७. दुक्खधम्मसुत्तवण्णना
२४४. दुक्खधम्मानन्ति दुक्खकारणानं. तेनाह ‘‘दुक्खसम्भवधम्मान’’न्तिआदि. तत्थ किं दुक्खं, का दुक्खधम्माति तदुभयं दस्सेतुं ‘‘पञ्चसु ही’’ति वुत्तं. तेति पञ्चक्खन्धा. दुक्खसम्भवधम्मत्ताति दुक्खुप्पत्तिकारणत्ता. अस्साति तेन. करणे हेतं सामिवचनं. कामेति वत्थुकामे किलेसकामे च. पुन अस्साति सामिअत्थे एव सामिवचनं. चारन्ति चित्ताचारं. विहारन्ति पञ्चद्वारप्पवत्तिचारविहारं. ‘‘एकट्ठा’’ति च वदन्ति. तेनेव हि ‘‘अनुबन्धित्वा चरन्तं’’इच्चेव वुत्तं. अनुबन्धित्वाति च वीथिचित्तप्पवत्तितो पट्ठाय याव ततियजवनवारा अनु अनु बन्धित्वा. पक्खन्दनादीति आदि-सद्देन कसिगोरक्खादिवसेनपि कामानं परियेसनदुक्खं सङ्गण्हाति.
दायतीति दायो, वनं. तेनाह ‘‘अटवि’’न्ति. कण्टकगब्भन्ति ओवरकसदिसं वनं. नामपदं नाम किरियापदापेक्खन्ति ‘‘विज्झी’’ति वचनसेसेन किरियापदं गण्हाति.
दन्धायितत्तं उप्पन्नकिलेसानं अवट्ठानं. तेनाह ‘‘उप्पन्नमत्ताया’’तिआदि. तायाति सतिया. काचि किलेसाति चुद्दसविधे चित्तस्स किच्चे जवनकिच्चे एव चित्तकिलेसानं उप्पत्तिं कत्वा तथा वुत्तं. निग्गहिताव होन्ति पवत्तितुं अप्पदानवसेन. तेनाह ‘‘न सण्ठातुं सक्कोन्ती’’ति. चक्खुद्वारस्मिन्ति पाळियं तस्स पठमं गहितताय वुत्तं, तेन नयेन सेसद्वारानिपि गहितानेव होन्ति. रागादीसु उप्पन्नेसु पठमजवनवारे. सतिसम्मोसेन ‘‘किलेसा मे उप्पन्ना’’ति ञत्वा तथा पच्चामाससतिया लब्भनतो. तेनाह – ‘‘अनच्छरियं चेत’’न्ति. आवट्टेत्वाति अयोनिसो आवट्टेत्वा. आवज्जनादीसूति ततो एव अयोनिसो आवज्जनादीसु उप्पन्नेसु इट्ठारम्मणस्स लद्धत्ता पच्चयसिद्धिया सम्पत्तं पवत्तनारहं. निवत्तेत्वाति दुतियजवनवारेपि किलेसुप्पत्तिं निवत्तेत्वा. कथं पनस्स एवं लद्धुं सक्काति आह ‘‘आरद्धविपस्सकानं ही’’तिआदि. भावनापटिसङ्खानेति भावनायं पटिसङ्खाने च योगिनो पतिट्ठितभावो. तस्स अयमानिसंसो – यं पच्चयलाभेन उप्पज्जितुं लद्धोकासापि किलेसा पुब्बे पवत्तभावनानुभावेन विक्खम्भिता तथा तथा निग्गहिता एव हुत्वा निवत्तन्ति, कुसला धम्माव लद्धोकासा उपरूपरि वड्ढन्ति.
अभिहट्ठुन्ति अभिहरित्वा. अनुदहन्तीति अनुदहन्ता विय होन्ति. अनुसेन्तीति एत्थापि एसेव नयो. अनावट्टन्तेति अनिवत्तन्ते सामञ्ञतोति अधिप्पायो. विपस्सनाबलमेव दीपितं मग्गफलाधिगमस्स अजोतितत्ता.
दुक्खधम्मसुत्तवण्णना निट्ठिता.