४. छन्नसुत्तवण्णना

८७. सब्बनिमित्तेहि पटिसल्लीयति एतेनाति पटिसल्लानं, फलसमापत्ति. जीवितहारकसत्थं जीवितस्स हरणतो, सत्तानञ्च ससनतो हिंसनतो. परिचरितोति पयिरुपासितो. तेन यथानुसिट्ठं पटिपज्जिन्ति दीपेति.

अनुपवज्जन्ति परेहि न उपवदितब्बं. तं पनेत्थ आयतिं अप्पटिसन्धिभावतो होतीति आह ‘‘अप्पवत्तिक’’न्ति. ‘‘नेतं ममा’’तिआदीनि वदन्तो अरहत्ते पक्खिपित्वा कथेसि. पुथुज्जनभावमेव दीपेन्तो वदति अकतकिच्चभावदीपनेन. किञ्चापि थेरो पुच्छितं पञ्हं अरहत्ते पक्खिपित्वा कथेसि, ‘‘न समनुपस्सामी’’ति पन वदन्तो किञ्चि निप्फत्तिं न कथेसि, तस्मा ‘‘इदम्पि मनसि कातब्ब’’न्ति इदं आनेत्वा सम्बन्धो.

किलेसपस्सद्धीति किलेसपरिळाहवूपसमो. भवत्थाय पुन भवत्थाय. आलयनिकन्ति परियुट्ठानेति भवन्तरे अपेक्खासञ्ञिते आलये निकन्तिया च परियुट्ठानप्पत्तिया. असति अविज्जमानाय. पटिसन्धिवसेन अञ्ञभवतो इधागमनं आगति नाम. चुतिवसेन गमनन्ति चवनवसेन इतो गति. अनुरूपगमनं गति नाम तदुभयं न होति. चुतूपपातो अपरापरभवनवसेन चुति, उपपज्जनवसेन उपपातो, तदुभयम्पि न होति. एवं पन चुतूपपाते असति नेविध न इध लोके. न हुरं न परलोके होति. ततो एव न उभयत्थ होति. अयमेव अन्तो अयं इधलोके परलोके च अभावोयेव दुक्खस्स परियोसानं. अयमेवाति यथावुत्तो एव – एत्थ एतस्मिं पाठे परम्परागतो पमाणभूतो अत्थो.

ये पनाति सम्मवादिनो सन्धाय वदति. अन्तराभवं इच्छन्ति ‘‘एवं भवेन भवन्तरसम्बन्धो युज्जेय्या’’ति. निरत्थकं अन्तराभवस्स नाम कस्सचि अभावतो. चुतिक्खन्धानन्तरञ्हि पटिसन्धिक्खन्धानंयेव पातुभावो. तेनाह ‘‘अन्तराभवस्स…पे… पटिक्खित्तोयेवा’’ति. तत्थ भावोति अत्थिता. अभिधम्मे कथावत्थुप्पकरणे (कथा. ५०५-५०७) पटिक्खित्तोयेव. यदि एवं ‘‘अन्तरेना’’ति इदं कथन्ति आह ‘‘अन्तरेना’’तिआदि. विकप्पतो अञ्ञं विकप्पन्तरं, तस्स दीपनं ‘‘अन्तरेना’’ति वचनं. न अन्तराभवदीपनं तादिसस्स अनुपलब्भनतो पयोजनाभावतो च. यत्थ हि विपाकविञ्ञाणस्स पच्चयो, तत्थस्स निस्सयभूतस्स वत्थुस्स सहभावीनञ्च खन्धानं सम्भवोति सद्धिं अत्तनो निस्सयेन विञ्ञाणं उप्पज्जतेवाति नास्स उप्पत्तिया देसदूरता वेदितब्बा. ‘‘नेव इध न हुर’’न्ति वुत्तद्वयतो अपरं विकप्पेन ‘‘न उभय’’न्ति, तत्थपि न होतियेवाति अधिप्पायो. ‘‘अन्तरेना’’ति वा ‘‘विना’’ति इमिना समानत्थो निपातो, तस्मा नेविध, न हुरं, उभयं विनापि नेवाति अत्थो.

आहरीति छिन्नवसेन गण्हि. तेनाह ‘‘कण्ठनाळं छिन्दी’’ति. परिग्गण्हन्तोति सम्मसन्तो. परिनिब्बुतो दीघरत्तं विपस्सनायं युत्तपयुत्तभावतो. ‘‘अनुपवज्जं छन्नेन भिक्खुना सत्थं आहरित’’न्ति, कथेसीति असेक्खकाले ब्याकरणं विय कत्वा कथेसि.

इमिनाति ‘‘उपवज्जकुलानी’’ति इमिना वचनेन. थेरोति सारिपुत्तत्थेरो. एवन्ति एवं पुब्बकालेसु संसट्ठविहारी हुत्वा ठितो पच्छा अरहत्तं पापुणिस्सतीति आसङ्कन्तो पुच्छति. सेसं उत्तानमेव.

छन्नसुत्तवण्णना निट्ठिता.