१०. राजसिक्खापदवण्णना
५३७-५३९. राजसिक्खापदे पन ‘‘अज्जण्हो’’ति पाठे ‘‘अज्जुण्हो’’तिपि पठन्ति. भोगोति भुञ्जितब्बो. यं वुत्तं मातिकाट्ठकथायं ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिं दस्सेतुं वुत्तं. सचे हि ‘इदं इत्थन्नामस्स भिक्खुनो देही’ति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति, तत्थ आगमनस्स सुद्धिया वा असुद्धिया वा विसेसप्पयोजनं न दिस्सति. सतिपि हि आगमनस्स असुद्धभावे दूतो अत्तनो कुसलताय कप्पियवोहारेन वदति, ‘‘कप्पियकारको न निद्दिसितब्बो’’ति इदं नत्थि, न च दूतेन कप्पियवोहारवसेन वुत्ते दायकेन इदं कथं पेसितन्ति ईदिसी विचारणा उपलब्भति, अविचारेत्वा च तं न सक्का जानितुं, यदि पन आगमनस्स असुद्धत्ता कप्पियकारको निद्दिसितब्बो न भवेय्य, चीवरानं अत्थाय दूतस्स हत्थे अकप्पियवत्थुस्मिं पेसिते सब्बत्थ दायकेन कथं पेसितन्ति पुच्छित्वाव कप्पियकारको निद्दिसितब्बो भवेय्य. तस्मा असतिपि आगमनसुद्धियं सचे सो दूतो अत्तनो कुसलताय कप्पियवोहारवसेन वदति, दूतस्सेव वचनं गहेतब्बं. यदि हि आगमनसुद्धियेवेत्थ पमाणं, मूलसामिकेन कप्पियवोहारवसेन पेसितस्स दूतस्स अकप्पियवोहारवसेन वदतोपि कप्पियकारको निद्दिसितब्बो भवेय्य, तस्मा सब्बत्थ दूतवचनमेव पमाणन्ति गहेतब्बं.
इमिना चीवरचेतापन्नेनातिआदिना पन इममत्थं दस्सेति – कप्पिय वसेन आगतम्पि चीवरमूलं ईदिसेन दूतवचनेन अकप्पियं होति, तस्मा तं पटिक्खिपितब्बन्ति. तेनेवाह – ‘‘तेन भिक्खुना सो दूतो एवमस्स वचनीयो’’तिआदि. सुवण्णं, रजतं, कहापणो, मासकोति इमानि हि चत्तारि निस्सग्गियवत्थूनि, मुत्ता, मणि, वेळुरियो, सङ्खो, सिला, पवाळं, लोहितङ्को, मसारगल्लं, सत्त धञ्ञानि, दासिदासं, खेत्तं, वत्थु, पुप्फारामफलारामादयोति इमानि दुक्कटवत्थूनि च अत्तनो वा चेतियसङ्घगणपुग्गलानं वा अत्थाय सम्पटिच्छितुं न वट्टन्ति, तस्मा तं सादितुं न वट्टतीति दस्सनत्थं ‘‘न खो मयं, आवुसो, चीवरचेतापन्नं पटिग्गण्हामा’’ति वुत्तं, ‘‘चीवरञ्च खो मयं पटिग्गण्हामा’’ति इदं पन अत्तानं उद्दिस्स आभतत्ता वत्तुं वट्टति, तस्मा वुत्तं. ‘‘वेय्यावच्चकरो निद्दिसितब्बो’’ति इदं ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति कप्पियवचनेन वुत्तत्ता अनुञ्ञातं. सचे पन दूतो ‘‘को इमं गण्हाती’’ति वा ‘‘कस्स देमी’’ति वा वदति, न निद्दिसितब्बो. ‘‘आरामिको वा उपासको वा’’ति इदं सारुप्पताय वुत्तं, ठपेत्वा पन पञ्च सहधम्मिके यो कोचि कप्पियकारको वट्टति. ‘‘एसो खो, आवुसो, भिक्खूनं वेय्यावच्चकरो’’ति इदं भिक्खुस्स कप्पियवचनदस्सनत्थं वुत्तं. एवमेव हि वत्तब्बं, ‘‘एतस्स देही’’तिआदि न वत्तब्बं. सो वा चेतापेस्सति वाति एत्थ एको वा-सद्दो पदपूरणो, ‘‘सञ्ञत्तो सो मया’’तिआदि पन दूतेन एवं आरोचितेयेव तं चोदेतुं वट्टति, नेवास्स हत्थे दत्वा गतमत्तकारणेनाति दस्सनत्थं वुत्तं.
एतानि हि वचनानि…पे… न वत्तब्बोति एत्थ ‘‘एवं वदन्तो पटिक्खित्तस्स कतत्ता वत्तभेदे दुक्कटं आपज्जति, चोदना पन होतियेवा’’ति महागण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं. उद्दिट्ठचोदनापरिच्छेदं दस्सेत्वाति ‘‘दुतियम्पि वत्तब्बो’’तिआदिना दस्सेत्वा. पुच्छियमानोति एत्थ पुच्छियमानेनाति अत्थो गहेतब्बोति आह ‘‘करणत्थे पच्चत्तवचन’’न्ति. आगतकारणं भञ्जतीति आगतकारणं विनासेति.
एत्थ केचि वदन्ति ‘‘आगतकारणं नाम चीवरग्गहणं, तं भञ्जतीति वुत्तत्ता पुन तं चीवरं येन केनचि आकारेन गहेतुं न वट्टती’’ति. केचि पन ‘‘आगतकारणं नाम कायवाचाहि चोदना, तं भञ्जतीति वुत्तत्ता पुन तं येन केनचि आकारेन चोदेतुं न लभति. सचे सयमेव देति, मूलसामिको वा दापेति, गहेतुं वट्टती’’ति वदन्ति. अपरे पन ‘‘आगतकारणं नाम ठानं, तं भञ्जतीति वुत्तत्ता यथा ‘अत्थो मे, आवुसो, चीवरेना’ति एकाय चोदनाय द्वे ठानानि भञ्जति, एवमिधापि सचे आसने निसीदति, एकाय निसज्जाय द्वे ठानानि भञ्जति. आमिसं चे पटिग्गण्हाति, एकेन पटिग्गहणेन द्वे ठानानि भञ्जति. धम्मं चे भासति, धम्मदेसनासिक्खापदे वुत्तपरिच्छेदाय एकाय वाचाय द्वे ठानानि भञ्जती’’ति वदन्ति. इमेसं पन सब्बेसम्पि वादं ‘‘अयुत्त’’न्ति पटिक्खिपित्वा तीसुपि गण्ठिपदेसु इदं वुत्तं ‘‘आगतकारणं नाम ठानमेव, तस्मा ‘न कत्तब्ब’न्ति वारितस्स कतत्ता निसज्जादीसु कतेसु छसु ठानेसु एकं ठानं भञ्जती’’ति.
तत्र तत्र ठाने तिट्ठतीति इदं चोदकस्स ठितट्ठानतो अपक्कम्म तत्र तत्र उद्दिस्स ठानंयेव सन्धाय वुत्तं. ‘‘सामं वा गन्तब्बं, दूतो वा पाहेतब्बो’’ति इदं सभावतो चोदेतुं अनिच्छन्तेनपि कातब्बमेवाति वदन्ति. मुखं विवरित्वा सयमेव कप्पियकारकत्तं उपगतोति मुखवेवटिककप्पियकारको. अविचारेतुकामतायाति इमस्मिं पक्खे ‘‘नत्थम्हाकं कप्पियकारको’’ति इदं ‘‘तादिसं करोन्तो कप्पियकारको नत्थी’’ति इमिना अधिप्पायेन वुत्तं.
‘‘मेण्डकसिक्खापदे वुत्तनयेन पटिपज्जितब्ब’’न्ति वत्वा इदानि तं मेण्डकसिक्खापदं दस्सेन्तो ‘‘वुत्तञ्हेत’’न्तिआदिमाह. इदमेव हि ‘‘सन्ति, भिक्खवे, सद्धा पसन्ना’’तिआदिवचनं भेसज्जक्खन्धके मेण्डकवत्थुस्मिं (महाव. २९९) वुत्तत्ता ‘‘मेण्डकसिक्खापद’’न्ति वुत्तं. तत्थ हि मेण्डकेन नाम सेट्ठिना –
‘‘सन्ति, भन्ते, मग्गा कन्तारा अप्पोदका अप्पभक्खा, न सुकरा अपाथेय्येन गन्तुं, साधु, भन्ते, भगवा भिक्खूनं पाथेय्यं अनुजानातू’’ति –
याचितेन भगवता –
‘‘अनुजानामि, भिक्खवे, पाथेय्यं परियेसितुं. तण्डुलो तण्डुलत्थिकेन, मुग्गो मुग्गत्थिकेन, मासो मासत्थिकेन, लोणं लोणत्थिकेन, गुळो गुळत्थिकेन, तेलं तेलत्थिकेन, सप्पि सप्पित्थिकेना’’ति –
वत्वा इदं वुत्तं –
‘‘सन्ति, भिक्खवे, मनुस्सा सद्धा पसन्ना, ते कप्पियकारकानं हत्थे हिरञ्ञं उपनिक्खिपन्ति ‘इमिना अय्यस्स यं कप्पियं, तं देथा’ति. अनुजानामि, भिक्खवे, यं ततो कप्पियं, तं सादितुं, न त्वेवाहं भिक्खवे केनचि परियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्ति वदामी’’ति.
हिरञ्ञं उपनिक्खिपन्तीति एत्थापि भिक्खुस्स आरोचनं अत्थियेवाति गहेतब्बं. अञ्ञथा अनिद्दिट्ठकप्पियकारकत्तं भजतीति न चोदेतब्बो सिया. यदि मूलं सन्धाय चोदेति, तं सादितमेव सियाति आह ‘‘मूलं असादियन्तेना’’ति.
‘‘अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बन्ति इदं अत्तना चोदनाठानञ्च न कातब्बन्ति दस्सनत्थं वुत्तं. अञ्ञं पन कप्पियकारकं पेसेत्वा लोकचारित्तवसेन अनुयुञ्जित्वापि कप्पियवत्थुं आहरापेतुं वट्टति अत्तानं उद्दिस्स निक्खित्तस्स अत्तनो सन्तकत्ता’’ति केचि वदन्ति, तं अट्ठकथायं ‘‘अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बं. सचे सयमेव चीवरं आनेत्वा देन्ति, गहेतब्बं. नो चे, किञ्चि न वत्तब्बा’’ति दळ्हं कत्वा वुत्तत्ता न गहेतब्बन्ति अम्हाकं खन्ति. न हि अञ्ञातकअप्पवारितं सयं अविञ्ञापेत्वा अञ्ञेन विञ्ञापेतुं वट्टति, न च यत्थ अञ्ञं पेसेत्वा आहरापेतुं वट्टति, तत्थ सयं गन्त्वा न आहरापेतब्बन्ति सक्का वत्थुं. यदि चेत्थ अञ्ञेन आहरापेतुं वट्टति, ‘‘अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्ब’’न्तिआदिवचनमेव निरत्थकं सिया. ‘‘दूतेना’’ति इमस्स ब्यभिचारं दस्सेति ‘‘सयं आहरित्वापी’’ति. ददन्तेसूति इमिना सम्बन्धो. पिण्डपातादीनं अत्थायाति इमिना पन ‘‘चीवरचेतापन्न’’न्ति इमस्स ब्यभिचारं दस्सेति. ‘‘एसेव नयो’’ति वुत्तत्ता पिण्डपातादीनं अत्थाय दिन्नेपि ठानचोदनादि सब्बं हेट्ठा वुत्तनयेनेव कातब्बं.
पटिग्गहणेपि परिभोगेपि आपत्तीति पटिग्गहणे पाचित्तियं, परिभोगे दुक्कटं. स्वेव सापत्तिकोति दुक्कटापत्तिं सन्धाय वदति. इदञ्च अट्ठकथापमाणेनेव गहेतब्बं. ‘‘परस्स निद्दोसभावदस्सनत्थं स्वेव सापत्तिको सदोसोति वुत्तं होती’’तिपि वदन्ति. ‘‘चोदेतीति वुत्तत्ता पन आपत्तिया चोदेतीति कत्वा स्वेव सापत्तिकोति इदं दुक्कटंयेव सन्धाय वत्तुं युत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. पटिग्गहणेपि परिभोगेपि आपत्तियेवाति दुक्कटमेव सन्धाय वुत्तं. तळाकस्सपि खेत्तसङ्गहितत्ता तस्स पटिग्गहणेपि आपत्ति वुत्ता. चत्तारो पच्चये सङ्घो परिभुञ्जतूति देतीति एत्थ ‘‘भिक्खुसङ्घो चत्तारो पच्चये परिभुञ्चतु, तळाकं दम्मी’’ति वा ‘‘चतुपच्चयपरिभोगत्थं तळाकं दम्मी’’ति वा वदति, वट्टतियेव. ‘‘इतो तळाकतो उप्पन्ने चत्तारो पच्चये दम्मी’’ति वुत्ते पन वत्तब्बमेव नत्थि.
अम्हाकं एकं कप्पियकारकं ठपेथाति वुत्तेति इदं ईदिसंयेव सन्धाय वुत्तं. कप्पियक्कमेन सम्पटिच्छितेसु खेत्ततळाकादीसु पन अवुत्तेपि कप्पियकारकं ठपेतुं लब्भतियेव. यस्मा परसन्तकं नासेतुं भिक्खूनं न वट्टति, तस्मा ‘‘न सस्सकाले’’ति वुत्तं. ‘‘जनपदस्स सामिकोति इमिनाव यो तं जनपदं विचारेति, तेनपि अच्छिन्दित्वा दिन्नं वट्टतियेवा’’ति वदन्ति. उदकवाहकन्ति उदकमातिकं. कप्पियवोहारेपीति एत्थ ‘‘विधानं वक्खामा’’ति पाठसेसो. उदकवसेनाति उदकपरिभोगत्थं. सुद्धचित्तानन्ति केवलं उदकपरिभोगत्थमेवाति अधिप्पायो. अलज्जिना कारापिते वत्तब्बमेव नत्थीति आह ‘‘लज्जीभिक्खुना’’ति. पकतिभागो नाम इमस्मिं रट्ठे चतुअम्बणमत्तं. अकट्ठपुब्बं नवसस्सं नाम. अपरिच्छिन्नभागेति ‘‘एत्तके भूमिभागे एत्तको भागो दातब्बो’’ति एवं अपरिच्छिन्नभागे.
रज्जुया वा दण्डेन वाति एत्थ ‘‘पादेहिपि मिनितुं न वट्टती’’ति वदन्ति. खले वा ठत्वा रक्खतीति एत्थ पन थेनेत्वा गण्हन्ते दिस्वा ‘‘मा गण्हथा’’ति निवारेन्तो रक्खति नाम. सचे पन अविचारेत्वा केवलं तुण्हीभूतोव रक्खणत्थाय ओलोकेन्तो तिट्ठति, वट्टति. सचेपि तस्मिं तुण्हीभूते चोरिकाय हरन्ति, ‘‘मयं भिक्खुसङ्घस्स आरोचेस्सामा’’ति एवं वत्तुं वट्टतीति वदन्ति. नीहरापेति पटिसामेतीति एत्थापि ‘‘सचे परियायेन वदति, वट्टती’’ति वदन्ति. अपुब्बस्स अनुप्पादितत्ता अञ्ञेसं वट्टतीति आह ‘‘तस्सेव तं अकप्पिय’’न्ति.
ननु च दुब्बिचारितमत्तेन तस्सेव तं अकप्पियं, न सब्बेसं रूपियसंवोहारे चतुत्थपत्तो विय. वुत्तञ्हि तत्थ (पारा. अट्ठ. २.५८९) ‘‘यो पन रूपियं असम्पटिच्छित्वा ‘थेरस्स पत्तं किणित्वा देही’ति पहितकप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘इमे कहापणे गहेत्वा इमं देही’ति कहापणे दापेत्वा गहितो, अयं पत्तो एतस्सेव भिक्खुनो न वट्टति दुब्बिचारितत्ता, अञ्ञेसं पन वट्टति मूलस्स असम्पटिच्छितत्ता’’ति. तस्मा यं ते आहरन्ति, सब्बेसं अकप्पियं. कस्मा? कहापणानं विचारितत्ताति इदं कस्मा वुत्तन्ति? एत्थ केचि वदन्ति ‘‘कहापणे सादियित्वा विचारितं सन्धाय एवं वुत्त’’न्ति. सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पतीति तेसं अधिप्पायो. केचि पन ‘‘असादियित्वापि कहापणानं विचारितत्ता रूपियसंवोहारो कतो होति, सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पती’’ति वदन्ति. गण्ठिपदेसु पन तीसुपि इदं वुत्तं ‘‘चतुत्थपत्तो गिहिसन्तकानंयेव कहापणानं विचारितत्ता अञ्ञेसं कप्पति, इध पन सङ्घिकानं विचारितत्ता सब्बेसं न कप्पती’’ति. सब्बेसम्पि वादो तेन तेन परियायेन युज्जतियेव.
चतुसालद्वारेति भोजनसालं सन्धाय वुत्तं. परियायेन कथितत्ताति ‘‘गण्हा’’ति अवत्वा ‘‘सीमा गता’’ति परियायेन कथितत्ता. पकतिभूमिकरणत्थं ‘‘हेट्ठा गहितं पंसु’’न्तिआदि वुत्तं. दासं दम्मीति एत्थ ‘‘मनुस्सं दम्मीति वुत्ते वट्टती’’ति वदन्ति. कुक्कुटसूकरा…पे… वट्टतीति एत्थ कुक्कुटसूकरेसु दीयमानेसु ‘‘इमेहि अम्हाकं अत्थो नत्थि, सुखं जीवन्तु, अरञ्ञे विस्सज्जेथा’’ति वत्तुं वट्टति. ‘‘खेत्तवत्थुपटिग्गहणा पटिविरतो होती’’तिआदिवचनतो (दी. नि. १.१०, १९४) खेत्तादीनं पटिग्गहणे अयं सब्बो विनिच्छयो वुत्तो. कप्पियकारकस्स भिक्खुना निद्दिट्ठभावो, दूतेन अप्पितता, ततुत्तरि वायामो, तेन वायामेन पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
राजसिक्खापदवण्णना निट्ठिता.
निट्ठितो चीवरवग्गो पठमो.