१३. गहपतिवग्गो
१-३. वेसालीसुत्तादिवण्णना
१२४-१२६. द्वीसूति इमस्मिं गहपतिवग्गे पठमदुतियेसु ततिये च वुत्तत्थमेव पाठजातं अपुब्बं नत्थीति अत्थो.
४-५. भारद्वाजसुत्तादिवण्णना
१२७-१२८. कामं अञ्ञेपि पब्बजिता युत्तकाले पिण्डं उलमाना चरन्तियेव, अयं पन ओदरितो, तेनेव कारणेन पब्बजितोति दस्सेन्तो ‘‘पिण्डं उलमानो’’तिआदिमाह. घंसन्तोवाति भूमियं घंसन्तो एव पत्तं ठपेति. परिक्खीणन्ति समन्ततो परिक्खीणं. नाळिको …पे… जातं, अतिरेकपत्तट्ठपनस्स पटिक्खित्तत्ता अञ्ञं न गण्हाति. ‘‘इन्द्रियभावनन्ति चक्खादिपञ्चिन्द्रियभावन’’न्ति केचि वदन्ति, तथा विपस्सनाभिनिवेसं कत्वा उपरिविपस्सनं वड्ढित्वाति अधिप्पायो. अपरे पन ‘‘सद्धापञ्चमानं इन्द्रियानं वसेन विपस्सनाभिनिवेसं कत्वा तेन सुखेन अभिञ्ञापहानानं सम्पादनवसेन इन्द्रियं भावेत्वा’’ति वदन्ति.
उपसङ्कमतीति एत्थ यथा सो राजा उपसङ्कमि, तं आगमनतो पट्ठाय दस्सेतुं ‘‘थेरो किरा’’तिआदि आरद्धं. महापानं नाम अञ्ञं कम्मं अकत्वा पानपसुतो हुत्वा सत्ताहं तदनुरूपपरिजनस्स सुरापिवनं. तेनाह ‘‘महापानं नाम पिवित्वा’’ति. सालिथुसेहीति रत्तसालिथुसेहि. डय्हमानं विय किपिल्लिकदंसनजाताहि दुक्खवेदनाहि. मुखसत्तीहि विज्झिंसु वल्लभताय. इत्थिलोलो हि सो राजा.
पवेणिन्ति तेसं समादानपवेणिं ब्रह्मचरियपबन्धं. पटिपादेन्तीति सम्पादेन्ति. गरुकारम्मणन्ति गरुकातब्बआरम्मणं, अवीतिक्कमितब्बारम्मणन्ति अत्थो. अस्साति रञ्ञो. चित्तं अनोतरन्तन्ति पसादवीथिं अनोतरन्तं अनुपगच्छन्तं. विहेठेतुन्ति विबाधितुं.
लोभस्स अपरापरुप्पत्तिया बहुवचनवसेन ‘‘लोभधम्मा’’ति वुत्तं. उप्पज्जन्तीतिपि अत्थो येव, यस्मा उप्पज्जमानो लोभधम्मो अत्तनो हेतुपच्चये परिग्गहापेन्तो जानापेन्तो विय सहति पवत्ततीति. इममेव कायन्ति एत्थ समूहत्थे एव काय-सद्दो गब्भासयादिट्ठानेसु उप्पज्जनधम्मसमूहविसयत्ता, इतरे पन कायूपलक्खितताय ‘‘कायो’’ति वेदितब्बा. उत्तानमेव हेट्ठा वुत्तनयत्ता.
भारद्वाजसुत्तादिवण्णना निट्ठिता.
६. घोसितसुत्तवण्णना
१२९. रूपा च मनापाति नीलादिभेदा रूपधम्मा च मनसा मनुञ्ञा पियरूपा संविज्जन्ति, इदञ्च सुखवेदनीयस्स फस्सस्स सभावदस्सनत्थं. एवं ‘‘रूपा च मनापा उपेक्खावेदनिया’’ति एत्थापि यथारहं वत्तब्बं. चक्खुविञ्ञाण…पे… फस्सन्ति वुत्तं. उपनिस्सयकोटिया हि चक्खुविञ्ञाणसम्पयुत्तफस्सो सुखवेदनीयो, न सहजातकोटिया. तेनाह – ‘‘एकं फस्सं पटिच्च जवनवसेन सुखवेदना उप्पज्जती’’ति. सेसपदेसूति ‘‘संविज्जति खो, गहपति, सोतधातू’’ति आगतेसु पञ्चसु कोट्ठासेसु.
तेवीसति धातुयो कथिता छन्नं द्वारानं वसेन विभज्जगहणेन. वत्थुनिस्सितन्ति हदयवत्थुनिस्सितं. पञ्चद्वारे वीसति, मनोद्वारे तिस्सो एवं तेवीसति.
घोसितसुत्तवण्णना निट्ठिता.
७-८. हालिद्दिकानिसुत्तादिवण्णना
१३०-१३१. तं इत्थेतन्ति चक्खुना यं रूपं दिट्ठं, तं इत्थन्ति अत्थो. तं सुखवेदनियन्ति तं सुखवेदनाय उपनिस्सयकोटिया पच्चयभूतं चक्खुविञ्ञाणञ्चेव, यो च यथारहं उपनिस्सयकोटिया वा, अनन्तरो चे अनन्तरकोटिया वा, सहजातो चे सम्पयुत्तकोटिया वा, सुखवेदनाय पच्चयो फस्सो. तं सुखवेदनियञ्च फस्सं पटिच्च उप्पज्जति सुखवेदनाति योजना. एस नयो सब्बत्थ सब्बेसु सेसेसु सत्तसु वारेसु. मनोधातुयेव वा समानाति अभिधम्मनयेन. सुत्तन्तनयेन पन सुञ्ञतट्ठेन निस्सत्तनिज्जीवट्ठेन च मनोधातुसमञ्ञं लभतेव. अट्ठमं उत्तानमेव हेट्ठा वुत्तनयत्ता.
हालिद्दिकानिसुत्तादिवण्णना निट्ठिता.
९. लोहिच्चसुत्तवण्णना
१३२. तेपि माणवकात्वेव वुत्ता, न ब्राह्मणकुमारा एव. सेलेय्यकानीति अञ्ञमञ्ञं सिलिस्सनलङ्घनकीळनानि.
उपट्ठानवसेन इभं हरन्तीति इब्भा, हत्थिगोपका. ते पन निहीनकुटुम्बस्स भोग्गं उपादाय गहपतिभावं उपादाय ‘‘गहपतिका’’तिपि वुच्चन्तीति आह ‘‘गहपतिका’’ति. कण्हाति कण्हाभिजातिका. रट्ठं भरन्तीति यस्मिं रट्ठे वसन्ति, तस्स रट्ठस्स बलिं भरणेन, अत्तनो वा कुटुम्बस्स भरणेन भरता. परियायन्ताति परितो संचरन्ता कीळन्ति.
सीलजेट्ठकाति सीलप्पधाना. ये पुराणं सरन्ति, ते सीलुत्तमा अहेसुं. द्वारानि चक्खादिद्वारानि.
अपक्कमित्वा अपेता विरहिता हुत्वा. विसमानीति विगतसमानि दुच्चरितसभावानि. नानाविधदण्डा नानाविधदण्डनिपाता.
अनाहारकाति किञ्चि अभुञ्जनका. पङ्को विय पङ्को, मलं. दन्तपङ्को पुरिमपदलोपेन पङ्कोति वुत्तोति ‘‘पङ्को नाम दन्तमल’’न्ति वुत्तं. अजेहि कातब्बकानं अकोपेत्वा करणं समादानवसेन वतं. एस नयो सेसेसुपि. कोहञ्ञं नाम अत्तनि विज्जमानदोसं पटिच्छादेत्वा असन्तगुणपकासनाति आह – ‘‘पटिच्छन्न…पे… कोहञ्ञञ्चेवा’’ति. परिक्खारभण्डकवण्णाति परिक्खारभण्डा कप्पकाति. ते च खो अत्तनो जीविकत्थाय आमिसकिञ्जक्खस्स अत्तनिबन्धनत्थाय अमोचनत्थाय कता.
अखिलन्ति चेतोखिलरहितं ब्रह्मविहारवसेन. तेनाह ‘‘मुदु अथद्ध’’न्ति.
अधिमुत्तोति अभिरतिवसेन युत्तपयुत्तो. परित्तचित्तोति परितो खण्डितचित्तो. अप्पमाणचित्तोति एत्थ ‘‘को अय’’न्ति पटिक्खितुं सक्कुणेय्यचित्तो.
लोहिच्चसुत्तवण्णना निट्ठिता.
१०. वेरहच्चानिसुत्तवण्णना
१३३. ब्राह्मणिं धम्मसवनाय चोदेन्तो माणवको ‘‘यग्घे’’ति अवोच. तेनाह ‘‘यग्घेति चोदनत्थे निपातो’’ति.
वेरहच्चानिसुत्तवण्णना निट्ठिता.
गहपतिवग्गवण्णना निट्ठिता.