५. वक्कलिसुत्तवण्णना

८७. नगरमज्झे महाआबाधो उप्पज्जीति नगरमज्झेन आगच्छन्तो कम्मसमुट्ठानो महन्तो आबाधो उप्पज्जति. समन्ततो अधोसीति सब्बभागेन परिप्फन्दि. इरियापथं यापेतुन्ति सयननिसज्जादिभेदं इरियापथं पवत्तेतुं. निवत्तन्तीति ओसक्कन्ति, परिहायन्तीति अत्थो. अधिगच्छन्तीति वड्ढन्ति. सत्थु गुणसरीरं नाम नवविधलोकुत्तरधम्माधिगममूलन्ति कत्वा वुत्तं ‘‘नवविधो हि…पे… कायो नामा’’ति, यथा सत्तानं कायो पटिसन्धिमूलको.

काळसिलायं कतविहारो काळसिलाविहारो. मग्गविमोक्खत्थायाति अग्गमग्गविमोक्खाधिगमाय. देवताति सुद्धावासदेवता. अलामकं नाम पुथुज्जनकालकिरियाय अभावतो. तेनाह ‘‘थेरो किरा’’तिआदि. एकं द्वे ञाणानीति एकं द्वे पच्चवेक्खणञाणानि सभावतो अवस्सं उप्पज्जन्ति, अयं धम्मता. मग्गफलनिब्बानपच्चवेक्खणानि तंतंमग्गवुट्ठाने उप्पज्जन्ति एव. एकं द्वेति वचनं उप्पन्नभावदस्सनत्थं वुत्तं.

धूमायनभावो धूमाकारता, तथा तिमिरायनभावो.

वक्कलिसुत्तवण्णना निट्ठिता.