८. किंसुकोपमसुत्तवण्णना

२४५. चतुन्नं अरियसच्चानं परिञ्ञाभिसमयादिवसेन विविधदस्सनन्ति किच्चवसेन नानादस्सनं होतीति वुत्तं, ‘‘दस्सनन्ति पठममग्गस्सेतं अधिवचन’’न्ति. तयिदं उपरिमग्गेसु भावनापरियायस्स निरुळ्हत्ता पठममग्गस्स पठमं निब्बानदस्सनतो. तेनाह ‘‘पठममग्गो ही’’तिआदि. कोचि यथावुत्तं अविपरीतं अत्थं अजानन्तो ञाणदस्सनं नाम आरम्मणकरणस्स वसेन अतिप्पसङ्गं आसङ्केय्याति तं निवत्तेतुं ‘‘गोत्रभू पना’’तिआदि वुत्तं. न दस्सनन्ति वुच्चतीति एत्थ राजदस्सनं उदाहरन्ति. चत्तारोपि मग्गा दस्सनमेव यथावुत्तेनत्थेन, भावनापरियायो पन उपरि तिण्णं मग्गानं पठममग्गउपायस्स भावनाकारेन पवत्तनतो. दस्सनं विसुद्धि एत्थाति दस्सनविसुद्धिकं, निब्बानं. फस्सायतनं कम्मट्ठानं अस्स अत्थीति फस्सायतनकम्मट्ठानिको. एस नयो सेसेसुपि पदेसु.

पदेससङ्खारेसूति सङ्खारेकदेसेसु. हेट्ठिमपरिच्छेदेन पथविआदिके धम्ममत्ते दिट्ठे रूपपरिग्गहो, चक्खुविञ्ञाणादिके तंसहगतधम्ममत्ते दिट्ठे अरूपपरिग्गहो च सिज्झतीति वदन्ति.

अधिगतमग्गमेव कथेसीति येन मुखेन विपस्सनाभिनिवेसं अकासि, तमेवस्स मुखं कथेसि. अयं पनाति कम्मट्ठानं पुच्छन्तो भिक्खु. इमेसन्ति फस्सायतनकम्मट्ठानिकपञ्चक्खन्धकम्मट्ठानिकानं वचनं. ‘‘अञ्ञमञ्ञं न समेती’’ति वत्वा तमेवत्थं पाकटं करोति ‘‘पठमेना’’तिआदिना. पञ्चक्खन्धविमुत्तस्स सङ्खारस्स अभावा ‘‘निप्पदेसेसू’’ति वुत्तं. तथेवाति यथेव फस्सायतनकम्मट्ठानिकं, तथेव तं पञ्चक्खन्धकम्मट्ठानिकं पुच्छित्वा.

समप्पवत्ता धातुयोति रसादयो सरीरधातुयो समप्पवत्ता, न विसमाकारसण्ठिता अहेसुं. तेनाह ‘‘कल्लसरीरं बलप्पत्त’’न्ति. ‘‘अतीता सङ्खारा’’तिआदि विपस्सनाभिनिवेसवसेन वुत्तं. सम्मसनं सब्बत्थकमेव इच्छितब्बं. चारिभूमिन्ति गोचरट्ठानं.

कारकभावन्ति भावनानुयुञ्जनभावं. पण्डुरोगपुरिसोति पण्डुरोगी पुरिसो. अरिट्ठन्ति सुत्तं. भेसज्जं कत्वाति भेसज्जपयोगं कत्वा. करिस्सामीति भेसज्जं करिस्सामि. झामथुणो वियाति दड्ढथुणो विय खारकजालनद्धत्ता तरुणमकुलसन्तानसञ्छन्नत्ता.

दक्खिणद्वारगामेति दक्खिणद्वारसमीपे गामे. लोहितकोति लोहितवण्णो. ओचिरकजातोति जातओलम्बमानचिरको विय. आदिन्नसिपाटिकोति गहितफलपोतको. सन्दच्छायोति बहलच्छायो. यस्मा तस्स रुक्खस्स साखा अविरळा घनप्पत्ता अञ्ञमञ्ञं संसन्दित्वा ठिता, तस्मा छायापिस्स तादिसीति वुत्तं ‘‘सन्दच्छायो नाम संसन्दित्वा ठितच्छायो’’ति, घनच्छायोति अत्थो. तत्थातिआदि उपमासंसन्दनं.

येन येनाकारेन अधिमुत्तानन्ति छफस्सायतनादिमुखेन येन येन विपस्सनाभिनिवेसेन विपस्सन्तानं निब्बानञ्च अधिमुत्तानं. सुट्ठु विसुद्धं परिञ्ञातिसमयादिसिद्धिया. तेन तेनेवाकारेनाति अत्तनाधिमुत्ताकारेन. इदानि तं तं आकारं उपमाय सद्धिं योजेत्वा दस्सेतुं ‘‘यथा ही’’तिआदि आरद्धं. तं सुविञ्ञेय्यमेव.

इदन्ति नगरोपमं. तं सल्लक्खितन्ति किंसुकोपमदीपितं अत्थजातं सचे सल्लक्खितं. अस्स भिक्खुनो. धम्मदेसनत्थन्ति यथासल्लक्खितस्स अत्थस्स वसेन लद्धविसेसस्स उपब्रूहनाय. तस्सेवत्थस्साति तस्स दस्सनविसुद्धिसङ्खातस्स अत्थस्स. चोरासङ्का न होन्ति मज्झिमदेसरज्जस्स पसन्नभावतो. तिपुरिसुब्बेधानीति उब्बेधेन तिपुरिसप्पमाणानि नानाभित्तिविचित्तानि थम्भानं उपरि विविधमालाकम्मादिविचित्तधनुराकारलक्खितानि मनोरमानि. तेनाह ‘‘नगरस्स अलङ्कारत्थ’’न्ति. नगरद्वारस्स थिरभावापादनवसेन ठपेतब्बत्ता वुत्तं ‘‘चोरनिवारणत्थानिपि होन्तियेवा’’ति. पिट्ठसङ्घातस्साति द्वारबाहस्स. ‘‘इमे आवासिका, इमे आगन्तुका, तत्थापि च इमेहि नगरस्स नगरसामिकस्स च अत्थो. इमेसं वसेन अनत्थो सिया’’ति जाननञाणसङ्खातेन पण्डिच्चेन समन्नागतो. अञ्ञातनिवारणे पटुभावसङ्खातेन वेय्यत्तियेन समन्नागतो. ठानुप्पत्तिकपञ्ञासङ्खातायाति तस्मिं तस्मिं अत्थकिच्चे तङ्खणुप्पज्जनकपटिभानसङ्खाताय.

रञ्ञा आयुत्तो नियोजितो राजायुत्तो, तत्थ तत्थ रञ्ञो कातब्बकिच्चे ठपितपुरिसो. कतिपाहेयेवाति कतिपयदिवसेयेव अकिच्चकरणेन तस्स ठानं विब्भमो जातोति कत्वा वुत्तं – ‘‘सब्बानि विनिच्छयट्ठानादीनि हारेत्वा’’ति.

सीसमस्स छिन्दाहीति सीसभूतं उत्तमङ्गट्ठानियं तत्थ तस्स राजकिच्चं छिन्दाति अत्थो. अञ्ञथा तस्स पाकतिके अत्थे गय्हमाने पाणातिपातो आणत्तो नाम सिया. न हि चक्कवत्तिराजा तादिसं आणापेति, अञ्ञेसम्पि ततो निवारकत्ता. अथ वा छिन्दाहीति मम आणाय अस्स सीसं छिन्दन्तो विय अत्तानं दस्सेहि, एवं सो तत्थोवादपटिकरत्तपत्तो ओदमेय्याति, तथा चेव उपरि पटिपत्ति आगता. तत्थाति एतस्मिं पच्चन्तिमनगरे.

उप्पन्नेनाति समथकम्मट्ठाने उप्पन्नेन.

तस्सेवाति सक्कायसङ्खातस्स नगरस्स ‘‘द्वारानी’’ति वुत्तानीति आनेत्वा सम्बन्धो. ‘‘सीघं दूतयुग’’न्ति वुत्ताति योजना. हदयवत्थुरूपस्स मज्झे सिङ्घाटकभावेन गहितत्ता ‘‘हदयवत्थुस्स निस्सयभूतानं महाभूतान’’न्ति वुत्तं. यदि एवं वत्थुरूपमेव गहेतब्बं, तदेवेत्थ अग्गहेत्वा कस्मा महाभूतग्गहणन्ति आह ‘‘वत्थुरूपस्स ही’’तिआदि. यादिसोति सम्मादिट्ठिआदीनं वसेन यादिसो एव पुब्बे आगतविपस्सनामग्गो. ‘‘अयम्पि अट्ठङ्गसमन्नागतत्ता तादिसो एवा’’ति वत्वा अरियमग्गो ‘‘यथागतमग्गो’’ति वुत्तो. इदं तावेत्थाति एत्थ एतस्मिं सुत्ते धम्मदेसनत्थं आभताय यथावुत्तउपमाय इदं संसन्दनं.

इदं संसन्दनन्ति इदानि वक्खमानं उपमाय संसन्दनं. नगरसामिउपमा पञ्चक्खन्धवसेन दस्सनविसुद्धिपत्तं खीणासवं दस्सेतुं आभता. सिङ्घाटकूपमा चतुमहाभूतवसेन दस्सनविसुद्धिपत्तं खीणासवं दस्सेतुं आभताति योजना. ‘‘चतुसच्चमेव कथित’’न्ति वत्वा तानि सच्चानि निद्धारेत्वा दस्सेतुं ‘‘सकलेनपि ही’’तिआदि वुत्तं. इध नगरसम्भारो छद्वारादयो. तेन हि छफस्सायतनादयो उपमिता. ते पन दुक्खसच्चपरियापन्नाति वुत्तं ‘‘नगरसम्भारेन दुक्खसच्चमेव कथित’’न्ति.

किंसुकोपमसुत्तवण्णना निट्ठिता.