२. कोसियवग्गो

१. कोसियसिक्खापदवण्णना

५४२. पाळियं ‘‘कोसियकारके’’ति एत्थ कोसं करोन्तीति कोसकारकाति लद्धवोहारानं पाणकानं कोसतो निब्बत्तं कोसियं, तं करोन्तीति कोसियकारका, तन्तवाया. संहननं सङ्घातो, विनासोति अत्थो. कोसियमिस्सकन्ति कोसियतन्तुना मिस्सं. ‘‘अवायिम’’न्ति वुत्तत्ता वायित्वा चे करोन्ति, अनापत्ति. अनापत्ति वितानं वातिआदिना वितानादीनं अत्थाय करणेपि तेनाकारेन परिभोगेपि अनापत्ति वुत्ता.

एवम्पि मिस्सेत्वा कतमेव होतीति इमिना वातेन आहरित्वा पातितेपि अचित्तकत्ता आपत्तियेवाति दस्सेति. कोसियमिस्सकता, अत्तनो अत्थाय सन्थतस्स करणं कारापनं, पटिलाभो चाति इमानेत्थ तीणि अङ्गानि.

कोसियसिक्खापदवण्णना निट्ठिता.

५४७. सुद्धकाळकसिक्खापदं उत्तानत्थमेव.

३. द्वेभागसिक्खापदवण्णना

५५२. द्वेभागसिक्खापदे पन द्वे भागाति उक्कट्ठपरिच्छेदो काळकानं अधिकग्गहणस्स पटिक्खेपवसेन सिक्खापदस्स पञ्ञत्तत्ता. ततियं ओदातानं चतुत्थं गोचरियानन्ति अयं हेट्ठिमपरिच्छेदो तेसं अधिकग्गहणे पटिक्खेपाभावतो, तस्मा काळकानं भागद्वयतो अधिकं न वट्टति, सेसानं पन वुत्तप्पमाणतो अधिकम्पि वट्टति. ‘‘काळकानंयेव च अधिकग्गहणस्स पटिक्खित्तत्ता काळकानं उपड्ढं ओदातानं वा गोचरियानं वा उपड्ढं गहेत्वापि कातुं वट्टती’’ति वदन्ति, ‘‘अनापत्ति बहुतरं ओदातानं बहुतरं गोचरियानं आदियित्वा करोति, सुद्धं ओदातानं सुद्धं गोचरियानं आदियित्वा करोती’’ति इमिना तं समेति. ‘‘काळके ओदाते च ठपेत्वा सेसा गोचरियेसुयेव सङ्गहं गच्छन्ती’’ति वदन्ति. द्वे कोट्ठासा काळकानन्ति एत्थ पन ‘‘एकस्सपि काळकलोमस्स अतिरेकभावे निस्सग्गियं होती’’ति मातिकाट्ठकथायं (कङ्खा. अट्ठ. द्वेभागसिक्खापदवण्णना) त्तं, तं ‘‘धारयित्वा द्वे तुला आदातब्बा’’ति वचनतो तुलाधारणाय न समेति. न हि लोमे गणेत्वा तुलाधारणा करीयति, अथ गणेत्वाव धारयितब्बं सिया, किं तुलाधारणाय, तस्मा एवमेत्थ अधिप्पायो युत्तो सिया – अचित्तकत्ता सिक्खापदस्स पुब्बे तुलाय धारयित्वा ठपितेसु एकम्पि लोमं तत्थ पतेय्य, निस्सग्गियन्ति. अञ्ञथा दुब्बिञ्ञेय्यभावतो द्वे तुला नादातब्बा, ऊनकतराव आदातब्बा सियुं.

द्वेभागसिक्खापदवण्णना निट्ठिता.

४. छब्बस्ससिक्खापदवण्णना

५५७. छब्बस्ससिक्खापदे पन ‘‘येसं नो सन्थते दारका उहदन्तिपि उम्मिहन्तिपि, येसं नो सन्थता उन्दूरेहिपि खज्जन्ती’’ति एवं पाळिपदानं सम्बन्धो वेदितब्बो. हद करीसोस्सग्गे, मिह सेचनेति पनिमस्सत्थं सन्धायाह ‘‘वच्चम्पि पस्सावम्पि करोन्ती’’ति. पवारणाउपोसथपाटिपददिवसेसु सन्थतं करित्वा पुन छट्ठे वस्से परिपुण्णे पवारणाउपोसथपाटिपददिवसेसु करोन्तो ‘‘छब्बस्सानि करोती’’ति वुच्चति. दुतियदिवसतो पट्ठाय करोन्तो पन अतिरेकछब्बस्सानि करोति नाम.

छब्बस्ससिक्खापदवण्णना निट्ठिता.

५. निसीदनसन्थतसिक्खापदवण्णना

५६५-६. निसीदनसन्थतसिक्खापदे पन पञ्ञायिस्सतीति सचे सा कतिका मनापा भविस्सति, मनापताय भिक्खुसङ्घो सन्दिस्सिस्सति. सचे अमनापा, अमनापताय सन्दिस्सिस्सतीति अधिप्पायो, आरञ्ञकङ्गादीनि तीणि पाळियं पधानङ्गवसेन वुत्तानि, सेसानिपि ते समादियिंसुयेवाति वेदितब्बं. तेनेवाह ‘‘सन्थते चतुत्थचीवरसञ्ञिताया’’ति. उज्झित्वाति विस्सज्जेत्वा.

५६७. निसीदनसन्थतत्ता निवासनपारुपनकिच्चं नत्थीति आह ‘‘सकिं निसिन्नञ्चेव निपन्नञ्चा’’ति. विदत्थिमत्तन्ति सुगतविदत्थिं सन्धाय वदति. इदञ्च हेट्ठिमपरिच्छेददस्सनत्थं वुत्तं. ‘‘वितानादीनंयेव अत्थाय करणे अनापत्तिवचनतो सचे निपज्जनत्थाय करोन्ति, आपत्तियेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं. अकप्पियत्ता पन ‘‘परिभुञ्जितुं न वट्टती’’ति वुत्तं. इदञ्च निसीदनसन्थतं नाम निसीदनचीवरमेव, नाञ्ञन्ति वदन्ति. निसीदनसिक्खापदेपि निसीदनं नाम सदसं वुच्चतीति च अट्ठकथायञ्चस्स ‘‘सन्थतसदिसं सन्थरित्वा एकस्मिं अन्ते सुगतविदत्थिया विदत्थिमत्ते पदेसे द्वीसु ठानेसु फालेत्वा तिस्सो दसा करीयन्ति, ताहि दसाहि सदसं नाम वुच्चती’’ति (पाचि. अट्ठ. ५३१) वचनतो इधापि ‘‘निसीदनं नाम सदसं वुच्चती’’ति च ‘‘सन्थते चतुत्थचीवरसञ्ञिताया’’ति च वचनतो तं युत्तं विय दिस्सति. केचि पन ‘‘निसीदनसन्थतं एळकलोमानि सन्थरित्वा सन्थतं विय करोन्ति, तं अवायिमं अनधिट्ठानुपगं, निसीदनचीवरं पन छन्नं चीवरानं अञ्ञतरेन करोति अधिट्ठानुपगं, तं करोन्ता च नन्तकानि सन्थरित्वा सन्थतसदिसं करोन्ती’’ति वदन्ति, वीमंसित्वा युत्ततरं गहेतब्बं.

निसीदनसन्थतसिक्खापदवण्णना निट्ठिता.

६. एळकलोमसिक्खापदवण्णना

५७१. एळलोमसिक्खापदे पन आसुम्भीति एत्थ ‘‘असुम्भी’’ति पठन्ति. किलन्ताति इमिना किलन्तताय ते ओनमित्वा पातेतुं न सक्कोन्तीति दस्सेति. अद्धानमग्गप्पटिपन्नस्साति इदं वत्थुमत्तदीपनवसेन पाळियं वुत्तं. यत्थ कत्थचि पन धम्मेन लभित्वा गण्हितुं वट्टतियेव. तियोजनपरमन्ति च गहितट्ठानतो तियोजनप्पमाणं देसन्ति एवमत्थो गहेतब्बो.

५७२. सहत्थाति करणत्थे निस्सक्कवचनन्ति आह ‘‘सहत्थेना’’ति. असन्ते हारकेति पाळियं भिक्खुनो अनुरूपतादस्सनत्थं वुत्तं, न पन हारके विज्जमाने तियोजनब्भन्तरे सहत्था हरन्तस्स आपत्तिदस्सनत्थं. तियोजनतो बहि बहितियोजनन्ति आह ‘‘तियोजनतो बहि पातेती’’ति. तेन हरितेपि आपत्तियेवाति सउस्साहत्ता अनाणत्तिया हटत्ता च. सतिपि हि सउस्साहभावे आणत्तिया चे हरति, अनापत्ति ‘‘अञ्ञं हरापेती’’ति वचनतो. अञ्ञो हरिस्सतीति अधिप्पायाभावतो ‘‘सुद्धचित्तेन ठपित’’न्ति वुत्तं. सउस्साहत्ताति तियोजनातिक्कमने सउस्साहत्ता. इदञ्च ‘‘अञ्ञो हरिस्सती’’ति असुद्धचित्तेन ठपितं सन्धाय वुत्तं, अचित्तकत्ताति इदं पन सुद्धचित्तेन ठपितं सन्धाय. अनापत्ति पाळिया न समेतीति ‘‘तियोजनं हरती’’तिआदिपाळिया, विसेसतो ‘‘अञ्ञं हरापेती’’ति पाळिया च न समेति.

सचे सामिकं जानापेत्वा ठपेति, आणत्तिया हरापेति नामाति आह ‘‘सामिकस्स अजानन्तस्सेवा’’ति. अगच्छन्तेपीति गमनं उपच्छिन्दित्वा ठितयानेपि. हेट्ठा वा गच्छन्तोति भूमियं गच्छन्तो. अञ्ञं हरापेतीति एत्थ अञ्ञ-ग्गहणेन सामञ्ञतो तिरच्छानगतापि सङ्गहिताति आह – ‘‘अञ्ञं हरापेतीति वचनतो अनापत्ती’’ति. सुङ्कघाते आपत्ति होतीति अञ्ञं हरापेन्तस्स आपत्ति. तत्थ अनापत्तीति अञ्ञविहितस्स थेय्यचित्ताभावतो अनापत्ति.

५७५. ‘‘तं हरन्तस्साति पुन तियोजनं हरन्तस्सा’’ति महागण्ठिपदे वुत्तं. तं पन मातिकाट्ठकथायं अङ्गेसु ‘‘पठमप्पटिलाभो सति इमिना वचनेन न समेति. ‘‘पठमप्पटिलाभो’’ति हि इदं दुतियप्पटिलाभो आपत्तिया अङ्गं न होतीति दीपेति, तस्मा पाळियं अट्ठकथायञ्च विसेसाभावतो अच्छिन्नं पटिलभित्वा हरन्तस्स पुन तियोजनातिक्कमेपि अनापत्ति वुत्ताति अम्हाकं खन्ति. अञ्ञथा अच्छिन्नं पटिलभित्वा पुन तियोजनं हरतीति वदेय्य. वीमंसित्वा युत्ततरं गहेतब्बं. अनापत्ति कतभण्डन्ति एत्थ ‘‘कम्बलकोजवादिकतभण्डम्पि. पकतिचीवरे लग्गलोमानि आपत्तिं जनेन्तियेवा’’ति वदन्ति. तनुकपत्तत्थविकन्तरे अघट्टनत्थं पक्खिपन्ति. पक्खित्तन्ति कण्णच्छिद्दे पक्खित्तं. निधानमुखं नामाति इमिना कतभण्डसङ्ख्यं न गच्छतीति दस्सेति. एळकलोमानं अकतभण्डता, पठमप्पटिलाभो, अत्तना आदाय वा अञ्ञस्स अजानन्तस्स याने पक्खिपित्वा वा तियोजनातिक्कमनं, आहरणपच्चाहरणं, अवासाधिप्पायताति इमानेत्थ पञ्च अङ्गानि.

एळकलोमसिक्खापदवण्णना निट्ठिता.

५७६. एळकलोमधोवापनसिक्खापदं उत्तानत्थमेव.

८. रूपियसिक्खापदवण्णना

५८३-५८४. रूपियसिक्खापदे पन सत्थुवण्णोति सत्थुना समानवण्णो. सत्थुनो वण्णो सत्थुवण्णो, सत्थुवण्णो विय वण्णो अस्साति सत्थुवण्णोति मज्झपदलोपीसमासो दट्ठब्बो. पाकतिको नाम एतरहि पकतिकहापणो. रुक्खफलबीजमयोति तिन्तिणिकादिरुक्खानं फलबीजेन कतो. इच्चेतं सब्बम्पीति यथावुत्तभेदं सब्बम्पि चतुब्बिधं निस्सग्गियवत्थु होतीति सम्बन्धो. जातरूपमासकोति सुवण्णकहापणो.

गण्हेय्याति अत्तनो अत्थाय दीयमानं वा कत्थचि ठितं वा निप्परिग्गहं दिस्वा सयं गण्हेय्य. ‘‘इदं अय्यस्स होतू’’ति एवं सम्मुखा वा ‘‘असुकस्मिं नाम ठाने मम हिरञ्ञसुवण्णं अत्थि, तं तुय्हं होतू’’ति एवं परम्मुखा ठितं वा केवलं वाचाय वा हत्थमुद्दाय वा ‘‘तुय्ह’’न्ति वत्वा परिच्चत्तस्स कायवाचाहि अप्पटिक्खिपित्वा चित्तेन सादियनं उपनिक्खित्तसादियनं नाम. ‘‘सादियती’’ति वुत्तमेवत्थं विभावेति ‘‘गण्हितुकामो होती’’ति. ‘‘इदं गुत्तट्ठान’’न्ति आचिक्खितब्बन्ति पच्चयपरिभोगंयेव सन्धाय आचिक्खितब्बं. ‘‘इध निक्खिपाही’’ति वुत्ते ‘‘उग्गण्हापेय्य वा’’ति वुत्तलक्खणेन निस्सग्गियं होतीति आह – ‘‘इध निक्खिपाहीति न वत्तब्ब’’न्ति. परतो ‘‘इमं गण्हा’’ति न वत्तब्बन्ति एत्थापि एसेव नयो. कप्पियञ्च अकप्पियञ्च निस्साय ठितमेव होतीति यस्मा ततो उप्पन्नपच्चयपरिभोगो कप्पति, तस्मा कप्पियं निस्साय ठितं. यस्मा पन दुब्बिचारणाय ततो उप्पन्नपच्चयपरिभोगोपि न कप्पति, तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्बं.

न तेन किञ्चि कप्पियभण्डं चेतापितन्ति एत्थ चेतापितं चे, नत्थि परिभोगुपायो, तस्मा एवं वुत्तं. अकप्पियञ्हि निस्सग्गियं वत्थुं उग्गण्हित्वा तं अनिस्सज्जित्वाव चेतापितं कप्पियभण्डं सङ्घस्स निस्सट्ठम्पि सब्बेसं न कप्पति. केचि पन ‘‘यस्मा निस्सग्गियं वत्थुं पटिग्गहेत्वा चेतापितं कप्पियभण्डं सङ्घस्स निस्सज्जामीति निस्सट्ठं विनाव उपायं परिभुञ्जितुं वट्टति, तस्मा ‘न तेन किञ्चि कप्पियभण्डं चेतापित’न्ति वुत्त’’न्ति वदन्ति. ‘‘आरामिकानं वा पत्तभागन्ति इदं गिहीनं हत्थगतोपि सोयेव भागोति कत्वा वुत्तं. सचे पन तेन अञ्ञं परिवत्तेत्वा आरामिका देन्ति, परिभुञ्जितुं वट्टती’’ति मज्झिमगण्ठिपदे चूळगण्ठिपदे च वुत्तं. ततो हरित्वाति अञ्ञेसं पत्तभागतो हरित्वा. कसिणपरिकम्मन्ति आलोककसिणपरिकम्मं. मञ्चपीठादीनि वाति एत्थ ‘‘ततो गहितमञ्चपीठादीनि परिवत्तेत्वा अञ्ञं चे गहितं, वट्टती’’ति वदन्ति. छायापीति भोजनसालादीनं छायापि. परिच्छेदातिक्कन्ताति गेहपरिच्छेदं अतिक्कन्ता, छायाय गतगतट्ठानं गेहं नाम न होतीति अधिप्पायो. मग्गेनपीति एत्थ ‘‘सचे अञ्ञो मग्गो नत्थि, मग्गं अधिट्ठहित्वा गन्तुं वट्टती’’ति वदन्ति. कीतायाति तेन वत्थुना कीताय. उपनिक्खेपं ठपेत्वा सङ्घो पच्चये परिभुञ्जतीति सचे उपासको ‘‘अतिबहु एतं हिरञ्ञं, इदं, भन्ते, अज्जेव न विनासेतब्ब’’न्ति वत्वा सयं उपनिक्खेपं ठपेति, अञ्ञेन वा ठपापेति, एतं उपनिक्खेपं ठपेत्वा ततो उदयं परिभुञ्जन्तो सङ्घो पच्चये परिभुञ्जति, तेन वत्थुना गहितत्ता ‘‘अकप्पिय’’न्ति वुत्तं.

५८५. पतितोकासं असमन्नाहरन्तेन पातेतब्बन्ति इदं निरपेक्खभावदस्सनपरन्ति वेदितब्बं, तस्मा पतितट्ठाने ञातेपिस्स गूथं छड्डेन्तस्स विय निरपेक्खभावोयेवेत्थ पमाणन्ति वेदितब्बं. असन्तसम्भावनायाति अत्तनि अविज्जमानउत्तरिमनुस्सधम्मारोचनं सन्धाय वुत्तं. थेय्यपरिभोगो नाम अनरहस्स परिभोगो. भगवता हि अत्तनो सासने सीलवतो पच्चया अनुञ्ञाता, न दुस्सीलस्स. दायकानम्पि सीलवतो एव परिच्चागो, न दुस्सीलस्स अत्तनो कारानं महप्फलभावस्स पच्चासीसनतो. इति सत्थारा अननुञ्ञातत्ता दायकेहि च अपरिच्चत्तत्ता दुस्सीलस्स परिभोगो थेय्यपरिभोगो. इणवसेन परिभोगो इणपरिभोगो, पटिग्गाहकतो दक्खिणाविसुद्धिया अभावतो इणं गहेत्वा परिभोगो वियाति अत्थो. तस्माति ‘‘सीलवतो’’तिआदिना वुत्तमेवत्थं कारणभावेन पच्चामसति. चीवरं परिभोगे परिभोगेति कायतो मोचेत्वा मोचेत्वा परिभोगे. पुरेभत्त…पे… पच्छिमयामेसु पच्चवेक्खितब्बन्ति सम्बन्धो. तथा असक्कोन्तेन यथावुत्तकालविसेसवसेन एकस्मिं दिवसे चतुक्खत्तुं तिक्खत्तुं द्विक्खत्तुं सकिंयेव वा पच्चवेक्खितब्बं.

सचस्स अपच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठतीति एत्थ ‘‘हिय्यो यं मया चीवरं परिभुत्तं, तं यावदेव सीतस्स पटिघाताय…पे… हिरिकोपीनप्पटिच्छादनत्थं, हिय्यो यो मया पिण्डपातो परिभुत्तो, सो नेव दवायातिआदिना सचे अतीतपरिभोगपच्चवेक्खणं न करेय्य, इणपरिभोगट्ठाने तिट्ठती’’ति वदन्ति, वीमंसितब्बं. सेनासनम्पि परिभोगे परिभोगेति पवेसे पवेसे. एवं पन असक्कोन्तेन पुरेभत्तादीसु पच्चवेक्खितब्बं. तं हेट्ठा वुत्तनयेनेव सक्का विञ्ञातुन्ति इध विसुं न वुत्तं. सतिपच्चयताति सतिया पच्चयभावो, पटिग्गहणस्स परिभोगस्स च पच्चवेक्खणसतिया पच्चयभावो युज्जति, पच्चवेक्खित्वाव पटिग्गहेतब्बं परिभुञ्जितब्बञ्चाति अत्थो. तेनेवाह ‘‘सतिं कत्वा’’तिआदि. एवं सन्तेपीति यदिपि द्वीसुपि ठानेसु पच्चवेक्खणा युत्ता, एवं सन्तेपि. अपरे पनाहु ‘‘सतिपच्चयताति सतिभेसज्जपरिभोगस्स पच्चयभावे पच्चयेति अत्थो. एवं सन्तेपीति पच्चये सतिपी’’ति, तं तेसं मतिमत्तं. तथा हि पच्चयसन्निस्सितसीलं पच्चवेक्खणाय विसुज्झति, न पच्चयसब्भावमत्तेन.

ननु च ‘‘परिभोगे करोन्तस्स अनापत्ती’’ति इमिना पातिमोक्खसंवरसीलं वुत्तं, तस्मा पच्चयसन्निस्सितसीलस्स पातिमोक्खसंवरसीलस्स च को विसेसोति? वुच्चते – पुरिमेसु ताव तीसु पच्चयेसु विसेसो पाकटोयेव, गिलानपच्चये पन यथा वतिं कत्वा रुक्खमूले गोपिते तस्स फलानिपि रक्खितानियेव होन्ति, एवमेव पच्चवेक्खणाय पच्चयसन्निस्सितसीले रक्खिते तप्पटिबद्धं पातिमोक्खसंवरसीलम्पि निप्फन्नं नाम होति. गिलानपच्चयं अपच्चवेक्खित्वा परिभुञ्जन्तस्स सीलं भिज्जमानं पातिमोक्खसंवरसीलमेव भिज्जति, पच्चयसन्निस्सितसीलं पन पच्छाभत्तपुरिमयामादीसु याव अरुणुग्गमना अपच्चवेक्खन्तस्सेव भिज्जति. पुरेभत्तञ्हि अपच्चवेक्खित्वापि गिलानपच्चयं परिभुञ्जन्तस्स अनापत्ति, इदमेतेसं नानाकरणं.

एवं पच्चयसन्निस्सितसीलस्स विसुद्धिं दस्सेत्वा तेनेव पसङ्गेन सब्बापि सुद्धियो दस्सेतुं ‘‘चतुब्बिधा हि सुद्धी’’तिआदिमाह. तत्थ सुज्झति एतायाति सुद्धि, यथाधम्मं देसनाव सुद्धि देसनासुद्धि. वुट्ठानस्सपि चेत्थ देसनाय एव सङ्गहो दट्ठब्बो. छिन्नमूलापत्तीनं पन अभिक्खुतापटिञ्ञाव देसना. अधिट्ठानविसिट्ठो संवरोव सुद्धि संवरसुद्धि. धम्मेन समेन पच्चयानं परियेट्ठि एव सुद्धि परियेट्ठिसुद्धि. चतूसु पच्चयेसु वुत्तविधिना पच्चवेक्खणाव सुद्धि पच्चवेक्खणसुद्धि. एस ताव सुद्धीसु समासनयो. सुद्धिमन्तेसु सीलेसु देसना सुद्धि एतस्साति देसनासुद्धि. सेसेसुपि एसेव नयो. न पुन एवं करिस्सामीति एत्थ एवन्ति संवरभेदं सन्धायाह. पहायाति वज्जेत्वा, अकत्वाति अत्थो. दातब्बट्ठेन दायं, तं आदियन्तीति दायादा, अननुञ्ञातेसु सब्बेन सब्बं परिभोगाभावतो अनुञ्ञातेसुयेव च परिभोगसब्भावभावतो भिक्खूहि परिभुञ्जितब्बपच्चया भगवतो सन्तका. धम्मदायादसुत्तञ्चेत्थ साधकन्ति –

‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा. अत्थि मे तुम्हेसु अनुकम्पा, ‘किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’’ति (म. नि. १.२९) –

एवं पवत्तं धम्मदायादसुत्तञ्च एत्थ एतस्मिं अत्थे साधकं.

अवीतरागानं तण्हापरवसताय पच्चयपरिभोगे सामिभावो नत्थि, तदभावेन वीतरागानं तत्थ सामिभावो यथारुचि परिभोगसब्भावतो. तथा हि ते पटिकूलम्पि अप्पटिकूलाकारेन अप्पटिकूलम्पि पटिकूलाकारेन तदुभयम्पि वज्जेत्वा अज्झुपेक्खनाकारेन पच्चये परिभुञ्जन्ति, दायकानञ्च मनोरथं परिपूरेन्ति. तेनाह – ‘‘ते हि तण्हाय दासब्यं अतीतत्ता सामिनो हुत्वा परिभुञ्जन्ती’’ति. यो पनायं सीलवतो पच्चवेक्खितपरिभोगो, सो इणपरिभोगस्स पच्चनीकत्ता आणण्यपरिभोगो नाम होति. यथा हि इणायिको अत्तनो रुचिया इच्छितदेसं गन्तुं न लभति, एवं इणपरिभोगयुत्तो लोकतो निस्सरितुं न लभतीति तप्पटिपक्खत्ता सीलवतो पच्चवेक्खितपरिभोगो आणण्यपरिभोगोति वुच्चति, तस्मा निप्परियायतो चतुपरिभोगविनिमुत्तो विसुंयेवायं परिभोगोति वेदितब्बो. सो इध विसुं न वुत्तो, दायज्जपरिभोगेयेव वा सङ्गहं गच्छतीति. सीलवापि हि इमाय सिक्खाय समन्नागतत्ता सेक्खोत्वेव वुच्चति. सब्बेसन्ति अरियानं पुथुज्जनानञ्च.

कथं पुथुज्जनानं इमे परिभोगा सम्भवन्तीति? उपचारवसेन. यो हि पुथुज्जनस्सपि सल्लेखप्पटिपत्तियं ठितस्स पच्चयगेधं पहाय तत्थ अनुपलित्तेन चित्तेन परिभोगो, सो सामिपरिभोगो विय होति. सीलवतो पन पच्चवेक्खितपरिभोगो दायज्जपरिभोगो विय होति दायकानं मनोरथस्स अविराधनतो. तेनेव वुत्तं ‘‘दायज्जपरिभोगेयेव वा सङ्गहं गच्छती’’ति. कल्याणपुथुज्जनस्स परिभोगे वत्तब्बमेव नत्थि तस्स सेक्खसङ्गहतो. सेक्खसुत्तञ्हेतस्स अत्थस्स साधकं.

लज्जिना सद्धिं परिभोगो नाम लज्जिस्स सन्तकं गहेत्वा परिभोगो. अलज्जिना सद्धिन्ति एत्थापि एसेव नयो. आदितो पट्ठाय हि अलज्जी नाम नत्थीति इमिना दिट्ठदिट्ठेसुयेव आसङ्का न कातब्बाति दस्सेति. अत्तनो भारभूता सद्धिविहारिकादयो. सोपि निवारेतब्बोति यो पस्सति, तेन निवारेतब्बो. यस्मा अलज्जीपरिभोगो नाम लज्जिनो वुच्चति, तस्मा आपत्ति नाम नत्थि उभिन्नम्पि अलज्जीभावतो, ‘‘अलज्जीपरिभोगो’’ति इदं नाममत्तमेव न लब्भतीति वुत्तं होति. ‘‘आपत्ति पन अत्थियेवाति वदन्ती’’ति तीसुपि गण्ठिपदेसु वुत्तं.

अधम्मियोति अनेसनादीहि उप्पन्नो. धम्मियोति भिक्खाचरियादीहि उप्पन्नो. सङ्घस्सेव देतीति भत्तं अग्गहेत्वा अत्तना लद्धसलाकंयेव देति. सचे पन लज्जी अलज्जिं पग्गण्हाति…पे… अन्तरधापेतीति एत्थ केवलं पग्गण्हितुकामताय एवं कातुं न वट्टति, धम्मस्स पन सासनस्स सोतूनञ्च अनुग्गहत्थाय वट्टतीति वेदितब्बं. पुरिमनयेन ‘‘सो आपत्तिया कारेतब्बो’’ति वुत्तत्ता इमस्स आपत्तियेवाति वदन्ति. उद्देसग्गहणादिना धम्मस्स परिभोगो धम्मपरिभोगो. धम्मानुग्गहेन गण्हन्तस्स आपत्तिया अभावेपि थेरो तस्स अलज्जिभावंयेव सन्धाय ‘‘पापो किराय’’न्तिआदिमाह. तस्स पन सन्तिकेति महारक्खितत्थेरस्स सन्तिके.

५८६. राजोरोधादयोतिआदि ‘‘इदं गण्हिस्सामी’’ति चेतनामत्तसम्भवतो वुत्तं. अस्सतिया दिन्नन्ति एत्थ अस्सतिया दिन्नं नाम अपरिच्चत्तं होति, तस्मा दसन्ते बद्धकहापणादि अस्सतिया दिन्नं भिक्खुना वत्थसञ्ञाय पटिग्गहितञ्च, ततो नेव रूपियं दिन्नं, नापि पटिग्गहितञ्च होतीति एत्थ आपत्तिदेसनाकिच्चं नत्थि, तं पन दायकानमेव पटिदातब्बं. तेन अकप्पियवत्थुना ते चे दायका सप्पिआदीनि किणित्वान सङ्घस्स तस्स च भिक्खुनो देन्ति, सब्बेसं कप्पति दायकानंयेव सन्तकत्ता. अट्ठकथायं पन पुञ्ञकामेहि परिच्चजित्वा दिन्नमेव सन्धाय ‘‘पुञ्ञकामा…पे… रूपिये अरूपियसञ्ञी रूपियं पटिग्गण्हातीति वेदितब्बो’’ति वुत्तं, तस्मा परिच्चजित्वा दिन्नं वत्थसञ्ञाय गण्हतोपि निस्सग्गियमेव. तेन यदि ते दायका नो आगन्त्वा गण्हन्ति, दायके पुच्छित्वा अत्तनो अत्थाय चे परिच्चत्तं, सङ्घे निस्सज्जित्वा आपत्ति देसेतब्बा. तव चोळकं पस्साहीहि इमिना गिहिसन्तकेपि ‘‘इदं गण्हथा’’तिआदिअकप्पियवोहारेन विधानं भिक्खुनो न कप्पतीति दीपेति. एकपरिच्छेदानीति किरियाकिरियभावतो एकपरिच्छेदानि. जातरूपरजतभावो, अत्तुद्देसिकता, कहापणादीसु अञ्ञतरभावोति इमानेत्थ तीणि अङ्गानि.

रूपियसिक्खापदवण्णना निट्ठिता.

९. रूपियसंवोहारसिक्खापदवण्णना

५८७. रूपियसंवोहारसिक्खापदे जातरूपादिचतुब्बिधम्पि निस्सग्गियवत्थु इध रूपियग्गहणेनेव गहितन्ति आह ‘‘जातरूपरजतपरिवत्तन’’न्ति. पटिग्गहितपरिवत्तनेति सादितरूपियस्स परिवत्तने, असादियित्वा वा कप्पियेन गाहेन पटिग्गहितरूपियपरिवत्तने.

५८९. ग-कारस्स क-कारं कत्वा ‘‘सीसूपक’’न्ति लिखितं, पदभाजने घनकतन्ति पिण्डं कतं. सत्थुवण्णोतिआदीसु ‘‘सत्थुवण्णो च कहापणो च…पे… ये च वोहारं गच्छन्ती’’ति एवं सब्बत्थ समुच्चयो वेदितब्बो. रूपिये रूपियसञ्ञीति सकसन्तकं वदति. रूपियं चेतापेतीति परसन्तकं वदति. ‘‘निस्सग्गियवत्थुना दुक्कटवत्थुं वा कप्पियवत्थुं वा चेतापेन्तस्सपि एसेव नयो’’ति इदं कस्मा वुत्तं. न हि ‘‘रूपिये रूपियसञ्ञी अरूपियं चेतापेति, निस्सग्गियं पाचित्तिय’’न्तिआदित्तिको पाळियं वुत्तोति आह ‘‘यो ही’’तिआदि. तस्सानुलोमत्ताति एत्थायमधिप्पायो – रूपियसंवोहारो नाम न केवलं रूपियेन रूपियपरिवत्तनमेव, अथ खो ‘‘अरूपिये रूपियसञ्ञी रूपियं चेतापेती’’ति वुत्तत्ता अरूपियेन रूपियचेतापनम्पि रूपियसंवोहारो नाम होतीति एतस्मिं पक्खेपि रूपिये सति रूपियसंवोहारोयेव होतीति अयमत्थो अवुत्तोपि विञ्ञायतीति. अरूपियं नाम दुक्कटवत्थुकप्पियवत्थूनि. एकन्तेन रूपियपक्खेति एकेन अन्तेन रूपियपक्खेति अयं अत्थो गहेतब्बो. ‘‘एकतो रूपियपक्खे’’ति वा पाठो वेदितब्बो. ‘‘एकरूपियपक्खे’’तिपि पठन्ति, तत्थापि एकतो रूपियपक्खेति अयमेवत्थो गहेतब्बो.

कप्पियवत्थुना कप्पियवत्थुनो कयविक्कयेपि ताव निस्सग्गियं होति, दुक्कटवत्थुना दुक्कटवत्थुनो कयविक्कये कस्मा न होतीति अन्धकट्ठकथाय अधिप्पायो. इदं सिक्खापदं…पे… अरूपियेन च रूपियचेतापनं सन्धाय वुत्तन्ति सम्बन्धो. इधाति इमस्मिं रूपियसंवोहारसिक्खापदे. तत्थाति कयविक्कयसिक्खापदे. तेनेवाति कप्पियवत्थुनायेव.

पुन कप्पियभावं नेतुं असक्कुणेय्यत्ता ‘‘महाअकप्पियो नामा’’ति वुत्तं. ‘‘न सक्का केनचि उपायेन कप्पियो कातुन्ति इदं पञ्चन्नंयेव सहधम्मिकानं अन्तरे परिवत्तनं सन्धाय वुत्तं, गिहीहि पन गहेत्वा अत्तनो सन्तकं कत्वा दिन्नं सब्बेसं कप्पती’’ति वदन्ति. ‘‘न सक्का केनचि उपायेन कप्पियो कातु’’न्ति पन इमिनाव पटिग्गहितरूपियं अनिस्सज्जित्वाव तेन चेतापितं कप्पियभण्डम्पि सङ्घस्स निस्सट्ठं परिभुञ्जितुं न वट्टतीति सिद्धं.

ये पन ‘‘पटिग्गहितरूपियं अनिस्सज्जित्वापि तेन परिवत्तितं कप्पियभण्डं सङ्घस्स निस्सट्ठं परिभुञ्जितुं वट्टती’’ति वदन्ति, तेसं ‘‘न सक्का केनचि उपायेन कप्पियो कातु’’न्ति इदं न युज्जति. ते पनेत्थ एवं वदन्ति ‘‘यस्मा निस्सज्जितब्बवत्थुं अनिस्सज्जित्वाव उपरूपरि अञ्ञं अञ्ञंयेव कतं, तस्मा परिच्छेदाभावतो इध निस्सज्जितुं अवत्वा ‘न सक्का केनचि उपायेन कप्पियो कातु’न्ति वुत्तं, परिच्छेदाभावतोयेव ‘मूले मूलसामिकानं, पत्ते च पत्तसामिकानं दिन्ने कप्पियो होती’ति च न वुत्त’’न्ति. यदि पटिग्गहितरूपियं अनिस्सज्जित्वा चेतापितं कप्पियभण्डम्पि सङ्घस्स निस्सट्ठं परिभुञ्जितुं वट्टति, एवं सन्ते इधापि अवसानवत्थुं गहेत्वा सङ्घस्स निस्सट्ठं कस्मा न वट्टति, ‘‘यो पन रूपियं उग्गण्हित्वा…पे… पत्ते च पत्तसामिकानं दिन्ने कप्पियो होती’’ति इमिनापि पटिग्गहितरूपियं अनिस्सज्जित्वा चेतापितं कप्पियभण्डम्पि सङ्घस्स निस्सट्ठं परिभुञ्जितुं न वट्टतीति सिद्धं. यदि तं निस्सट्ठं परिभुञ्जितुं वट्टेय्य, ‘‘मूले मूलसामिकानं, पत्ते च पत्तसामिकानं दिन्ने कप्पियो होती’’ति न वदेय्य. अपरे पनेत्थ एवं वदन्ति ‘‘यदि सङ्घस्स निस्सट्ठं होति, रूपियपटिग्गाहकस्स न वट्टति, तस्मा तस्सपि यथा वट्टति, तथा दस्सनत्थं ‘मूले मूलसामिकान’न्तिआदि वुत्त’’न्ति.

दुतियपत्तसदिसोयेवाति इमिना पञ्चन्नम्पि सहधम्मिकानं न कप्पतीति दस्सेति. तत्थ कारणमाह ‘‘मूलस्स सम्पटिच्छितत्ता’’ति. अथ मूलस्स सम्पटिच्छितत्ता रूपियपटिग्गाहकस्स ताव अकप्पियो होतु, सेसानं पन कस्मा न कप्पतीति मञ्ञमानो पुच्छति ‘‘कस्मा सेसानं न कप्पती’’ति. कारणमाह ‘‘मूलस्स अनिस्सट्ठत्ता’’ति. पत्तस्स कप्पियभावेपि सम्पटिच्छितमूलस्स निस्सज्जितब्बस्स अनिस्सट्ठत्ता तेन गहितपत्तो सेसानम्पि न कप्पति. यदि हि तेन सम्पटिच्छितमूलं सङ्घमज्झे निस्सट्ठं सिया, तेन कप्पियेन कम्मेन आरामिकादीहि गहेत्वा दिन्नपत्तो रूपियपटिग्गाहकं ठपेत्वा सेसानं वट्टति. अपरे पन ‘‘मूलं सम्पटिच्छित्वा गहितपत्तोपि यदि सङ्घस्स निस्सट्ठो, सेसानं कप्पती’’ति वदन्ति. एवं सन्ते ‘‘मूलस्स अनिस्सट्ठत्ता’’ति न वत्तब्बं, ‘‘सङ्घस्स अनिस्सट्ठत्ता’’ति एवमेव वत्तब्बं.

दुब्बिचारितत्ताति इमिना रूपियसंवोहारो अनेन कतोति दस्सेति. अञ्ञेसं पन वट्टतीति यस्मानेन रूपियसंवोहारमत्तमेव कतं, न मूलं सम्पटिच्छितं, तस्मा विनयकम्मवसेन सङ्घस्स निस्सट्ठकालतो पट्ठाय अञ्ञेसं वट्टति. इमस्मिंयेव च अत्थे पमाणं दस्सेन्तो ‘‘महासुमत्थेरस्स किरा’’तिआदिमाह. अपरे पन ‘‘दुब्बिचारितत्ताति इमिना केवलं गिहिसन्तकभावेन ठिते दुब्बिचारितमत्तं वुत्तं, न रूपियसंवोहारापज्जनं, तस्मा रूपियसंवोहाराभावतो सो पत्तो निस्सज्जितुं न सक्काति तस्स न कप्पति, अनिस्सट्ठोपि अञ्ञेसं कप्पति. अनिस्सट्ठस्सेव च अञ्ञेसं कप्पियभावदस्सनत्थं ‘महासुमत्थेरस्स किरा’तिआदिवत्थूनि उदाहटानि. सङ्घस्स निस्सज्जीति इदञ्च अञ्ञेसं कप्पियत्ता केवलं सङ्घस्स परिच्चत्तभावं सन्धाय वुत्तं, न पन विनयकम्मवसेन सङ्घस्स निस्सट्ठभावं. इमस्स च अत्थस्स सप्पिस्स पूरेत्वाति इदं वचनं साधक’’न्ति वदन्ति.

५९१. रूपियपटिग्गहणरूपियसंवोहारेसु येन एकेकमेव कतं, तेन तत्थ तत्थ वुत्तनयेनेव निस्सज्जितब्बं. येन पन पटिग्गहितरूपियेनेव संवोहारो कतो, तेन कथं निस्सज्जितब्बन्ति? नयिदं दुक्करं, ‘‘अहं, भन्ते, नानप्पकारकं रूपियसंवोहारं समापज्जि’’न्ति एवमेव निस्सज्जितब्बं. ‘‘इमस्मिं सिक्खापदेपि ‘अरूपिये रूपियसञ्ञी, आपत्ति दुक्कटस्सा’तिआदित्तिकस्स अवसानपदे अनापत्तिया वुत्तत्ता कप्पियवत्थुवसेनेव इदं तिकं वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘अरूपियग्गहणेन कप्पियवत्थुदुक्कटवत्थूनं सङ्गहोति पुरिमपदद्वयं कप्पियवत्थुदुक्कटवत्थूनं वसेन वुत्तं, अवसानपदमेव कप्पियवत्थुवसेन वुत्त’’न्ति वदन्ति, तं न युज्जति अनापत्तिमिस्सिते अवसानत्तिके सञ्ञानानत्तं ठपेत्वा वत्थुनानत्तस्स अभावतो. दुक्कटवत्थुना पन दुक्कटवत्थुनो चेतापनं नेव इध, न तत्थ पाळियं वुत्तन्ति वचनमेत्थ साधकं. यं अत्तनो धनेन परिवत्तति, तस्स वा धनस्स वा रूपियभावो चेव, परिवत्तनञ्चाति इमानेत्थ द्वे अङ्गानि.

रूपियसंवोहारसिक्खापदवण्णना निट्ठिता.

१०. कयविक्कयसिक्खापदवण्णना

५९३. कयविक्कयसिक्खापदे पाळियं जानाहीति एत्थ उपधारेहीति अत्थो, सुट्ठु उपधारेत्वा गण्ह, इदं न मनापन्ति पुन दातुं न सक्खिस्ससीति अधिप्पायो.

५९४-५९५. कयन्ति परभण्डस्स गहणं. विक्कयन्ति अत्तनो भण्डस्स दानं. तेनाह ‘‘इमिना इमं देही’’तिआदि. यस्मा कयितं नाम परस्स हत्थतो गहितं वुच्चति, विक्कीतञ्च परस्स हत्थे दिन्नं, तस्मा ‘‘कयितञ्च होति परभण्डं अत्तनो हत्थगतं करोन्तेन, विक्कीतञ्च अत्तनो भण्डं परहत्थगतं करोन्तेना’’ति वुत्तं. यदि एवं पाळियं परतो ‘‘कयितञ्च होति विक्कयितञ्चा’’ति वत्वा ‘‘अत्तनो भण्डं परहत्थगतं परभण्डं अत्तनो हत्थगत’’न्ति कस्मा वुत्तन्ति आह ‘‘इमिना इमन्तिआदिवचनानुरूपतो पना’’तिआदि. इमिनाति हि सकसन्तकं वुत्तं. तदनुरूपतो पाळियं पठमं अत्तनो भण्डं दस्सितं, न कयविक्कयपदानुरूपतो. तञ्हि विपरीततो परसन्तकग्गहणं पुरक्खत्वा ठितं.

कामं सेसञातकेपि ‘‘इमं देही’’ति वदतो विञ्ञत्ति न होति, सद्धादेय्यविनिपातनस्सपि पन अभावं दस्सेतुकामो ‘‘मातरं पन पितरं वा’’ति आह. विञ्ञत्ति न होतीति इदं विसुं विञ्ञापनं सन्धाय वुत्तं. अञ्ञं किञ्चि अवत्वा एवं वदन्तो अञ्ञातकं विञ्ञापेति नामाति आह – ‘‘अञ्ञातकं ‘इमं देही’ति वदतो विञ्ञत्ती’’ति. अञ्ञं किञ्चि अवत्वा ‘‘इमं गण्हाही’’ति दिन्नं अञ्ञातकस्स दिन्नं नाम होतीति वुत्तं ‘‘सद्धादेय्यविनिपातन’’न्ति. तिस्सो आपत्तियोति अञ्ञातकविञ्ञत्तिसद्धादेय्यविनिपातनकयविक्कयापत्तिसङ्खाता तिस्सो आपत्तियो.

इमं नाम करोहीति वदति, वट्टतीति एत्थ भुत्तोसि, इदानि कस्मा न करोसीति वत्थुम्पि वट्टति. ‘‘निस्सग्गियं पाचित्तिय’’न्ति किञ्चापि सतियेव निस्सग्गियवत्थुम्हि पाचित्तियं वुत्तं, असतिपि पन तस्मिं पाचित्तियन्ति इदं अट्ठकथापमाणेन गहेतब्बन्ति दस्सेतुं ‘‘किञ्चापी’’तिआदि वुत्तं. परिभुत्तेति सप्पिआदिं सन्धाय वुत्तं. यं अत्तनो धनेन परिवत्तेति, येन च परिवत्तेति, तेसं कप्पियवत्थुता, असहधम्मिकता, कयविक्कयापज्जनञ्चाति इमानेत्थ तीणि अङ्गानि.

कयविक्कयसिक्खापदवण्णना निट्ठिता.

निट्ठितो कोसियवग्गो दुतियो.