६. अवस्सुतपरियायसुत्तवण्णना

२४३. सन्थागारन्ति सञ्ञापनागारं. तेनाह ‘‘उय्योगकालादीसू’’तिआदि. आदि-सद्देन मङ्गलमहादीनं सङ्गहो दट्ठब्बो. सन्थरन्तीति विस्समन्ति, परिस्समं विनोदेन्तीति अत्थो. सहाति सन्निपातवसेन एकज्झं. सह अत्थानुसासनं अगारन्ति तस्मिं अत्थे त्थ-कारस्स न्थ-कारं कत्वा ‘‘सन्थागार’’न्ति वुच्चतीति दट्ठब्बं, पठमं तत्थ सम्मन्तनवसेन सन्थरन्ति विचारेन्तीति अत्थो.

तेपिटकं बुद्धवचनं आगतमेव भविस्सतीति बुद्धवचनस्स आगमनसीसेन अरियफलधम्मानम्पि आगमनं वुत्तमेव. तियामरत्तिं तत्थ वसन्तानं फलसमापत्तिवळञ्जनं होतीति. तस्मिञ्च भिक्खुसङ्घे कल्याणधम्मा कल्याणपुथुज्जना विपस्सनं उस्सुक्कापेन्ता होन्तीति अरियमग्गधम्मानम्पि तत्थ आगमनं होतियेव.

अल्लगोमयेनाति अच्छेन अल्लगोमयरसेन. ओपुञ्जापेत्वाति विलिम्पेत्वा. चतुज्जातियगन्धेहीति कुङ्कुमतुरुक्खयवनपुप्फतमालपत्तगन्धेहि. नानावण्णेति नीलादिवसेन नानावण्णे, भित्तिविसेसवसेन नानासण्ठानरूपे. ‘‘महापिट्ठिककोजवेति हत्थिपिट्ठिआदीसु अत्थरितब्बताय ‘महापिट्ठिका’ति लद्धसमञ्ञे कोजवे’’ति वदन्ति. कुत्तके पन सन्धायेतं वुत्तं, ‘‘चतुरङ्गुलाधिकपुप्फा महापिट्ठिककोजवा’’तिपि वदन्ति. हत्थत्थरअस्सत्थरा हत्थिअस्सपिट्ठीसु अत्थरितब्बा हत्थिअस्सरूपविचित्ता च अत्थरका. सीहत्थरकादयो पन सीहरूपादिविचित्ता एव अत्थरका. चित्तत्थरकं नानाविधरूपेहि चेव नानाविधमालाकम्मादीहि च विचित्तं अत्थरकं.

उपधानन्ति अपस्सयनं. उपदहित्वाति अपस्सययोग्गभावेन ठपेत्वा. गन्धेहि कतमाला गन्धदामं. तमालपत्तादीहि कतमाला पत्तदामं. आदि-सद्देन हिङ्गुलतक्कोलजातिफलजातिपुप्फादीहि कतदामं सङ्गण्हाति. पल्लङ्काकारेन कतपीठं पल्लङ्कपीठं. तीसु पस्सेसु एकपस्से एव वा सउपस्सयं अपस्सयपीठं. अनपस्सयं मुण्डपीठं. योजनावट्टेति योजनपरिक्खेपोकासे.

संविधायाति अन्तरवासकस्स कोणपदेसं इतरपदेसञ्च समं कत्वा विधाय. तेनाह – ‘‘कत्तरिया पदुमं कन्तेन्तो विया’’ति, ‘‘तिमण्डलं पटिच्छादेन्तो’’ति च. यस्मा बुद्धानं रूपसम्पदा विय आकप्पसम्पदापि परमुक्कंसतं गता, तस्मा तदा भगवा एवं सोभेय्याति दस्सेन्तो ‘‘सुवण्णपामङ्गेना’’तिआदिमाह. तत्थ ‘‘असमेन बुद्धवेसेना’’तिआदिना तदा भगवा बुद्धानुभावस्स निगुहने कारणाभावतो तत्थ सन्निपतितदेवमनुस्सनागयक्खगन्धब्बादीनं पसादजननत्थं अत्तनो सभावपकतियाव कपिलवत्थुं पाविसीति दस्सेति. बुद्धानं कायपभा नाम पकतिया असीतिहत्थमत्तपदेसं विसरतीति आह ‘‘असीतिहत्थट्ठानं अग्गहेसी’’ति. नीलपीतलोहितोदातमञ्जिट्ठपभस्सरानं वसेन छब्बण्णा बुद्धरस्मियो.

सब्बपालिफुल्लोति मूलतो पट्ठाय याव साखग्गा समन्ततो फुल्लो विकसितो. पटिपाटिया ठपितानन्तिआदि परिकप्पूपमा, यथा तं…पे… अलङ्कतं अञ्ञं विरोचति, एवं विरोचित्थ, समतिंसाय पारमिताहि अभिसङ्खतत्ता एवं विरोचित्थाति वुत्तं होति. ‘‘पञ्चवीसतिया गङ्गानन्ति सतमुखा हुत्वा समुद्दं पविट्ठाय महागङ्गाय महन्तमहन्तानं गङ्गानं पञ्चवीसती’’ति वदन्ति. पपञ्चसूदनियं (म. नि. अट्ठ. २.२२) ‘‘पञ्चवीसतिया नदीन’’न्ति वुत्तं, गङ्गादीनं चन्दभागापरियोसानानं पञ्चवीसतिया महानदीनन्ति अत्थो. परिकप्पवचनञ्हेतं. सम्भिज्जाति सम्भेदं मिस्सीभावं पत्वा मुखद्वारेति समुद्दं पविट्ठट्ठाने.

नागसुपण्णगन्धब्बयक्खादीनन्तिआदि परिकप्पवसेन वुत्तं. सहस्सेनाति पदसहस्सेन, भाणवारप्पमाणेन गन्थेनाति अत्थो.

कम्पयन्तो वसुन्धरन्ति अत्तनो गुणविसेसेहि पथवीकम्मं उन्नादेन्तो, एवंभूतोपि अहेठयन्तो पाणानि. सब्बपदक्खिणत्ता बुद्धानं दक्खिणं पठमं पादं उद्धरन्तो. समं सम्फुसते भूमिं सुप्पतिट्ठितपादताय. यदिपि भूमिं समं फुसति, रजसा नुपलिप्पति सुखुमत्ता छविया. निन्नट्ठानं उन्नमतीतिआदि बुद्धानं सुप्पतिट्ठितपादतासङ्खातमहापुरिसलक्खणपटिलाभस्स निस्सन्दफलं. नातिदूरे उद्धरतीति अतिदूरे ठपेतुं न उद्धरति. नच्चासन्ने च निक्खिपन्ति अच्चासन्ने च ठाने अनिक्खिपन्तो निय्याति. हासयन्तो सदेवके लोके तोसेन्तो. चतूहि पादेहि चरतीति चतुचारी.

बुद्धानुभावस्स पकासनवसेन गतत्ता वण्णकालो नाम एस. सरीरवण्णे वा गुणवण्णे वा कथियमाने दुक्कथितन्ति न वत्तब्बं. कस्मा? अप्पमाणवण्णा हि बुद्धा भगवन्तो, बुद्धगुणसंवण्णना जानन्तस्स यथारद्धसंवण्णनंयेव अनुपविसति. दुकूलचुम्बटकेनाति गन्थित्वा गहितदुकूलवत्थेन.

नागविक्कन्तचारणोति हत्थिनागसदिसपदनिक्खेपो. सतपुञ्ञलक्खणोति अनेकसतपुञ्ञाभिनिब्बत्तमहापुरिसलक्खणो. मणिवेरोचनो यथाति चतुरासीतिसहस्समणिपरिवारितो अतिविय विरोचमानो विज्जोतमानो मणि विय. ‘‘वेरोचनो नाम एको मणी’’ति केचि. महासालोवाति महन्तो सालरुक्खो विय, सुद्धट्ठितो कोविळारादि महारुक्खो विय वा. पदुमो कोकनदो यथाति कोकनदसङ्खातं महापदुमं विय, विकसमानपदुमं विय वा.

आकासगङ्गं ओतारेन्तो वियातिआदि तस्सा पकिण्णककथाय अञ्ञेसं सुदुक्करभावदस्सनञ्चेव सुणन्तानं अच्चन्तसुखावहभावदस्सनञ्च. पथवोजं आकड्ढन्तो वियाति नाळियन्तं योजेत्वा महापथविया हेट्ठिमतले पप्पटकोजं उद्धं मुखं कत्वा आकड्ढन्तो विय. योजनिकन्ति योजनपमाणं. मधुभण्डन्ति मधुपटलं.

महन्तन्ति विपुलं उळारपुञ्ञं. सब्बदानं दिन्नमेव होतीति सब्बमेव पच्चयजातं आवासदायकेन दिन्नमेव होति. तथा हि द्वे तयो गामे पिण्डाय चरित्वा किञ्चि अलद्धा आगतस्सपि छायूदकसम्पन्नं आरामं पविसित्वा न्हायित्वा पटिस्सये मुहुत्तं निपज्जित्वा उट्ठाय निसिन्नस्स काये बलं आहरित्वा पक्खित्तं विय होति. बहि विचरन्तस्स च काये वण्णधातु वातातपेहि किलमति, पटिस्सयं पविसित्वा द्वारं पिधाय मुहुत्तं निसिन्नस्स विसभागसन्तति वूपसम्मति, सभागसन्तति पतिट्ठाति, वण्णधातु आहरित्वा पक्खित्ता विय होति, बहि विचरन्तस्स च पादे कण्टका विज्झन्ति, खाणु पहरति, सरीसपादिपरिस्सया चेव चोरभयञ्च उप्पज्जति, पटिस्सयं पविसित्वा द्वारं पिधाय निसिन्नस्स पन सब्बेपेते परिस्सया न होन्ति. सज्झायन्तस्स धम्मपीतिसुखं, कम्मट्ठानं मनसिकरोन्तस्स उपसमसुखं उप्पज्जति बहिद्धा विक्खेपाभावतो. बहि विचरन्तस्स च काये सेदा मुच्चन्ति, अक्खीनि फन्दन्ति, सेनासनं पविसनक्खणे मञ्चपीठादीनि न पञ्ञायन्ति, मुहुत्तं निसिन्नस्स पन अक्खिपसादो आहरित्वा पक्खित्तो विय होति, द्वारवातपानमञ्चपीठादीनि पञ्ञायन्ति. एतस्मिञ्च आवासे वसन्तं दिस्वा मनुस्सा चतूहि पच्चयेहि सक्कच्चं उपट्ठहन्ति. तेन वुत्तं – ‘‘आवासदानस्मिञ्हि दिन्ने सब्बदानं दिन्नमेव होती’’ति. भूमट्ठक…पे… न सक्काति अयमत्थो महासुदस्सनवत्थुना (दी. नि. २.२४१ आदयो) दीपेतब्बो. मातुकुच्छि असम्बाधोव होतीति अयमत्थो अन्तिमभविकानं महाबोधिसत्तानं पटिसन्धिवसेन दीपेतब्बो.

सीतन्ति अज्झत्तं धातुक्खोभवसेन वा बहिद्धा उतुविपरिणामवसेन वा उप्पज्जनकसीतं. उण्हन्ति अग्गिसन्तापं, तस्स च दवदाहादीसु सम्भवो दट्ठब्बो. पटिहन्तीति पटिहनति. यथा तदुभयवसेन कायचित्तानं आबाधो न हनति, एवं करोति. सीतुण्हब्भाहते हि सरीरे विक्खित्तचित्तो भिक्खु योनिसो पदहितुं न सक्कोति. वाळमिगानीति सीहब्यग्घादिवाळमिगे. गुत्तसेनासनञ्हि पविसित्वा द्वारं पिधाय निसिन्नस्स ते परिस्सया न होन्ति. सरीसपेति ये केचि सरन्ता गच्छन्ते दीघजातिके सप्पादिके अञ्ञे च तथारूपे. मकसेति निदस्सनमत्तमेतं, डंसादीनं एतेनेव सङ्गहो दट्ठब्बो. सिसिरेति सीतकालवसेन सत्ताहवद्दलिकादिवसेन च उप्पन्ने सिसिरसम्फस्से. वुट्ठियोति यदा तदा उप्पन्ना वस्सवुट्ठियो पटिहनतीति योजना.

वातातपो घोरोति रुक्खगच्छादीनं उब्बहनभञ्जनादिवसेन पवत्तिया घोरो सरजअरजादिभेदो वातो चेव गिम्हपरिळाहसमयेसु उप्पत्तिया घोरो सूरियातपो च. पटिहञ्ञतीति पटिबाहीयति. लेणत्थन्ति नानारम्मणतो चित्तं निवत्तित्वा पटिसल्लाणारामत्थं. सुखत्थन्ति वुत्तपरिस्सयाभावेन फासुविहारत्थं. झायितुन्ति अट्ठतिंसाय आरम्मणेसु यत्थ कत्थचि चित्तं उपनिबन्धित्वा समादहनवसेन झायितुं. विपस्सितुन्ति अनिच्चादिवसेन सङ्खारे सम्मसितुं.

विहारेति पटिस्सये. कारयेति कारापेय्य. रम्मेति मनोरमे. वासयेत्थ बहुस्सुतेति कारेत्वा पन एत्थ विहारेसु बहुस्सुते सीलवन्ते कल्याणधम्मे निवासेय्य. ते निवासेन्तो पन तेसं बहुस्सुतानं यथा पच्चयेहि किलमथो न होति. एवं अन्नञ्च पानञ्च वत्थसेनासनानि च ददेय्य उजुभूतेसु अज्झासयसम्पन्नेसु कम्मफलानं रतनत्तयगुणानञ्च सद्दहनेन विप्पसन्नेन चेतसा. इदानि गहट्ठपब्बजितानं अञ्ञमञ्ञूपकारतं दस्सेतुं ‘‘ते तस्सा’’ति गाथमाह. तत्थ तेति बहुस्सुता. तस्साति उपासकस्स. धम्मं देसेन्तीति सकलवट्टदुक्खपनूदनं निय्यानिकं धम्मं कथेन्ति. यं सो धम्मं इधञ्ञायाति सो पुग्गलो यं सद्धम्मं इमस्मिं सासने सम्मापटिपज्जनेन जानित्वा अग्गमग्गाधिगमेन अनासवो हुत्वा परिनिब्बायति.

आवासेति आवासदाने. आनिसंसोति उद्रयो. पूजासक्कारवसेन पठमयामो खेपितो, सत्थु धम्मदेसनाय अप्पावसेसो मज्झिमयामो गतोति पाळियं ‘‘बहुदेव रत्ति’’न्ति वुत्तन्ति आह ‘‘अतिरेकतरं दियड्ढयाम’’न्ति. सङ्गहं नारोहति विपुलवित्थारभावतो. बुद्धानञ्हि भत्तानुमोदनापि थोकं वड्ढेत्वा वुच्चमाना दीघमज्झिमपमाणापि होति. तथा हि सुफुसितं दन्तावरणं, जिव्हा तनुका, भवङ्गपरिवासो परित्तो, नत्थि वेगायितं, नत्थि वित्थायितं, नत्थि अब्यावटमनो, सब्बञ्ञुतञ्ञाणं समुपब्यूळ्हं, अपरिक्खया पटिसम्भिदा.

सन्दस्सेत्वातिआदीसु सन्दस्सेत्वा आवासदानपटिसंयुत्तं धम्मिं कथं कत्वा. ततो परं, महाराज, इतिपि सीलं, इतिपि समाधि, इतिपि पञ्ञाति सीलादिगुणे तेसं सम्मा दस्सेत्वा हत्थेन गहेत्वा विय पच्चक्खतो पकासेत्वा. समादपेत्वाति एवं सीलं समादातब्बं, सीले पतिट्ठितेन एवं समाधिपञ्ञा भावेतब्बाति यथा ते सीलादिगुणे सम्मा आदियन्ति, तथा गण्हापेत्वा. समुत्तेजेत्वाति यथासमादिन्नं सीलं सुविसुद्धं होति, समथविपस्सना च भावियमाना यथा सुट्ठु विसोधिता उपरूपरि विसेसावहा होन्ति, एवं समुत्तेजेत्वा निसामनवसेन वोदापेत्वा. सम्पहंसेत्वाति यथानुसिट्ठं ठितसीलादिगुणेहि सम्पति पटिलद्धगुणानिसंसेहि चेव उपरिलद्धब्बफलविसेसेहि च चित्तं सम्पहंसेत्वा लद्धस्सासवसेन सुट्ठु तोसेत्वा. एवमेतेसं पदानं अत्थो वेदितब्बो. सक्यराजानो येभुय्येन भगवतो धम्मदेसनाय सासने लद्धस्सादा लद्धप्पतिट्ठा च.

उपसग्गसद्दानं अनेकत्थत्ता अभि-सद्दो अति-सद्देन समानत्थोपि होतीति वुत्तं ‘‘अभिक्कन्ताति अतिक्कन्ता’’ति.

तत्र किरातिआदि केचिवादोति बद्धोपि न होति. तेनाह ‘‘अकारणमेत’’न्तिआदि. कायचित्तलहुतादयो उप्पज्जन्तीति इदं कायिकचेतसिकअञ्ञथाभावस्स कारणवचनं, लहुतादिउप्पन्ने सवनानुत्तरियपटिलाभेन लद्धब्बधम्मत्थवेदसमधिगमतो. वुत्तञ्हेतं –

‘‘यथा, यथावुसो, भिक्खुनो सत्था वा धम्मं देसेति अञ्ञतरो वा गरुट्ठानिको सब्रह्मचारी, तथा तथा सो तस्मिं धम्मे लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्ज’’न्तिआदि (दी. नि. ३.३२२, ३५५; अ. नि. ५.२६).

पिट्ठिवातो उप्पज्जि उपादिन्नसरीरस्स तथारूपत्ता सङ्खारानञ्च अनिच्चताय दुक्खानुबन्धत्ता. अकारणं वा एतन्ति येनाधिप्पायेन वुत्तं, तमेव अधिप्पायं विवरितुं ‘‘पहोती’’तिआदि वुत्तं. एकपल्लङ्केन निसीदितुं पहोति यथा तं वेलुवगामके. एत्तके ठानेति एत्तके ठाने ठानं निप्फन्नन्ति योजना. तञ्च खोति वुट्ठानसञ्ञं चित्ते ठपनं. धम्मकथं सुणमानो धम्मगारवेन.

अवस्सुतस्साति अवस्सुतभावस्स रागादिवसेन. अवस्सुतस्स कारणन्ति तिन्तभावकारणं. किलेसाधिमुच्चनेनाति किलेसवसेन परिप्फन्दितवसेन. निब्बापनं वियाति वूपसमो विय. निब्बिसेवनानन्ति परिप्फन्दनरहितानं.

अवस्सुतपरियायसुत्तवण्णना निट्ठिता.