९. दुतियदुट्ठदोससिक्खापदवण्णना

३९१. नवमे दिस्वाति अजिकाय विप्पटिपज्जन्तं छगलकं दिस्वा. मेत्तियं भिक्खुनिन्ति तस्सा भिक्खुनिकालं गहेत्वा भूतपुब्बवोहारेन वोहरन्ति. वेळुवनेयेवाति थेरस्स भिक्खाचारवेलं अग्गहेत्वा तेहि वुत्तभत्तुद्देसवेलंयेव सन्धाय वुत्तं. कच्चि नोति कच्चि नु. एतमत्थं आरोचेसुन्ति अञ्ञभागियस्स अधिकरणस्स कञ्चिदेसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसितभावं आरोचेसुं.

अञ्ञभागस्साति अञ्ञकोट्ठासस्स, थेरस्स मनुस्सजातिभिक्खुभावतो अञ्ञस्स तिरच्छानजातिछगलकभावसङ्खातस्स कोट्ठासस्साति वुत्तं होति. इदन्ति सामञ्ञतो नपुंसकनिद्देसेन छगलकं निद्दिसति, इदं छगलकजातन्ति अत्थो, अयं छगलकोति वुत्तं होति. अधिकरणसद्दापेक्खो वा नपुंसकनिद्देसो, इदं छगलकसङ्खातं अधिकरणन्ति वुत्तं होति. अञ्ञभागोति यथावुत्ततिरच्छानजातिछगलकभावसङ्खातो अञ्ञभागो, अञ्ञकोट्ठासोति अत्थो. अस्साति छगलकस्स. ‘‘अञ्ञभागसम्बन्धी अञ्ञभागिय’’न्ति पठमविग्गहस्स अत्थो, ‘‘अञ्ञभागवन्तं अञ्ञभागिय’’न्ति दुतियविग्गहस्स. द्वीहिपि विग्गहेहि अञ्ञभागियन्ति छगलकोव वुत्तो. तिरच्छानजातिछगलकभावञ्च ठपेत्वा परमत्थतो विसुं छगलके असतिपि ‘‘पटिमाय सरीर’’न्तिआदीसु विय अभेदेपि भेदकप्पनाय पवत्तलोकवोहारवसेन ‘‘अञ्ञभागस्स इदं, अञ्ञभागो वा अस्स अत्थी’’ति वुत्तं.

इदानि द्वीहिपि विग्गहेहि वुत्तमत्थं वित्थारेत्वा दस्सेन्तो ‘‘यो हि सो’’तिआदिमाह. सोति सो छगलको. तस्स ‘‘होती’’ति इमिना सम्बन्धो. ततोति ततो मनुस्सजातितो भिक्खुभावतो च. सो वा अञ्ञभागोति यथावुत्ततिरच्छानजातिछगलकभावसङ्खातो अञ्ञभागो. अस्साति छगलकस्स. सो छगलको अञ्ञभागियसङ्खातं लभतीति योजेतब्बं. ‘‘अधिकरणन्ति आधारो, वत्थु अधिट्ठान’’न्ति हेट्ठा वुत्तमत्थं सरूपतो दस्सेतुं ‘‘यस्मा चा’’तिआदिमाह. तेसन्ति मेत्तियभूमजकानं. इमन्ति छगलकं. नामकरणसञ्ञायाति नामकरणसङ्खाताय सञ्ञाय सो छगलको अधिकरणन्ति वेदितब्बोति योजेतब्बं. तञ्हि सन्धायाति ‘‘अवस्सं तुम्हेहि लेसो ओड्डितो, किं वदथ, किं पस्सित्था’’ति अनुयुत्तेहि तेहि भिक्खूहि ‘‘छगलकस्स विप्पटिपत्तिं दिस्वा दब्बस्स नामं तस्स करिम्हा’’ति वुत्तत्ता तस्स नामकरणसञ्ञाय अधिट्ठानभूतं तं छगलकं सन्धाय. ते भिक्खूति ते अनुयुञ्जका भिक्खू. आपत्तिलेसम्पि पुग्गलस्मिंयेव आरोपेत्वा वुत्तत्ता ‘‘पुग्गलानंयेव लेसा’’ति वुत्तं. पदभाजने पन…पे… वेदितब्बन्ति इमिना नामकरणसञ्ञाय आधारभूतस्स छगलकसङ्खातस्स अधिकरणस्स अवचने कारणं वुत्तं.

३९३. ‘‘अञ्ञभागियस्स अधिकरणस्सा’’ति एत्थ पाळिआगतअधिकरणसद्दपतिरूपकं अञ्ञं अधिकरणसद्दं पाळिआगततदञ्ञसाधारणताय उभयपदत्थं उद्धरित्वा ‘‘अधिकरणं नाम चत्तारि अधिकरणानी’’ति वुत्तं. अत्थुद्धारवसेन हि अत्थं दस्सेन्तेन पाळियं आगतसद्दपतिरूपको अञ्ञो सद्दो उभयपदत्थो उद्धरितब्बो, न च अञ्ञं उद्धरित्वा अञ्ञस्स अत्थो वत्तब्बो, तस्मा पाळिआगतअधिकरणसद्दपतिरूपको अञ्ञोयेव उभयपदत्थसाधारणो अधिकरणसद्दो उद्धटोति दट्ठब्बं. तेनेवाह ‘‘अधिकरणन्ति वचनसामञ्ञतो अत्थुद्धारवसेन पवत्तानि चत्तारि अधिकरणानी’’ति. या च सा अवसाने…पे… चोदना वुत्ताति भिक्खु सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो होति, सङ्घादिसेसे सङ्घादिसेसदिट्ठी होति, तञ्चे पाराजिकेन चोदेतीतिआदिचोदनं सन्धाय वदति.

मेथुनवीतिक्कमापत्तियो वत्थुतो सभागा, इतरासं पन अदिन्नादानादिआपत्तीनं समानेपि पाराजिकापत्तिभावे वत्थुतो विसभागाति आह ‘‘सभागविसभागवत्थुतो’’ति. सभावसरिक्खासरिक्खतोति सभावेन सदिसासदिसभावतो. पठमपाराजिकञ्हि पठमपाराजिकापत्तिया मेथुनरागेन सभावतो सदिसं, दोससम्पयुत्तमनुस्सविग्गहेन असदिसं. ननु च ‘‘आपत्ताधिकरणं आपत्ताधिकरणस्स सिया तब्भागियं, सिया अञ्ञभागिय’’न्ति वुत्तत्ता उद्देसानुक्कमेन तब्भागियतं अनिद्दिसित्वा अञ्ञभागियता पठमं कस्मा निद्दिट्ठाति आह ‘‘आदितो पट्ठाया’’तिआदि. वुत्तनयेनेवाति ‘‘सभागविसभागवत्थुतो’’तिआदिना वुत्तनयेन.

‘‘सङ्घकम्मानि निस्साय उप्पन्न’’न्ति वुत्तत्ता सङ्घकम्मतो किच्चाधिकरणं विसुं विय दिस्सतीति आह ‘‘किं पना’’तिआदि. ‘‘किच्चमेव किच्चाधिकरण’’न्ति वुत्तत्ता ‘‘सङ्घकम्मानमेवेतं अधिवचन’’न्ति वुत्तं. यदि एवं ‘‘सङ्घकम्मानि निस्साय उप्पन्न’’न्ति कस्मा वुत्तन्ति आह ‘‘एवं सन्तेपी’’तिआदि. तस्स तस्स सङ्घकम्मस्स भगवता वुत्तं इतिकत्तब्बतालक्खणंयेव ततो सङ्घकम्मस्स निप्फज्जनतो फलूपचारेन सङ्घकम्मन्ति वत्तब्बतं अरहतीति आह ‘‘यं कम्मलक्खणं मनसि करोति, तं निस्साय उप्पज्जनतो’’ति. परिवासादिसङ्घकम्मं निस्साय मानत्तादीनं उप्पज्जनतो उक्खेपनीयकम्मसीमासम्मुतिकम्मादीनि इस्साय ओसारणसीमासमूहननादिकम्मानं उप्पज्जनतो च ‘‘पुरिमं पुरिमं सङ्घकम्म’’न्तिआदि वुत्तं.

३९५-४००. सवत्थुकं कत्वाति पुग्गलाधिट्ठानं कत्वा. दीघादिनोति दीघरस्सकाळओदातादिनो. दिट्ठादिनोति दिट्ठसुतादिनो. लोहपत्तसदिसोति अयोपत्तसदिसो. अङ्गानि पठमदुट्ठदोसे वुत्तसदिसानि, इध पन कञ्चिदेसं लेसमत्तं उपादियना अधिका.

दुतियदुट्ठदोससिक्खापदवण्णना निट्ठिता.