३. यमकसुत्तवण्णना

८५. दिट्ठि एव दिट्ठिगतं ‘‘गूथगतं मुत्तगत’’न्ति (म. नि. २.११९; अ. नि. ९.११) यथा. दिट्ठिगतं नाम जातं खन्धविनिमुत्तस्स सत्तस्स गहितत्ता.

कुपितेति दिट्ठिसङ्खातरोगेन कुपिते. पग्गय्हाति तेसं भिक्खूनं सन्तिके विय थेरस्स सारिपुत्तस्स सम्मुखा अत्तनो लद्धिं पग्गय्ह ‘‘एवं ख्वाह’’न्ति एवं निच्छयेन वत्तुं असक्कोन्तो.

अनुयोगवत्तं नाम येन युत्तो, तस्स अत्तनो गाहं निज्झानक्खन्तियाव याथावतो पवेदनं. थेरस्स अनुयोगे भुम्मन्ति ‘‘तं किं मञ्ञसि, आवुसो यमका’’तिआदिना थेरेन कथितपुच्छाय भुम्मनिद्देसो. सचे तं आवुसोति इदन्ति ‘‘सचे तं, आवुसो’’ति एवमादिकं इदं वचनं. एतन्ति यमकत्थेरं. अञ्ञन्ति अरहत्तं. वत्तब्बाकारेन वदन्तो अत्थतो अरहत्तं ब्याकरोन्तो नाम होतीति अधिप्पायेन वदति.

एतस्स पठममग्गस्साति एतस्स इदानियेव तिपरिवट्टदेसनावसाने तया अधिगतस्स पठममग्गस्स. चतूहि योगेहीति अत्ततो पियतो उदासिनतो वेरितोति चतूहिपि उप्पज्जनअनत्थयोगेहि.

उपेतीति तण्हुपयदिट्ठुपयेहि उपादियति तण्हादिट्ठिवत्थुं पप्पोति. उपादियतीति दळ्हग्गाहं गण्हाति. अधितिट्ठतीति अभिनिविस्स तिट्ठति. किन्ति? ‘‘अत्ता मे’’ति. पच्चत्थिका मे एतेति एते रूपवेदनादयो पञ्चुपादानक्खन्धा मय्हं पच्चत्थिका अनत्थावहत्ताति विपस्सनाञाणेन ञत्वा. विपस्सनाय योजेत्वाति विपस्सनाय खन्धे योजेत्वा.

यमकसुत्तवण्णना निट्ठिता.