१०. सळवग्गो

१. अदन्तअगुत्तसुत्तवण्णना

९४. अदमिताति दमं निब्बिसेवनभावं अनीता. अगोपिताति सतिसङ्खाताय वतिया न रक्खिता. अपिहिताति सतिकवाटेन न पिहिता. चतूहिपि पदेहि इन्द्रियानं अनावरणमेवाह. अधिकं वहन्तीति अधिवाहा, दुक्खस्स अधिवाहा दुक्खाधिवाहा. निरयेसु उप्पज्जनकं नेरयिकं. आदि-सद्देन सेसपाळिं सङ्गण्हाति.

सळेवाति छ-कारस्स स-कारो, ळ-कारो पदसन्धिकरो. यत्थाति निमित्तत्थे भुम्मं. अनवस्सुता अतिन्ताति रागेन अतेमिता.

अस्सादितन्ति अस्सादं इतं उपगतं. तेनाह ‘‘अस्सादवन्त’’न्ति. सुखदुक्खन्ति इट्ठानिट्ठं. अन्वयतीति अन्वयो, हेतु. फस्सोति अन्वयो एतस्साति फस्सन्वयन्ति आह – ‘‘फस्सहेतुक’’न्ति. ‘‘अविरुद्ध’’इति विभत्तिलोपेन निद्देसो.

पपञ्चसञ्ञाति तण्हादिसमधूपसंहतसञ्ञा. तेनाह ‘‘किलेससञ्ञाय पपञ्चसञ्ञा नाम हुत्वा’’ति. पपञ्चसञ्ञा एतेसं अत्थीति पपञ्चसञ्ञा, इतरीतरा नरा. पपञ्चयन्ताति संसारे पपञ्चं चिरायनं करोन्ता. सञ्ञिनोति गेहस्सितसञ्ञाय सञ्ञावन्तो. मनोमयं वितक्कन्ति केवलं मनसा सम्भावितं मिच्छावितक्कं. इरीयतीति इरियं पटिपत्तिं इरीयति पटिपज्जति.

सुट्ठु भावितोति सुट्ठुभावं सुभावनं इतो भावितभावितो. फुट्ठस्स चित्तन्ति तेन यथावुत्तफस्सेन फुट्ठं अस्स चित्तं. न विकम्पते क्वचीति किस्मिञ्चि इट्ठानिट्ठारम्मणे न कम्पति. पारगाति पारगामिनो भवथ.

अदन्तअगुत्तसुत्तवण्णना निट्ठिता.

२. मालुक्यपुत्तसुत्तवण्णना

९५. अपसादेतीति तज्जेति. उस्सादेतीति उक्कंसेति. अयं किर थेरो मालुक्यपुत्तो. पमज्जित्वाति योनिसोमनसिकारस्स अननुयुज्जनेन पमज्जित्वा.

यत्राति पच्चत्तं वचनालङ्कारे. नामाति असम्भावने अपसादनपक्खे, उस्सादनपक्खे पन सम्भावने. किं जातन्ति किं तेन महल्लकभावेन जातन्ति महल्लकभावं तिणायपि अमञ्ञमानो वदति. तेनाह ‘‘यदि…पे… अनुग्गण्हन्तो’’ति. अनुग्गण्हन्तोति अचिन्तेन्तो. मादिसानं भगवतो ओवादो उपकारावहोति एतरहि ओवादञ्च पसंसन्तो.

‘‘अदिट्ठा अदिट्ठपुब्बा’’तिआदिना परिकप्पवसेन वुत्तनिदस्सनं ‘‘यथा एतेसु छन्दादयो न होन्ति, एवमितरेसुपि परिञ्ञातेसू’’ति नयपटिपज्जनत्थं, तेसम्पि इमेहि समानेतब्बत्ता. तेन वुत्तं ‘‘सुपिनकूपमा कामा’’ति (म. नि. १.२३४; २.४६; पाचि. ४१७; चूळव. ६५).

चक्खुविञ्ञाणेन दिट्ठे दिट्ठमत्तन्ति चक्खुविञ्ञाणस्स रूपायतनं यत्तको गहणाकारो, तत्तकं. कित्तकं पमाणन्ति अत्तसंवेदियं परस्स न दिसितब्बं, कप्पनामत्तं रूपं. तेनाह ‘‘चक्खुविञ्ञाणं ही’’तिआदि. रूपेति रूपायतने. रूपमत्तमेवाति नीलादिभेदं रूपायतनमत्तं, न नीलादि. विसेसनिवत्तनत्थो हि अयं मत्त-सद्दो. यदि एवं, एव-कारो किमत्थियो? चक्खुविञ्ञाणञ्हि रूपायतने लब्भमानम्पि नीलादिविसेसं ‘‘इदं नीलं नाम, इदं पीतं नामा’’ति न गण्हाति. कुतो निच्चानिच्चादिसभावत्थन्ति संहितस्सपि निवत्तनत्थं एवकारग्गहणं. तेनाह ‘‘न निच्चादिसभाव’’न्ति. सेसविञ्ञाणेहिपीति जवनविञ्ञाणेहिपि.

दिट्ठं नाम चक्खुविञ्ञाणं रूपायतनस्स दस्सनन्ति कत्वा. तेनाह ‘‘रूपे रूपविजानन’’न्ति. चक्खुविञ्ञाणमत्तमेवाति यत्तकं चक्खुविञ्ञाणं रूपायतने गहणमत्तं, तंमत्तमेव मे सब्बं चित्तं भविस्सतीति अत्थो. ‘‘रागादिरहेना’’ति वा पाठो. दिट्ठं नाम पदत्थतो चक्खुविञ्ञाणेन दिट्ठं रूपं. तत्थेवाति चक्खुविञ्ञाणेन दिट्ठमत्ते रूपे. चित्तत्तयं दिट्ठमत्तं नाम चक्खुविञ्ञाणं विय रागादिविरहेन पवत्तनतो. तेनाह ‘‘यथा त’’न्ति आदि.

मनोद्वारावज्जनेन विञ्ञातारम्मणं विञ्ञातन्ति अधिप्पेतं रागादिविरहेन विञ्ञेय्यतो. तेनाह ‘‘यथा आवज्जनेना’’तिआदि.

तदाति तस्मिं काले, न ततो पट्ठायाति अयमेत्थ अत्थोति दस्सेति. ‘‘दिट्ठमत्त’’न्तिआदिना येसं रागादीनं निवत्तनं अधिप्पेतं, ते ‘‘तेना’’ति एत्थ त-सद्देन पच्चामसीयन्तीति ‘‘तेन रागेन वा रत्तो’’तिआदि वुत्तं. तत्थाति विसये भुम्मं, विसयभावो च विसयिना सम्बन्धवसेन इच्छितब्बोति वुत्तं ‘‘पटिबद्धो’’तिआदि.

सतीति रूपस्स यथासभावसल्लक्खणा सति मुट्ठा पियनिमित्तमनसिकारेन अनुप्पज्जनतो न दिस्सति नप्पवत्तति. अज्झोसाति अज्झोसाय. गिलित्वा परिनिट्ठपेत्वा अत्तनियकरणेन.

अभिज्झा च विहेसा चाति करणत्थे पच्चत्तवचनन्ति आह – ‘‘अभिज्झाय च विहेसाय चा’’ति. अत्थवसेन विभत्तिपरिणामोति आह – ‘‘अभिज्झाविहेसाही’’ति. आचिनन्तस्साति वड्ढेन्तस्स. पटिस्सतोति पतिस्सतो सब्बत्थ सतिया युत्तो. सेवतो चापीति एत्थ च-सद्दो अपि-सद्दो च निपातमत्तन्ति ‘‘सेवन्तस्स’’इच्चेव अत्थो वुत्तो.

मालुक्यपुत्तसुत्तवण्णना निट्ठिता.

३. परिहानसुत्तवण्णना

९६. परिहानसभावन्ति अनवज्जधम्मेहि परिहायनसभावं. अभिभवितानीति अभिभूतानि निब्बिसेवनभावाकारेन. सरसङ्कप्पाति तस्मिं तस्मिं विसये अनवट्ठितभावेन सङ्कप्पा. संयोजनियाति संयोजेतब्बा. संयोजनानञ्हि पुनप्पुनं उप्पत्तिया ओकासं देन्तो किलेसजातं अधिवासेति नाम. किलेसो एव किलेसजातं. आरम्मणं पन चित्ते करोन्तो अधिवासेति नाम. छन्दरागप्पहानेन न पजहति आरम्मणं, किलेसं पन अनुप्पत्तिधम्मतापादनेन एव. अभिभवितं आयतनन्ति कथितं अधिवासनादिना. ‘‘कथञ्च, भिक्खवे, परिहानधम्मो होती’’ति धम्मं पुच्छित्वा तं विभजन्तेन भगवता ‘‘तञ्चे भिक्खु अधिवासेती’’तिआदिना पुग्गलेन पुग्गलाधिट्ठानेन धम्मो दस्सितो.

परिहानसुत्तवण्णना निट्ठिता.

४. पमादविहारीसुत्तवण्णना

९७. न पिदहित्वा चक्खुन्द्रियं न पिदहित्वा सञ्छादित्वा ठितस्स. ब्यासिञ्चतीति किलेसेहि विसेसेन आसिञ्चति. किलेसतिन्तन्ति किलेसेहि अवस्सुतं. दुब्बलपीति तरुणा न बलप्पत्ता. बलवपीति उब्बेगा फरणप्पत्ता च पीति. दरथप्पस्सद्धीति कायचित्तदरथवूपसमलक्खणा पस्सद्धि. न उप्पज्जन्ति पच्चयपरम्पराय असिद्धत्ता. ‘‘कथञ्च, भिक्खवे, पमादविहारी होती’’तिआदिना पुग्गलं पुच्छित्वा ‘‘पामोज्जं न होति, पामोज्जं जायती’’तिआदिना च, धम्मेन ‘‘पमादविहारी अप्पमादविहारी’’ति च पुग्गलो दस्सितो.

पमादविहारीसुत्तवण्णना निट्ठिता.

५. संवरसुत्तवण्णना

९८. इदन्ति ‘‘कथञ्च, भिक्खवे, असंवरो’’ति? इदं वचनं. पहातब्बधम्मक्खानवसेनाति पहातब्बधम्मस्सेव कथनं वुत्तं. ‘‘कथञ्च, भिक्खवे, असंवरो होती’’ति धम्मं पुच्छित्वा ‘‘सन्ति, भिक्खवे, चक्खुविञ्ञेय्या रूपा’’तिआदिना धम्मोव विभत्तो.

संवरसुत्तवण्णना निट्ठिता.

६. समाधिसुत्तवण्णना

९९. चित्तेकग्गतायाति समथवसेन चित्तेकग्गताय. परिहायमानेति तस्स अलाभेन परिहायमाने. कम्मट्ठानन्ति विपस्सनाकम्मट्ठानं, समथमेव वा.

७. पटिसल्लानसुत्तवण्णना

१००. कम्मट्ठानन्ति समथविपस्सनाकम्मट्ठानं.

८-९. पठमनतुम्हाकंसुत्तादिवण्णना

१०१-१०२. उपमं परिवारेत्वाति उपमं परिहरित्वा. सुद्धिकवसेनाति उपमाय विना केवलमेव.

१०. उदकसुत्तवण्णना

१०३. उदकोति तस्स नामं. वेदं ञाणं. सब्बं जितवाति सब्बजि. अवखतन्ति निखतं. उच्छादनधम्मोति उच्छादेतब्बसभावो. परिमद्दनधम्मोति परिमद्दितब्बसभावो. परिहतोति परिहरितो. ओदनकुम्मासूपचयुच्छादनपरिमद्दनपदेहीति वत्तब्बं. उच्छादनं वा परिमद्दनमत्तमेवाति कत्वा न गहितं.

उदकसुत्तवण्णना निट्ठिता.

सळवग्गवण्णना निट्ठिता.

दुतियो पण्णासको.