२-१०. उपादायसुत्तादिवण्णना
१०५-११३. वेदनासुखदुक्खन्ति वेदनासङ्खातं सुखञ्च दुक्खञ्च कथितं. ‘‘अज्झत्तं सुखं दुक्ख’’न्ति वुत्तत्ता विमुत्तिसुखस्स च सळायतनदुक्खस्स च कथितत्ता विवट्टसुखं चेत्थ कथितमेवाति सक्का विञ्ञातुं. कामं खन्धियवग्गे खन्धवसेन देसना आगता, न आयतनवसेन. एत्थ पन वत्तब्बं अत्थजातं खन्धियवग्गे वुत्तनयमेवाति.
उपादायसुत्तादिवण्णना निट्ठिता.
योगक्खेमिवग्गवण्णना निट्ठिता.