१०. पठमसङ्घभेदसिक्खापदवण्णना

४१०. दसमे ये दुब्बला होन्ति अप्पथामा, न सक्कोन्ति अरञ्ञकादीनि सेवन्ता दुक्खस्सन्तं कातुं, ते सन्धायाह ‘‘बहूनं कुलपुत्तानं मग्गन्तरायाय संवत्तन्ती’’ति. अधिवासनखन्तिसम्पन्नोति ‘‘खमो होति सीतस्सा’’तिआदिना वुत्तसीतुण्हादिसहनलक्खणाय खन्तिया समन्नागतो. ब्यञ्जनपदमेव परमं अस्साति पदपरमो. यस्स हि पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, अयं ‘‘पदपरमो’’ति वुच्चति. अभिसम्भुणित्वाति निप्फादेत्वा. नाभिसम्भुणातीति न सम्पादेति, अरञ्ञवासं सम्पादेतुं न सक्कोतीति वुत्तं होति. धम्मतो अपेतं उद्धम्मं. असब्बञ्ञू अस्साति तेसं अनुरूपस्स अजाननतो असब्बञ्ञू भवेय्य. ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति (महाव. २०४) वचनतो ‘‘चत्तारो पन…पे… पटिक्खित्तमेवा’’ति वुत्तं. इदमेव वचनं सन्धाय पाळियम्पि ‘‘अट्ठ मासे खो मया देवदत्त रुक्खमूलसेनासनं अनुञ्ञात’’न्ति वुत्तं.

तीहि कोटीहीति तीहि आकारेहि, तीहि कारणेहीति अत्थो. तदुभयविमुत्तपरिसङ्कितन्ति दिट्ठं सुतन्ति इदं उभयं अनिस्साय ‘‘किं नु खो इदं भिक्खुं उद्दिस्स वधित्वा सम्पादित’’न्ति केवलमेव परिसङ्कितं. मच्छबन्धनं जालं, वागुरा मिगबन्धनी. कप्पतीति यदि तेसं वचनेन आसङ्का उपच्छिन्ना होति, वट्टति. पवत्तमंसन्ति विक्कायिकमंसं. मङ्गलादीनन्ति आदि-सद्देन आहुनपाहुनादिके सङ्गण्हाति. भिक्खूनंयेव अत्थायाति एत्थ अट्ठानप्पयुत्तो एव-सद्दो, भिक्खूनं अत्थाय अकतमेवाति सम्बन्धितब्बं. तस्मा ‘‘भिक्खूनञ्च दस्साम, मङ्गलादीनञ्च अत्थाय भविस्सती’’ति मिस्सेत्वा कतम्पि न वट्टतीति वेदितब्बं. केचि पन ‘‘भिक्खूनंयेवाति अवधारणेन भिक्खूनञ्च अञ्ञेसञ्च अत्थाय कतं वट्टती’’ति वदन्ति, तं न सुन्दरं. यत्थ च निब्बेमतिको होतीति भिक्खूनं अत्थाय कतेपि सब्बेन सब्बं परिसङ्किताभावमाह. तमेवत्थं आविकातुं ‘‘सचे पना’’तिआदि वुत्तं. इतरेसं वट्टतीति अजानन्तानं वट्टति, जानतो एवेत्थ आपत्ति होतीति. तेयेवाति ये उद्दिस्स कतं, तेयेव. उद्दिसकतमंसपरिभोगतो अकप्पियमंसपरिभोगस्स विसेसं दस्सेतुं ‘‘अकप्पियमंसं पना’’तिआदि वुत्तं. पुरिमस्मिं सचित्तका आपत्ति, इतरस्मिं अचित्तका. तेनाह ‘‘अकप्पियमंसं अजानित्वा भुञ्जन्तस्सपि आपत्तियेवा’’ति. ‘‘परिभोगकाले पुच्छित्वा परिभुञ्जिस्सामीति वा गहेत्वा पुच्छित्वा परिभुञ्जितब्ब’’न्ति वचनतो अकप्पियमंसं अजानित्वा गण्हन्तस्स पटिग्गहणेन अनापत्ति सिया. अजानित्वापि भुञ्जन्तस्सेव हि आपत्ति वुत्ता. वत्तन्ति वदन्तीति इमिना आपत्ति नत्थीति दस्सेति.

सल्लेखा वुत्ति एतेसन्ति सल्लेखवुत्तिनो. बाहुलिकोति एकस्स ल-कारस्स लोपं कत्वा वुत्तं. कप्पन्ति आयुकप्पं. सङ्घभेदको हि एकं कप्पं असीतिभागे कत्वा ततो एकभागमत्तं कालं निरये तिट्ठेय्याति आयुकप्पं सन्धाय ‘‘कप्पं निरयम्हि पच्चती’’ति वुत्तं. कप्पट्ठकथायं (विभ. अट्ठ. ८०९) पन ‘‘सण्ठहन्ते हि कप्पे कप्पवेमज्झे वा सङ्घभेदं कत्वा कप्पविनासेयेव मुच्चति. सचेपि हि स्वे कप्पो विनस्सिस्सतीति अज्ज सङ्घभेदं करोति, स्वेव मुच्चति, एकदिवसमेव निरये पच्चती’’ति वुत्तं. तत्थापि कप्पविनासेयेवाति आयुकप्पविनासेयेवाति अत्थे सति नत्थि विरोधो. सण्ठहन्तेति इदम्पि ‘‘स्वे विनस्सिस्सती’’ति विय अभूतपरिकप्पनवसेन वुत्तं. ‘‘एकदिवसमेव निरये पच्चती’’ति एत्थापि ततो परं कप्पाभावे आयुकप्पस्सपि अभावतोति अविरोधतो अत्थयोजना दट्ठब्बा. ब्रह्मं पुञ्ञन्ति सेट्ठं पुञ्ञं. कप्पं सग्गम्हि मोदतीति एत्थापि आयुकप्पमेव.

४११. लद्धिनानासंवासकेनाति भावप्पधानोयं निद्देसो, लद्धिनानासंवासकभावेनाति अत्थो. कम्मनानासंवासकेनाति एत्थापि एसेव नयो. अञ्ञथा नानासंवासकेन सहितस्स समानसंवासकस्सपि सङ्घस्स असमानसंवासकत्तं आपज्जेय्य. तत्थ लद्धिनानासंवासको नाम उक्खित्तानुवत्तको. सो हि अत्तनो लद्धिया नानासंवासको जातोति ‘‘लद्धिनानासंवासको’’ति वुच्चति. कम्मनानासंवासको नाम उक्खेपनीयकम्मकतो. सो हि उक्खेपनीयकम्मवसेन नानासंवासको होतीति ‘‘कम्मनानासंवासको’’ति वुच्चति. विरहितोति विमुत्तो. कायसामग्गीदानं तेसु तेसु सङ्घकम्मेसु हत्थपासूपगमनवसेन वेदितब्बं.

‘‘भेदाय परक्कमेय्या’’ति विसुं वुत्तत्ता भेदनसंवत्तनिकस्स अधिकरणस्स समादाय पग्गण्हतो पुब्बेपि पक्खपरियेसनादिवसेन सङ्घभेदाय परक्कमन्तस्स समनुभासनकम्मं कातब्बन्ति वेदितब्बं. इमानि वत्थूनीति अट्ठारस भेदकरवत्थूनि. कम्मेनाति अपलोकनादीसु चतूसु कम्मेसु अञ्ञतरेन कम्मेन. उद्देसेनाति पञ्चसु पातिमोक्खुद्देसेसु अञ्ञतरेन उद्देसेन. वोहारेनाति ताहि ताहि उपपत्तीहि ‘‘अधम्मं धम्मो’’तिआदिअट्ठारसभेदकरवत्थुदीपकेन वोहारेन. अनुस्सावनायाति ‘‘ननु तुम्हे जानाथ मय्हं उच्चाकुला पब्बजितभावं बहुस्सुतभावञ्च, मादिसो नाम उद्धम्मं उब्बिनयं सत्थुसासनं गाहेय्याति चित्तम्पि उप्पादेतुं तुम्हाकं युत्तं, किं मय्हं अवीचि नीलुप्पलवनं विय सीतलो, किमहं अपायतो न भायामी’’तिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन. सलाकग्गाहेनाति एवं अनुस्सावेत्वा तेसं चित्तं उपत्थम्भेत्वा अनिवत्तिधम्मे कत्वा ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन. पञ्चहि कारणेहि सङ्घभेदो होतीति एत्थ कम्ममेव उद्देसो वा सङ्घभेदे पधानकारणन्ति वेदितब्बं. वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागा. अट्ठारसवत्थुदीपनवसएन हि वोहरन्तेन तत्थ रुचिजननत्थं अनुस्सावेत्वा सलाकाय गहितायपि अभिन्नोव होति सङ्घो. यदा पन एवं चत्तारो वा अतिरेका वा सलाकं गहेत्वा आवेणिककम्मं वा उद्देसं वा करोन्ति, तदा सङ्घो भिन्नो नाम होति. अब्भुस्सितन्ति अब्भुग्गतं. अच्छेय्याति विहरेय्य, पवत्तेय्याति अत्थो.

‘‘लज्जी रक्खिस्सती’’ति वचनतो आपत्तिभयेन आरोचनं लज्जीनंयेव भारोति आह ‘‘लज्जीहि भिक्खूही’’ति. अलज्जिस्सपि अनारोचेन्तस्स आपत्तियेव ‘‘ये पस्सन्ति, ये सुणन्ती’’ति वचनतो. समागच्छतूति एकी भवतु. एकीभावो च समानलद्धिवसेन होतीति आह ‘‘एकलद्धिको होतू’’ति. सम्पत्तियाति सीलादिसम्पत्तिया. पटिनिस्सज्जन्तस्स अनापत्तिभावतो ‘‘सोत्थिभावो तस्स भिक्खुनो’’ति वुत्तं. अप्पटिनिस्सज्जतो दुक्कटन्ति विसुं विसुं वदन्तानं गणनाय दुक्कटं. पहोन्तेनाति गन्तुं समत्थेन अगिलानेन. सङ्घभेदस्स गरुकभावतो अवस्सं कत्तब्बतादस्सनत्थं ‘‘दूरेपि भारोयेवा’’ति वुत्तं, आपत्ति पन अद्धयोजनब्भन्तरे गन्तुं समत्थस्स अगिलानस्सेव वेदितब्बा.

४१६. असमनुभासन्तस्साति कम्मकारके कत्तुनिद्देसोति आह ‘‘असमनुभासियमानस्सा’’ति. ततियकम्मवाचाय पटिनिस्सज्जन्तो ञत्तिया दुक्कटं द्वीहि कम्मवाचाहि थुल्लच्चये च आपज्जतियेवाति आह ‘‘पटिनिस्सज्जन्तस्स सङ्घादिसेसेन अनापत्ती’’ति. अस्साति देवदत्तस्स. कतेन भवितब्बन्ति समनुभासनकम्मेन कतेन भवितब्बं. अत्तनो रुचिमत्तेन वदेय्यातिआदिकम्मिकत्ता अप्पटिनिस्सज्जन्तस्सपि अनापत्तीति अधिप्पायेन वदेय्य. अपञ्ञत्ते सिक्खापदे समनुभासनकम्मस्सेव अभावतो ‘‘न हि पञ्ञत्तं सिक्खापदं वीतिक्कमन्तस्सा’’ति वुत्तं. सिक्खापदं पञ्ञपेन्तेनेव हि समनुभासनकम्मं अनुञ्ञातं. उद्दिस्स अनुञ्ञाततोति ‘‘अनुजानामि, भिक्खवे, रोमन्थकस्स रोमन्थन’’न्तिआदिं (चूळव. २७३) उद्दिस्स अनुञ्ञातं सन्धाय वदन्ति. अनापत्तियन्ति अनापत्तिवारे. आपत्तिं रोपेतब्बोति अनिस्सज्जनपच्चया आपन्नपाचित्तियापत्तिं उक्खेपनीयकम्मकरणत्थं आरोपेतब्बोति अत्थो.

आपत्तियेव न जाताति सङ्घादिसेसापत्ति न जातायेवाति अत्थो. सा पनेसाति सा पन एसा अनापत्ति. तिवङ्गिकन्ति कायवाचाचित्तवसेन तिवङ्गिकं, कायवाचाचित्ततो समुट्ठातीति वुत्तं होति. ‘‘नप्पटिनिस्सज्जामी’’ति सञ्ञाय अभावेन मुच्चनतो सञ्ञाविमोक्खं. सचित्तकन्ति ‘‘नप्पटिनिस्सज्जामी’’ति जाननचित्तेन सचित्तकं. भेदाय परक्कमनं, धम्मकम्मेन समनुभासनं, कम्मवाचापरियोसानं, अप्पटिनिस्सज्जनन्ति इमानेत्थ चत्तारि अङ्गानि.

पठमसङ्घभेदसिक्खापदवण्णना निट्ठिता.