१२. लोककामगुणवग्गो
१-२. पठममारपाससुत्तादिवण्णना
११४-११५. आवसति एत्थ किलेसमारोति आवासो. कामगुणअज्झत्तिकबाहिरानि आयतनानि. किलेसमारस्स आवासं गतो वसं गतो. तिविधस्साति पपञ्चसञ्ञासङ्खातस्स तिविधस्सपि मारस्स. ततो एव देवपुत्तमारस्सपि वसं गतोति सक्का विञ्ञातुं.
पठममारपाससुत्तादिवण्णना निट्ठिता.
३. लोकन्तगमनसुत्तवण्णना
११६. लोकियन्ति एत्थ सत्तकायभूतगामादीति लोको, चक्कवाळो. सङ्खारो पन लुज्जनपलुज्जनट्ठेन लोको. अन्तन्ति ओसानं. सब्बञ्ञुतञ्ञाणेन संसन्दित्वाति सब्बञ्ञुतञ्ञाणगतिया समानेत्वा अविरोधेत्वा. थोमेस्सामीति पसंसिस्सामि.
एवंसम्पत्तिकन्ति एवंसम्पज्जनकं एवंपस्सितब्बं इदं मम अज्झेसनं. तेनाह ‘‘ईदिसन्ति अत्थो’’ति. जानं जानातीति सब्बञ्ञुतञ्ञाणेन जानितब्बं जानाति एव. न हि पदेसञ्ञाणे ठितो जानितब्बं सब्बं जानाति. उक्कट्ठनिद्देसेन हि अविसेसग्गहणेन च ‘‘जान’’न्ति इमिना निरवसेसं ञेय्यजातं परिग्गय्हतीति तब्बिसयाय जाननकिरियाय सब्बञ्ञुतञ्ञाणमेव करणं भवितुं युत्तं. पकरणवसेन ‘‘भगवा’’ति पदसन्निधानेन च अयमत्थो विभावेतब्बो. पस्सितब्बमेव पस्सतीति दिब्बचक्खु-पञ्ञाचक्खु-धम्मचक्खु-बुद्धचक्खु-समन्तचक्खु-सङ्खातेहि ञाणचक्खूहि पस्सितब्बं पस्सति एव. अथ वा जानं जानातीति यथा अञ्ञे सविपल्लासा कामरूपपरिञ्ञावादिनो जानन्तापि विपल्लासवसेन जानन्ति, न एवं भगवा. भगवा पन पहीनविपल्लासत्ता जानन्तो जानाति एव, दिट्ठिदस्सनस्स अभावा पस्सन्तो पस्सति एवाति अत्थो.
दस्सनपरिणायकट्ठेनाति यथा चक्खु सत्तानं दस्सनत्थं परिणेति साधेति, एवं लोकस्स याथावदस्सनसाधनतोपि दस्सनकिच्चपरिणायकट्ठेन चक्खुभूतो, पञ्ञाचक्खुमयत्ता वा सयम्भूञाणेन पञ्ञाचक्खुं भूतो पत्तोति वा चक्खुभूतो. ञाणभूतोति एतस्स च एवमेव अत्थो दट्ठब्बो. धम्मा वा बोधिपक्खिया, तेहि उप्पन्नत्ता लोकस्स च तदुप्पादनतो अनञ्ञसाधारणं वा धम्मं पत्तो अधिगतोति धम्मभूतो. ‘‘ब्रह्मा’’वुच्चति सेट्ठट्ठेन मग्गञाणं, तेन उप्पन्नत्ता लोकस्स च तदुप्पादनतो तञ्च सयम्भूञाणेन पत्तोति ब्रह्मभूतो. चतुसच्चधम्मं वदतीति वत्ता. चिरं सच्चपटिवेधं पवत्तेन्तो वदतीति पवत्ता. अत्थं नीहरित्वाति दुक्खादिअत्थं उद्धरित्वा. परमत्थं वा निब्बानं पापयिता. अमतसच्छिकिरियं सत्तेसु उप्पादेन्तो अमतं ददातीति अमतस्स दाता. बोधिपक्खियधम्मानं तदायत्तभावतो धम्मस्सामी. पुनप्पुनं याचापेन्तो भारियं करोन्तो गरुं करोति नाम, तथा दुविञ्ञेय्यं कत्वा कथेन्तोपि.
चक्खुना विज्जमानेन लोकसञ्ञी होति, न तस्मिं असति. न हि अज्झत्तिकायतनविरहेन लोकसमञ्ञा अत्थि. तेनाह ‘‘चक्खुञ्हि लोको’’तिआदि. अप्पहीनदिट्ठीति असमूहतसक्कायदिट्ठिको घनविनिब्भोगं कातुं असक्कोन्तो समुदायं विय अवयवं ‘‘लोको’’ति सञ्जानाति चेव मञ्ञति च. तथाति इमिना ‘‘लोकोति सञ्जानाति चेव मञ्ञति चा’’ति पदत्तयं आकड्ढति. तस्साति पुथुज्जनस्स, चक्कवाळलोकस्स वा. चक्खादिमेव हि सहोकासेन ‘‘चक्कवाळो’’ति पुथुज्जनो सञ्जानाति. गमनेनाति पदसा गमनेन. न सक्का तेसं अनन्तत्ता. लुज्जनट्ठेनाति अभिसङ्खारलोकवसेन लोकस्स अन्तं दस्सेतुं वुत्तं. तस्स अन्तो नाम निब्बानं. तं पत्तुं सक्का सम्मापटिपत्तिया पत्तब्बत्ता. चक्कवाळलोकस्स पन अन्तो नाम, नत्थि तस्स गमनेन अप्पत्तब्बत्ता.
इमेहि पदेहीति इमेहि वाक्यविभागेहि पदेहि. तानि पन अक्खरसमुदायलक्खणानीति आह ‘‘अक्खरसम्पिण्डनेही’’ति. पाटियेक्कअक्खरेहीति तस्मिं तस्मिं पदे पटिनियतसन्निवेसेहि विसुं विसुं चित्तेन गय्हमानेहि अक्खरेहीति अत्थो.
गमनट्ठेन ‘‘पण्डा’’ वुच्चति पञ्ञा, ताय इतो गतो पत्तोति पण्डितो, पञ्ञवा. महापञ्ञता नाम पटिसम्भिदावसेन वेदितब्बाति आह ‘‘महन्ते अत्थे’’तिआदि. यथा तन्ति एत्थ तन्ति निपातमत्तं पठमविकप्पे, दुतियविकप्पे पन पच्चामसनन्ति आह ‘‘तं ब्याकत’’न्ति.
लोकन्तगमनसुत्तवण्णना निट्ठिता.
४. कामगुणसुत्तवण्णना
११७. चेतसोति करणे सामिवचनं. चित्तेन संफुसनं नाम अनुभवोति आह ‘‘चित्तेन अनुभूतपुब्बा’’ति. उतुत्तयानुरूपतावसेन पासादत्तयं, तं वसेन तिविधनाटकभेदो. मनोरम्मतामत्तेन कामगुणं कत्वा दस्सितं, न कामवसेन. न हि अभिनिक्खमनतो उद्धं बोधिसत्तस्स कामवितक्का भूतपुब्बा. तेनाह मारो पापिमा –
‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदं;
ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति. (सु. नि. ४४८);
मेत्तेय्यो नामातिआदि अनागतारम्मणदस्सनमत्तं, न बोधिसत्तस्स एवं उप्पज्जतीति. अत्ता पियायितब्बरूपो एतस्साति अत्तरूपो, उत्तरपदे पुरिमपदलोपेनाति ‘‘अत्तनो हितकामजातिकेना’’ति अत्थो वुत्तो. अत्तरूपेनाति वा पीतिसोमनस्सेहि गहितसभावेन तुट्ठपहट्ठेन उदग्गुदग्गेन. अप्पमादोति अप्पमज्जनं कुसलधम्मेसु अखण्डकारिताति आह ‘‘सातच्चकिरिया’’ति. अवोस्सग्गोति चित्तस्स कामगुणेसु अवोस्सज्जनं पक्खन्दितुं अप्पदानं. पुरिमो विकप्पो कुसलानं धम्मानं करणवसेन दस्सितो, पच्छिमो अकुसलानं अकरणवसेन. द्वे धम्माति अप्पमादो सतीति द्वे धम्मा. अप्पमादो सति च तथा पवत्ता चत्तारो कुसलधम्मक्खन्धा वेदितब्बा. कत्तब्बाति पवत्तेतब्बा.
तस्मिं आयतनेति तस्मिं निब्बानसञ्ञिते कारणे पटिवेधे. तं कारणन्ति छन्नं आयतनानं कारणं. सळायतनं निरुज्झति एत्थाति सळायतननिरोधो वुच्चति निब्बानं. तेनाह ‘‘निब्बानं. तं सन्धाया’’तिआदि. निब्बानस्मिन्ति निब्बानम्हि.
कामगुणसुत्तवण्णना निट्ठिता.
५-६. सक्कपञ्हसुत्तादिवण्णना
११८-११९. दिट्ठेति पच्चक्खभूते. धम्मेति उपादानक्खन्धधम्मे. तत्थ हि अत्ताति भवति सञ्ञा दिट्ठि चाति अत्तभावसञ्ञा. तेनाह – ‘‘दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे’’ति. ‘‘तन्निस्सित’’न्ति एत्थ तं-सद्देन हेट्ठा अभिनन्दनादिपरियायेन वुत्ता तण्हा पच्चामट्ठाति आह – ‘‘तण्हानिस्सित’’न्ति. तं उपादानं एतस्साति तदुपादानं. तेनाह – ‘‘तंगहण’’न्तिआदि. तण्हुपादानसङ्खातं गहणं एतस्साति तंगहणं. छट्ठं उत्तानमेव पञ्चमे वुत्तनयत्ता.
सक्कपञ्हसुत्तादिवण्णना निट्ठिता.
७. सारिपुत्तसद्धिविहारिकसुत्तवण्णना
१२०. घटेस्सतीति पुब्बेनापरं घटितं सम्बन्धं करिस्सति. विच्छेदन्ति ब्रह्मचरियस्स विरोधिपच्चयसमुप्पत्तिया उच्छेदं.
८. राहुलोवादसुत्तवण्णना
१२१. ये धम्मा सम्मदेव भाविता बहुलीकता विमुत्तिया अरहत्तस्स सच्छिकिरियाय संवत्तन्ति, ते सद्धादयो सम्भारा विमुत्तिपरिपाचनियाति अधिप्पेता. परिपाचेन्तीति परिपाकं परिणामं गमेन्ति. धम्माति कारणभूता धम्मा. विसुद्धिकारणवसेनाति विसुद्धिकारणतावसेन, सा पन सद्धिन्द्रियादीनं कारणतो विसुद्धि. यथा नाम जातिसम्पन्नस्स खत्तियकुमारस्स विपक्खविगमेन पक्खसङ्गहेन पवत्तिट्ठानसम्पत्तिया च परिसुद्धि होति, एवमेवं दट्ठब्बाति दस्सेन्तो ‘‘वुत्तं हेत’’न्तिआदिमाह.
अस्सद्धादयोपि पुग्गला सद्धादीनं यावदेव परिहानाय होन्ति, सद्धादयो पारिपूरियाव, तथा पसादनियसुत्तन्तादिपच्चवेक्खणा, पसादनियसुत्तन्ता नाम सम्पसादनीयसुत्तादयो. सम्मप्पधानेति सम्मप्पधानसुत्तन्ते. सतिपट्ठानेति चत्तारो सतिपट्ठाने. झानविमोक्खेति झानानि चेव विमोक्खे च उद्दिस्स पवत्तसुत्तन्ते. गम्भीरञाणचरियेति खन्धायतनधातुपटिच्चसमुप्पादपटिसंयुत्तसुत्तन्ते.
कल्याणमित्ततादयोति कल्याणमित्तता सीलसंवरो अभिसल्लेखकथा वीरियारम्भो निब्बेधिकपञ्ञाति इमे कल्याणमित्तादयो पञ्च धम्मा, ये ‘‘इध, मेघिय, भिक्खु कल्याणमित्तो होती’’तिआदिना उदाने (उदा. ३१) कथिता. लोकं वोलोकेन्तस्साति आयस्मतो राहुलस्स तासञ्च देवतानं इन्द्रियपरिपाकं पस्सन्तस्स. ततो येन अन्धवनं, तत्थ दिवाविहाराय महासमागमो भविस्सतीति. तथा हि वक्खति ‘‘एत्तकाति गणनावसेन परिच्छेदो नत्थी’’ति.
रुक्खपब्बतनिस्सिता भूमट्ठका, आकासचारिविमानवासिनो अन्तलिक्खट्ठका. धम्मचक्खुन्ति वेदितब्बानि चतुसच्चधम्मानं दस्सनट्ठेन.
राहुलोवादसुत्तवण्णना निट्ठिता.
लोककामगुणवग्गवण्णना निट्ठिता.