
पटिग्गहेत्वा ठपितभेसज्जेहीति पटिग्गहेत्वा ठपितयावजीविकभेसज्जेहि. वुत्तनयेन यथा तण्डुलादीनि न पच्चन्ति, तथा लज्जीयेव सम्पादेत्वा देतीति लज्जीसामणेरग्गहणं, अपिच अलज्जिना अज्झोहरितब्बं यं किञ्चि अभिसङ्खरापेतुं न वट्टति, तस्मापि एवमाह. तिले पटिग्गहेत्वा कततेलन्ति अत्तना भज्जनादीनि अकत्वा गहिततेलं. तेनेव ‘‘सामिसम्पि वट्टती’’ति वुत्तं. निब्बट्टितत्ताति यावकालिकवत्थुतो विवेचितत्ता. उभयम्पीति अत्तना च परेन च कतं. याव अरुणस्स उग्गमना तिट्ठति, निस्सग्गियन्ति सत्तमदिवसे कततेलं सचे याव अरुणुग्गमना तिट्ठति, निस्सग्गियं.
६२३. अच्छवसन्ति दुक्कटवत्थुनो वसाय अनुञ्ञातत्ता तंसदिसानं दुक्कटवत्थूनंयेव अकप्पियमंससत्तानं वसा अनुञ्ञाता, न थुल्लच्चयवत्थूनं मनुस्सानं वसाति आह ‘‘ठपेत्वा मनुस्सवस’’न्ति. संसट्ठन्ति परिस्सावितं. ‘‘काले पटिग्गहितं विकाले अनुपसम्पन्नेनपि निप्पक्कं संसट्ठञ्च परिभुञ्जन्तस्स द्वेपि दुक्कटानि होन्तियेवा’’ति वदन्ति. यस्मा खीरदधिआदीनि पक्खिपित्वा तेलं पचन्ति, तस्मा कसटं न वट्टति, तेलमेव वट्टति. तेन वुत्तं ‘‘पक्कतेलकसटे विय कुक्कुच्चायती’’ति. ‘‘सचे वसाय सद्धिं पक्कत्ता न वट्टति, इदं कस्मा वट्टती’’ति पुच्छन्ता ‘‘भन्ते’’तिआदिमाहंसु. एतं वट्टतीति ननु एतं दधिगुळिकादीहि पक्कं नवनीतं वट्टतीति अत्थो.
‘‘मधुकरीहि नाम मधुमक्खिकाहीति अयं खुद्दकमक्खिकानं भमरमक्खिकानञ्च सामञ्ञनिद्देसो’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘दण्डकेसु मधुकरा मधुकरी मक्खिका नामा’’ति वत्वा ‘‘ताहि मधुकरीआदीहि तीहि मक्खिकाहि कतं मधु नामा’’ति वदन्ति. भमरमक्खिकाहीति महाभमरमक्खिकाहि. सिलेससदिसन्ति घनपक्कं वुत्तं. इतरन्ति तनुकमधु. मधुपटलन्ति मधुरहितं केवलं मधुपटलं. ‘‘सचे मधुसहितं पटलं पटिग्गहेत्वा निक्खिपन्ति, पटलस्स भाजनट्ठानियत्ता मधुनो वसेन सत्ताहातिक्कमे निस्सग्गियं होती’’ति वदन्ति, ‘‘मधुमक्खितं पन मधुगतिकमेवा’’ति इमिना तं न समेति.
‘‘फाणितं नाम उच्छुम्हा निब्बत्त’’न्ति पाळियं अविसेसेन वुत्तत्ता अट्ठकथायञ्च ‘‘उच्छुरसं उपादाय…पे… अवत्थुका उच्छुविकति ‘फाणित’न्ति वेदितब्बा’’ति वचनतो उच्छुरसोपि निक्कसटो सत्ताहकालिकोति वेदितब्बो. केनचि पन ‘‘मधुम्हि चत्तारो कालिका यथासम्भवं योजेतब्बा, उच्छुम्हि चा’’ति वत्वा ‘‘समक्खिकण्डसेळकं यावकालिकं, अनेळकं उदकसम्भिन्नं यामकालिकं, असम्भिन्नं सत्ताहकालिकं, मधुसित्थं परिसुद्धं यावजीविकं, तथा उच्छु वा रसो वा सकसटो यावकालिको, निक्कसटो उदकसम्भिन्नो यामकालिको, असम्भिन्नो सत्ताहकालिको, सुद्धकसटं यावजीविक’’न्ति च वत्वा उत्तरिपि बहुधा पपञ्चितं. तत्थ ‘‘उदकसम्भिन्नं मधु वा उच्छुरसो वा उदकसम्भिन्नो यामकालिको’’ति इदं नेव पाळियं, न अट्ठकथायं दिस्सति. ‘‘यावकालिकं समानं गरुतरम्पि मुद्दिकाजातिरसं अत्तना संसट्ठं लहुकं यामकालिकभावं उपनेन्तं उदकं लहुतरं सत्ताहकालिकं अत्तना संसट्ठं गरुतरं यामकालिकभावं उपनेती’’ति एत्थ कारणं सोयेव पुच्छितब्बो, सब्बत्थ पाळियं अट्ठकथायञ्च उदकसम्भेदेन गरुतरस्सपि लहुभावोपगमनंयेव दस्सितं. पाळियम्पि हि ‘‘अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्स गुळोदक’’न्ति (महाव. २८४) वदन्तेन अगिलानेन परिभुञ्जितुं अयुत्तोपि गुळो उदकसम्भिन्नो अगिलानस्सपि वट्टतीति अनुञ्ञातो.
यम्पि च ‘‘उच्छु चे यावकालिको, उच्छुरसो चे यामकालिको, फाणितं चे सत्ताहकालिकं, तचो चे यावजीविको’’ति अट्ठकथावचनं दस्सेत्वा ‘‘उच्छुरसो उदकसम्भिन्नो यामकालिको’’ति अञ्ञेन केनचि वुत्तं, तम्पि तथाविधस्स अट्ठकथावचनस्स इमिस्सा समन्तपासादिकाय विनयट्ठकथाय अभावतो न सारतो पच्चेतब्बं. ततोयेव च ‘‘उच्छुरसो उदकेन सम्भिन्नोपि असम्भिन्नोपि सत्ताहकालिकोयेवा’’ति केचि आचरिया वदन्ति. भेसज्जक्खन्धके च ‘‘अनुजानामि, भिक्खवे, उच्छुरस’’न्ति (महाव. ३००) एत्थ तीसुपि गण्ठिपदेसु अविसेसेन वुत्तं ‘‘उच्छुरसो सत्ताहकालिको’’ति.
सयंकतं निरामिसमेव वट्टतीति एत्थ अपरिस्सावितं पटिग्गहितम्पि करणसमये परिस्सावेत्वा कसटं अपनेत्वाव अत्तना कतन्ति गहेतब्बं. झामउच्छुफाणितन्ति अग्गिना दड्ढे उच्छुखेत्ते झामउच्छुना कतफाणितं. कोट्टितउच्छुफाणितन्ति खुद्दानुखुद्दकं छिन्दित्वा कोट्टेत्वा निप्पीळेत्वा पक्कं येभुय्येन च सकसटं फाणितं. तादिसस्स च कसटस्स अब्बोहारिकत्ता ‘‘तं युत्त’’न्ति वुत्तं. सीतुदकेन कतन्ति मधुकपुप्फानि सीतोदके पक्खिपित्वा मद्दित्वा पुप्फरसे उदकगते सति तं उदकं गहेत्वा पचित्वा कतफाणितं. खीरं पक्खिपित्वा कतं मधुकफाणितं यावकालिकन्ति एत्थ खीरं पक्खिपित्वा पक्कतेलं कस्मा विकाले वट्टतीति चे? तेले पक्खित्तखीरं तेलमेव होति, अञ्ञं पन खीरं पक्खिपित्वा कतं खीरभावं गण्हातीति इदमेत्थ कारणं. यदि एवं खण्डसक्खरम्पि खीरं पक्खिपित्वा करोन्ति, तं कस्मा वट्टतीति आह ‘‘खण्डसक्खरं पना’’तिआदि. तत्थ खीरजल्लिकन्ति खीरफेणं.
भेसज्जोदिस्सं दस्सेन्तेन ‘‘सत्तविधञ्हि ओदिस्सं नामा’’तिआदिना इतरानिपि अत्थुद्धारवसेन वुत्तानि. विकटानीति अपकतिभेसज्जत्ता विकटानि, विरूपानीति अत्थो. दुक्कटवत्थूनम्पि अकप्पियमंसानं वसाय अनुञ्ञातत्ता ‘‘वसोदिस्स’’न्ति वुत्तं. ओळारिकानम्पि आहारत्थं फरितुं समत्थानं सप्पिआदीनं भेसज्जनामेन अनुञ्ञातत्ता ‘‘भेसज्जोदिस्स’’न्ति वुत्तं. ‘‘पच्छाभत्ततो पट्ठाय सति पच्चयेति वुत्तत्ता पटिग्गहितभेसज्जानि दुतियदिवसतो पट्ठाय पुरेभत्तम्पि सति पच्चये परिभुञ्जितब्बानि, न आहारत्थं भेसज्जत्थाय पटिग्गहितत्ता’’ति वदन्ति.
६२४. द्वारवातपानकवाटेसूति महाद्वारस्स वातपानानञ्च कवाटफलकेसु. कसावे पक्खित्तानि तानि अत्तनो सभावं परिच्चजन्ति, तस्मा ‘‘मक्खेतब्बानी’’ति वुत्तं, घुणपाणकादिपरिहारत्थं मक्खेतब्बानीति अत्थो. अधिट्ठेतीति ‘‘इदानि मय्हं अज्झोहरणीयं न भविस्सति, बाहिरपरिभोगत्थाय गमिस्सती’’ति चित्तं उप्पादेतीति अत्थो. तेनेवाह – ‘‘सप्पिञ्च तेलञ्च वसञ्च मुद्धनि तेलं वा अब्भञ्जनं वा’’तिआदि. ‘‘एवं अधिट्ठितञ्च पटिग्गहणं विजहती’’ति वदन्ति.
६२५. सचे द्विन्नं सन्तकं एकेन पटिग्गहितं अविभत्तं होति, परिभुञ्जितुं पन न वट्टतीति एत्थ मज्झे पाठो परिहीनो, एवं पनेत्थ पाठो वेदितब्बो ‘‘सचे द्विन्नं सन्तकं एकेन पटिग्गहितं अविभत्तं होति, सत्ताहातिक्कमे द्विन्नम्पि अनापत्ति, परिभुञ्जितुं पन न वट्टती’’ति. अञ्ञथा पन सद्दप्पयोगोपि न सङ्गच्छति. गण्ठिपदेपि च अयमेव पाठो दस्सितो. तत्थ द्विन्नम्पि अनापत्तीति यथा अञ्ञस्स सन्तकं एकेन पटिग्गहितं सत्ताहातिक्कमेन निस्सग्गियं न होति परसन्तकभावतो, एवमिदम्पि अविभत्तत्ता उभयसाधारणम्पि अविनिब्भोगभावतो निस्सग्गियं न होतीति अधिप्पायो. परिभुञ्जितुं पन न वट्टतीति भिक्खुना पटिग्गहितत्ता सत्ताहातिक्कमे यस्स कस्सचि भिक्खुनो परिभुञ्जितुं न वट्टति पटिग्गहितसप्पिआदीनं परिभोगस्स सत्ताहेनेव परिच्छिन्नत्ता. ‘‘तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानी’’ति हि वुत्तं. गण्ठिपदेसु पन तीसुपि इध पाठस्स परिहीनभावं असल्लक्खेत्वा ‘‘परिभुञ्जितुं पन न वट्टतीति इदं अन्तोसत्ताहे परिभोगं सन्धाय वुत्तन्ति सञ्ञाय विस्सासग्गाहाभावतो परिभुञ्जितुं न वट्टती’’ति एवमत्थो वुत्तो, सो न गहेतब्बो.
आवुसो, इमं तेलं सत्ताहमत्तं परिभुञ्ज त्वन्ति इमिना येन पटिग्गहितं, तेन अन्तोसत्ताहेयेव परस्स विस्सज्जितभावं दस्सेति. कस्स आपत्तीति पठमं ताव उभिन्नं साधारणत्ता अनापत्ति वुत्ता. इदानि पन एकेन इतरस्स विस्सट्ठभावतो उभयसाधारणता नत्थीति विभत्तसदिसं हुत्वा ठितं, तस्मा एत्थ पटिग्गहितस्स सत्ताहातिक्कमे एकस्स आपत्तिया भवितब्बन्ति मञ्ञमानो ‘‘किं पटिग्गहणपच्चया पटिग्गाहकस्स आपत्ति, उदाहु यस्स सन्तकं जातं, तस्सा’’ति पुच्छति. निस्सट्ठभावतोयेव च इध ‘‘अविभत्तभावतो’’ति कारणं अवत्वा ‘‘येन पटिग्गहितं, तेन विस्सज्जितत्ता’’ति वुत्तं. इदञ्च विस्सट्ठभावतो उभयसाधारणतं पहाय एकस्स सन्तकं होन्तम्पि येन पटिग्गहितं, ततो अञ्ञस्स सन्तकं जातं, तस्मा परसन्तकपटिग्गहणे विय पटिग्गाहकस्स पटिग्गहणपच्चया नत्थि आपत्तीति दस्सनत्थं वुत्तं, न पन ‘‘येन पटिग्गहितं, तेन विस्सज्जितत्ता’’ति वचनतो अविस्सज्जिते सति अविभत्तेपि सत्ताहातिक्कमे आपत्तीति दस्सनत्थं अविस्सज्जिते अविभत्तभावतोयेव अनापत्तिया सिद्धत्ता. सचे पन इतरो येन पटिग्गहितं, तस्सेव अन्तोसत्ताहे अत्तनो भागम्पि विस्सज्जेति, सत्ताहातिक्कमे सिया आपत्ति येन पटिग्गहितं, तस्सेव सन्तकभावमापन्नत्ता इतरस्स अप्पटिग्गहितत्ता. इमिना तस्स सन्तकभावेपि अञ्ञेन पटिग्गहितसकसन्तके विय तेन अप्पटिग्गहितभावतो अनापत्तीति दीपेति. इदं पन अधिप्पायं अजानित्वा इतो अञ्ञथा गण्ठिपदकारादीहि पपञ्चितं, न तं सारतो पच्चेतब्बं.
अपरिभोगं होतीति कस्सचि अमनुञ्ञस्स पतितत्ता परिभोगारहं न होति. येन चित्तेनाति येन परिच्चजितुकामताचित्तेन. ‘‘अन्तोसत्ताहे’’ति अधिकारत्ता ‘‘अन्तोसत्ताहे अनपेक्खो दत्वा पटिलभित्वा परिभुञ्जती’’ति इमं सम्बन्धं सन्धाय महासुमत्थेरेन ‘‘एवं अन्तोसत्ताहे दत्वा’’तिआदि वुत्तं. महापदुमत्थेरो पन यदि एवं ‘‘विस्सज्जेती’’ति इमिनाव तं सिद्धं, सत्ताहातिक्कन्तं पन निस्सट्ठं पटिलभित्वा परिभुञ्जितुं न वट्टति, तस्मा तस्स परिभोगमुखदस्सनमिदन्ति आह – ‘‘नयिदं याचितब्ब’’न्तिआदि. अञ्ञेन भिक्खुनाति एत्थ सुद्धचित्तेन दिन्नत्ता सयम्पि आहरापेत्वा परिभुञ्जितुं वट्टतियेव. सप्पिआदीनं पटिग्गहितभावो, अत्तनो सन्तकता, सत्ताहातिक्कमोति इमानेत्थ तीणि अङ्गानि.
भेसज्जसिक्खापदवण्णना निट्ठिता.