९. छन्नवग्गो
१. पलोकधम्मसुत्तवण्णना
८४. अनिच्चलक्खणमेव कथितं, तञ्च परियायेन, अनिच्चलक्खणे कथिते इतरलक्खणानि कथितानेव होन्ति ब्यभिचारभावतो.
२. सुञ्ञतलोकसुत्तवण्णना
८५. अत्तनो इदन्ति अत्तनियन्ति आह ‘‘अत्तनो सन्तकेना’’ति.
३. संखित्तधम्मसुत्तवण्णना
८६. वुत्तनयेनेव वेदितब्बन्ति खन्धियवग्गे खन्धवसेन आगतं, इध आयतनवसेनाति अयमेव विसेसो.
४. छन्नसुत्तवण्णना
८७. सब्बनिमित्तेहि पटिसल्लीयति एतेनाति पटिसल्लानं, फलसमापत्ति. जीवितहारकसत्थं जीवितस्स हरणतो, सत्तानञ्च ससनतो हिंसनतो. परिचरितोति पयिरुपासितो. तेन यथानुसिट्ठं पटिपज्जिन्ति दीपेति.
अनुपवज्जन्ति परेहि न उपवदितब्बं. तं पनेत्थ आयतिं अप्पटिसन्धिभावतो होतीति आह ‘‘अप्पवत्तिक’’न्ति. ‘‘नेतं ममा’’तिआदीनि वदन्तो अरहत्ते पक्खिपित्वा कथेसि. पुथुज्जनभावमेव दीपेन्तो वदति अकतकिच्चभावदीपनेन. किञ्चापि थेरो पुच्छितं पञ्हं अरहत्ते पक्खिपित्वा कथेसि, ‘‘न समनुपस्सामी’’ति पन वदन्तो किञ्चि निप्फत्तिं न कथेसि, तस्मा ‘‘इदम्पि मनसि कातब्ब’’न्ति इदं आनेत्वा सम्बन्धो.
किलेसपस्सद्धीति किलेसपरिळाहवूपसमो. भवत्थाय पुन भवत्थाय. आलयनिकन्ति परियुट्ठानेति भवन्तरे अपेक्खासञ्ञिते आलये निकन्तिया च परियुट्ठानप्पत्तिया. असति अविज्जमानाय. पटिसन्धिवसेन अञ्ञभवतो इधागमनं आगति नाम. चुतिवसेन गमनन्ति चवनवसेन इतो गति. अनुरूपगमनं गति नाम तदुभयं न होति. चुतूपपातो अपरापरभवनवसेन चुति, उपपज्जनवसेन उपपातो, तदुभयम्पि न होति. एवं पन चुतूपपाते असति नेविध न इध लोके. न हुरं न परलोके होति. ततो एव न उभयत्थ होति. अयमेव अन्तो अयं इधलोके परलोके च अभावोयेव दुक्खस्स परियोसानं. अयमेवाति यथावुत्तो एव – एत्थ एतस्मिं पाठे परम्परागतो पमाणभूतो अत्थो.
ये पनाति सम्मवादिनो सन्धाय वदति. अन्तराभवं इच्छन्ति ‘‘एवं भवेन भवन्तरसम्बन्धो युज्जेय्या’’ति. निरत्थकं अन्तराभवस्स नाम कस्सचि अभावतो. चुतिक्खन्धानन्तरञ्हि पटिसन्धिक्खन्धानंयेव पातुभावो. तेनाह ‘‘अन्तराभवस्स…पे… पटिक्खित्तोयेवा’’ति. तत्थ भावोति अत्थिता. अभिधम्मे कथावत्थुप्पकरणे (कथा. ५०५-५०७) पटिक्खित्तोयेव. यदि एवं ‘‘अन्तरेना’’ति इदं कथन्ति आह ‘‘अन्तरेना’’तिआदि. विकप्पतो अञ्ञं विकप्पन्तरं, तस्स दीपनं ‘‘अन्तरेना’’ति वचनं. न अन्तराभवदीपनं तादिसस्स अनुपलब्भनतो पयोजनाभावतो च. यत्थ हि विपाकविञ्ञाणस्स पच्चयो, तत्थस्स निस्सयभूतस्स वत्थुस्स सहभावीनञ्च खन्धानं सम्भवोति सद्धिं अत्तनो निस्सयेन विञ्ञाणं उप्पज्जतेवाति नास्स उप्पत्तिया देसदूरता वेदितब्बा. ‘‘नेव इध न हुर’’न्ति वुत्तद्वयतो अपरं विकप्पेन ‘‘न उभय’’न्ति, तत्थपि न होतियेवाति अधिप्पायो. ‘‘अन्तरेना’’ति वा ‘‘विना’’ति इमिना समानत्थो निपातो, तस्मा नेविध, न हुरं, उभयं विनापि नेवाति अत्थो.
आहरीति छिन्नवसेन गण्हि. तेनाह ‘‘कण्ठनाळं छिन्दी’’ति. परिग्गण्हन्तोति सम्मसन्तो. परिनिब्बुतो दीघरत्तं विपस्सनायं युत्तपयुत्तभावतो. ‘‘अनुपवज्जं छन्नेन भिक्खुना सत्थं आहरित’’न्ति, कथेसीति असेक्खकाले ब्याकरणं विय कत्वा कथेसि.
इमिनाति ‘‘उपवज्जकुलानी’’ति इमिना वचनेन. थेरोति सारिपुत्तत्थेरो. एवन्ति एवं पुब्बकालेसु संसट्ठविहारी हुत्वा ठितो पच्छा अरहत्तं पापुणिस्सतीति आसङ्कन्तो पुच्छति. सेसं उत्तानमेव.
छन्नसुत्तवण्णना निट्ठिता.
५-६. पुण्णसुत्तादिवण्णना
८८-८९. तन्ति चक्खुरूपद्वयं. तेनाह ‘‘चक्खुञ्चेव रूपञ्चा’’ति. नन्दिसमुदयाति नन्दिया समुदयतण्हाय सेसकारणेहि नन्दिया समुदिति समोधानं नन्दिसमुदयो, तस्मा नन्दिसमुदया. तेनाह ‘‘तण्हाय समोधानेना’’ति. पञ्चक्खन्धसङ्खातस्स दुक्खस्स समोधानेन समुदिति पवत्तियेवाति सह समुदयेन दुक्खस्स दस्सितत्ता ‘‘वट्टं मत्थकं पापेत्वा’’ति वुत्तं. निरोधूपायेन सद्धिं निरोधस्स दस्सितत्ता ‘‘विवट्टं मत्थकं पापेत्वा’’ति. पुच्छानुसन्धिआदीसु अञ्ञतरो न होतीति आह – ‘‘पाटियेक्को अनुसन्धी’’ति.
चण्डाति कोधना. दुट्ठाति दोसवन्तोति अत्थो. किब्बिसाति पापा. कक्खळाति दारुणा. घटिकमुग्गरेनाति एकस्मिं पक्खे घटिकं दस्सेत्वा कतेन रस्सदण्डेन. सत्तानं ससनतो सत्थं, ततो एव जीवितस्स हरणतो हारकञ्चाति सत्थहारकं. इन्द्रियसंवरो ‘‘दमो’’ति वुत्तो मनच्छट्ठानं इन्द्रियानं दमनतो. पञ्ञा ‘‘दमो’’ति वुत्ता किलेसविसेवितानं दमनतो वूपसमनतो. उपोसथकम्मं ‘‘दमो’’ति वुत्तं कायद्वारादीहि उप्पज्जनकअसमस्स दमनतो. खन्ति ‘‘दमो’’ति वेदितब्बा अक्खन्तिया दमनतो वूपसमनतो. तेनाह ‘‘उपसमोति तस्सेव वेवचन’’न्ति.
एत्थाति सुनापरन्तजनपदे. एते द्वेति अयं पुण्णत्थेरो तस्स कनिट्ठोति एते द्वे भातरो. आहच्च अट्ठासि उळारं बुद्धारम्मणं पीतिं उप्पादेत्वा. सत्त सीहनादे नदित्वाति मम्मच्छेदकानम्पि अक्कोसपरिभासानं खमने सन्तोसाभावदीपनं, पाणिप्पहारस्स, लेड्डुप्पहारस्स, दण्डप्पहारस्स, सत्थप्पहारस्स, जीवितवोरोपनस्स, खमने सन्तोसाभावदीपनञ्चाति एवं सत्त सीहनादे नदित्वा. चतूसु ठानेसु वसितत्ता पाळियं वसनट्ठानं अनुद्देसिकं कत्वा ‘‘सुनापरन्तस्मिं जनपदे विहरति’’इच्चेव वुत्तं.
चतूसु ठानेसूति अब्बुहत्थपब्बते, समुद्दगिरिविहारे, मातुलगिरिम्हि, मकुळकारामविहारेति इमेसु चतूसु ठानेसु. तन्ति चङ्कमं आरुय्ह कोचि भिक्खु चङ्कमितुं समत्थो नत्थि महता समुद्दपरिस्सयेन भावनामनसिकारस्स अनभिसम्भुणनतो. उप्पातिकन्ति उप्पातकरं महासङ्खोभं उट्ठपेत्वा. सम्मुखेति अनिलपदेसे. पटिवेदेसुन्ति पवेदेसुं.
आरद्धकालतो पट्ठायाति मण्डलमाळस्स कातुं पथवीमितकालतो पभुति. सच्चबन्धेन पञ्चसतानि परिपूरेतुं ‘‘एकूनपञ्चसतान’’न्ति वुत्तं. गन्धकुटिन्ति जेतवनमहाविहारे महागन्धकुटिं.
सच्चबन्धनामोति सच्चबन्धे पब्बते चिरनिवासिताय ‘‘सच्चबन्धो’’त्वेव लद्धनामो. अरहत्तं पापुणीति पञ्चाभिञ्ञापरिवारं अरहत्तं अधिगच्छि. तेनाह ‘‘मग्गेनेवस्स अभिञ्ञा आगता’’ति.
तस्मिं सन्निपतिता महाजना केचि सोतापन्ना, केचि सकदागामिनो, केचि अनागामिनो, केचि अरहन्तो अहेसुं. तत्थापि केचि तेविज्जा, केचि छळभिञ्ञा, केचि पटिसम्भिदप्पत्ता अहेसुं. तं सन्धाय वुत्तं ‘‘महाजनस्स बन्धनमोक्खो जातो’’ति. ये पन तत्थ सरणगमनपञ्चसीलदससीलसमादानेन लद्धानुग्गहा, तेसं देवतानञ्च वसेन ‘‘महन्तं बुद्धकोलाहलं अहोसी’’ति वुत्तं.
अरुणं पन महागन्धकुटियंयेव उट्ठपेसि देवतानुग्गहत्थञ्चेव कुलानुदयाय च. अपायमग्गे ओतारितो ‘‘कोचि लोकस्स सजिता अत्थि, तस्स वसेन पवत्तिसंहारा होन्ति, तेनेवायं पजा सनाथा होति, तं युञ्जति च तस्मिं तस्मिं कम्मे’’ति मिच्छागाहेहि. परिचरितब्बं याचि ‘‘एत्थ मया चिरं वसितब्ब’’न्ति.
छट्ठन्ति बाहियसुत्तं. तं उत्तानमेव हेट्ठा वुत्तनयत्ता.
पुण्णसुत्तादिवण्णना निट्ठिता.
७-८. पठमएजासुत्तादिवण्णना
९०-९१. एजति छळारम्मणनिमित्तं कम्पतीति एजा. तेनाह ‘‘चलनट्ठेना’’ति. आबाधनट्ठेन पीळनट्ठेन. अन्तो दोसनट्ठेनाति अन्तोचित्ते एव पदुस्सनट्ठेन. निकन्तनट्ठेनाति छिन्दनट्ठेन. हेट्ठा गहितमेवाति हेट्ठा मञ्ञितसमुग्घातसारुप्पसुत्ते आगतमेव. वुत्तनयमेव मञ्ञितसमुग्घातसुत्ते.
पठमएजासुत्तादिवण्णना निट्ठिता.
९-१०. पठमद्वयसुत्तादिवण्णना
९२-९३. द्वयन्ति दुकं. पाळियं आमेडितलोपेन निद्देसोति आह ‘‘द्वे द्वे कोट्ठासे’’ति. एवमेतन्ति एवं अनिच्चादिभावेन एतं चक्खुरूपञ्चाति द्वयं. चलतीति अनवट्ठानेन पचलति. ब्यथतीति जराय मरणेन च पवेधति. हेतु चेव उप्पत्तिनिमित्तत्ता. सहगतीति सहप्पवत्ति, ताय गहेतब्बत्ता ‘‘सङ्गती’’ति फस्सो वुत्तो. एस नयो सेसपदद्वयेपि. यस्मा च संगच्छमानधम्मविमुत्ता सङ्गति नाम नत्थि, तथा सन्निपातसमवाया, तेसं वसेन निब्बत्तो फस्सो तथा वुच्चतीति. तेनाह ‘‘इमिना’’तिआदि.
वत्थूति चक्खु निस्सयपच्चयादिभावेन. आरम्मणन्ति रूपं आरम्मणपच्चयादिभावेन. सहजाता तयो खन्धा वेदनादयो, ते सहजातादिपच्चयभावेन. अयं हेतूति अयं तिविधो हेतू. फस्सेनातिआदीसु अयं सङ्खेपत्थो – यस्मा रूपारम्मणे फस्से अत्तनो फुसनकिच्चं करोन्ते एवं वेदना अनुभवनकिच्चं, सञ्ञा सञ्जाननकिच्चं करोति, तस्मा ‘‘फस्सेन फुट्ठमेवा’’तिआदिवुत्तमेव अत्थं इदानि पुग्गलाधिट्ठानेन दस्सेतुं ‘‘फुट्ठो’’तिआदि वुत्तं. पञ्चेव खन्धा भगवता समतिंसाय आकारेहि वुत्ता. कस्माति आह ‘‘कथ’’न्तिआदि. रुक्खसाखासु रुक्खवोहारो विय एकेकधम्मेपि खन्धवोहारो होतियेव. तेनाह भगवा – ‘‘विञ्ञाणं विञ्ञाणक्खन्धो’’ति (यम. खन्धयमक २).
पठमद्वयसुत्तादिवण्णना निट्ठिता.
छन्नवग्गवण्णना निट्ठिता.