७. खज्जनीयसुत्तवण्णना

७९. विपस्सनावसेनाति एतरहि रूपवेदनादयो अनुस्सरित्वा ‘‘पुब्बेपाहं एवंवेदनो अहोसि’’न्ति अतीतानं रूपवेदनादीनं पच्चुप्पन्नेहि विसेसाभावदस्सना विपस्सना, तस्सा विपस्सनाय वसेन. य्वायं ‘‘न इदं अभिञ्ञावसेना’’ति पटिक्खेपो कतो, तस्स कारणं दस्सेन्तो ‘‘अभिञ्ञावसेन ही’’तिआदिमाह. खन्धपटिबद्धा नाम गोत्तवण्णहारादयो. एवं अनुस्सरन्तोति यथावुत्तविपस्सनावसेन अनुस्सरन्तो. सभावधम्मानं एव अनुस्सरणस्स वुत्तत्ता ‘‘सुञ्ञतापब्ब’’न्ति वुत्तं.

यस्मा ते एव रूपादयो नेव अत्ता, न अत्तनिया असारा अनिस्सरा, तस्मा ततो सुञ्ञा, तेसं भावो सुञ्ञता, तस्सा लक्खणं रुप्पनादिकं दस्सेतुं.

किञ्चाति हेतुअत्थजोतके कारणे पच्चत्तवचनन्ति आह ‘‘किञ्चाति कारणपुच्छा, केन कारणेन रूपं वदेथा’’ति. एतन्ति एतं भूतुपादायभेदं धम्मजातं. केन कारणेन रूपं नामाति किं कारणं निस्साय रूपन्ति वुच्चतीति अत्थो. कारणुद्देसोति कारणस्स उद्दिसनं. रुप्पतीति एत्थ रूपं नाम सीतादिविरोधिपच्चयसन्निपातेन विसदिसुप्पत्ति. तेनाह ‘‘सीतेनपी’’तिआदि. पब्बतपादेति चक्कवाळपब्बतपादे, सो पन तत्थ अच्चुग्गतो पाकारो विय ठितो. तथा हि तत्थ सत्ता ओलम्बन्ता तिट्ठन्ति. हत्थपासागताति हत्थपासं आगता उपागता. तत्थाति तस्मिं हत्थपासागते सत्ते. छिज्जित्वाति मुच्छापत्तिया मुच्चित्वा, अङ्गपच्चङ्गउच्छेदवसेन वा परिच्छिज्जित्वा. अच्चन्तखारे उदकेति आतपसन्तापाभावेन अतिसीतभावमेव सन्धाय अच्चन्तखारता वुत्ता सिया. न हि तं कप्पसण्ठानउदकं सम्पत्तिकरमहामेघवुट्ठं पथवीसन्धारकं कप्पविनासउदकं विय खारं भवितुं अरहति, तथा सति पथवीपि विलीयेय्याति. महिंसकरट्ठं नाम हिमवन्तपदेसे एकं रट्ठं.

अवीचिमहानिरयेति सउस्सदं अवीचिनिरयं वुत्तं. गङ्गापिट्ठेति गङ्गातीरे.

सरन्ता गच्छन्तीति सरीसपपदस्स अत्थं वदति. एतन्ति रुप्पनं. यथा कठिनता पथविया पच्चत्तलक्खणं, एवं रुप्पनं रूपक्खन्धस्स पच्चत्तलक्खणं, सभावभूतलक्खणन्ति अत्थो.

पुरिमसदिसन्ति पुरिमे रूपक्खन्धे वुत्तेन सदिसं. तं ‘‘किन्ति कारणपुच्छा’’तिआदिना वुत्तनयेनेव वेदितब्बं. सुखं इट्ठारम्मणं. सुखादीनं वेदनानं. पच्चयतोति आरम्मणपच्चयतो. अयमत्थोति ‘‘सुखारम्मणं सुखन्ति वुच्चती’’ति अयमत्थो. उत्तरपदलोपेन हेस निद्देसो. वेदयतीति अनुभवति. वेदयितलक्खणाति अनुभवनलक्खणा.

नीलपुप्फेति नीलवण्णपुप्फे. वत्थे वाति नीलवत्थे. वा-सद्देन वण्णधातुआदिं सङ्गण्हाति. अप्पनं वा झानं वापेन्तो. उप्पज्जनसञ्ञापीति यं किञ्चि नीलं रूपायतनं आरब्भ उप्पज्जनसञ्ञापि, या पकिण्णकसञ्ञाति वुच्चति.

रूपत्तायाति रूपभावाय. यागुमेवाति यागुभाविनमेव वत्थुं. यागुत्ताय यागुभावाय. पचति नाम पुग्गलो. एवन्ति यथा यागुआदिवत्थुं पुरिसो यागुआदिअत्थाय पचति निप्फादेति, अयं एवं रुप्पनादिसभावे धम्मसमूहे यथासकं पच्चयेहि अभिसङ्खरियमाने चेतनापधानो धम्मसमूहो पवत्तनत्थं विसेसपच्चयो हुत्वा ते अभिसङ्खरोति निरोपेति निब्बत्तेति. तेनाह ‘‘पच्चयेही’’तिआदि. रूपमेवाति रूपसभावमेव, न अञ्ञं सभावं. अभिसङ्खरोतीति इतरेहि पच्चयधम्मेहि अधिकं सुट्ठु पच्चयतं करोति. ‘‘उपगच्छति यापेति आयूहती’’ति तस्सेव वेवचनानि. अभिसङ्खरणमेव हि आयूहनादीनि. निब्बत्तेतीति तेसं धम्मानं रुप्पनादिभावेन निब्बत्तिया पच्चयो होतीति अत्थो. चेतयितलक्खणस्स सङ्खारस्साति इदं सङ्खारक्खन्धधम्मानं चेतनापधानत्ता वुत्तं. तथा हि भगवा सुत्तन्तभाजनीये सङ्खारक्खन्धं विभजन्तेन चेतनाव विभत्ता.

वातिङ्गणं ब्रहतिफलं. चतुरस्सवल्लीति तिवुतालता. अखारिकन्ति खाररसरहितं, तं पन पण्णफलादि. यत्थ लोणरसो अधिको, तं लोणिकन्ति आह ‘‘लोणयागू’’तिआदि. अम्बिलादिभेदं रसं.

आकारसण्ठानगहणवसेनाति नीलपीतादिआकारगहणवसेन चेव वट्टचतुरस्सादिसण्ठानगहणवसेन च. विनापि आकारसण्ठानाति आकारसण्ठानेहि विना, ते ठपेत्वापि. पच्चत्तभेदगहणवसेनाति तस्स तस्स आरम्मणस्स पभेदगहणवसेन. असम्मोहतोति याथावतो. विसेसो विसेसत्थदीपनतो, अविसेसो अयं धम्मो अविसेसदीपनतो. तेनाह ‘‘विसेसो वेदितब्बो’’ति. जाननञ्हि अविसिट्ठं, तं समासपदतो उपसग्गा विसेसेन्ति. तथा हि सञ्जाननपदं पच्चभिञ्ञाणनिमित्तं आकारगहणमत्तं बोधेति, विजाननपदं ततो विसिट्ठविसयगहणं. पजाननपदं पन ततोपि विसिट्ठतरं पकारतो अवबोधं बोधेति. तेनाह ‘‘तस्सापी’’तिआदि. आरम्मणसञ्जाननमत्तमेवाति नीलादिभेदस्स आरम्मणस्स सल्लक्खणमत्तमेव. अवधारणेन लक्खणपटिवेधत्तं निवत्तेति. तेनाह ‘‘अनिच्च’’न्तिआदि. ञाणसम्पयुत्तचित्तेहि विपस्सन्तस्स विपस्सनाय पगुणभावे सति ञाणविप्पयुत्तेन चित्तेनपि विपस्सना होतियेवाति आह ‘‘अनिच्चादिवसेन लक्खणपटिवेधञ्च पापेती’’ति. पटिवेधन्ति च उपलद्धिमेव वदति, न पटिविज्झनं. तेनाह ‘‘उस्सक्कित्वा पना’’तिआदि. उस्सक्कित्वाति उस्सक्कापेत्वा मग्गपातुभावम्पि पापेति असम्मोहसभावत्ता. यथा लक्खणपटिवेधकाले सञ्जाननलक्खणवसेन सञ्ञाणअनुरूपवसेनेव पवत्तं, एवं विञ्ञाणविजाननवसेन वायं अनुरूपवसेनेव पवत्ततीति दट्ठब्बं.

इदानि तमत्थं हेरञ्ञिकादिउपमाय विभावेतुं ‘‘यथा ही’’तिआदिमाह. हिरञ्ञं वुच्चति कहापणं, हिरञ्ञजानने नियुत्तो हेरञ्ञिको. लोकवोहारे अजाता असञ्जाता बुद्धि एतस्साति अजातबुद्धि, बालदारको. वोहारकुसलो गामवासी पुरिसो गामिकपुरिसो. उपभोगपरिभोगारहत्ता उपभोगपरिभोगं. तम्बकंसमयत्ता कूटो. महासारत्ता छेको. अड्ढसारत्ता करटो. निहीनसारत्ता सण्हो. एत्थ च यथा हेरञ्ञिको कहापणं चित्तादिभावतो उद्धं कूटादिभावं रूपदस्सनादिवसेन उप्पत्तिट्ठानतोपि जानन्तो अनेकाकारतो जानाति, एवं पञ्ञा आरम्मणं नानप्पकारतो जानाति पटिविज्झति, ताय सद्धिं पवत्तमानविञ्ञाणम्पि यथाविसयं आरम्मणं जानाति.

एवं स्वायं नेसं जानने विसेसो अञ्ञेसं अविसयो, बुद्धानं एव विसयोति इदं विसेसं मिलिन्दपञ्हेन विभावेतुं ‘‘तेनाहा’’तिआदिमाह, तं सुविञ्ञेय्यमेव.

अत्तसुञ्ञानं सभावधम्मानं धम्ममत्तताय कथितत्ता ‘‘अनत्तलक्खणं कथेत्वा’’ति वुत्तं. हेट्ठिममग्गा च यदि अधिगता, अरहत्तस्स अनधिगतत्ता ‘‘एकदेसमत्तेना’’ति वुत्तं, तं अनिच्चलक्खणं दस्सेतुं इदं पब्बमारद्धं, इतरानि द्वे लक्खणानि तस्स परिहारभावेनाति अधिप्पायो.

यस्मा पनेत्थ ‘‘तं किं मञ्ञथ, भिक्खवे’’तिआदिदेसनाय तीसु लक्खणेसु इदमेव पधानभावेन दस्सितं, इदं अप्पधानभावेनाति न सक्का वत्तुं, तस्मा ‘‘तीणि लक्खणानि समोधानेत्वा दस्सेतुम्पी’’ति वुत्तं. अपचिनातीति अपचयगामिधम्मे निवत्तेति एकंसतो अपचयगामिपटिपदाय परिपूरणतो. तेनाह ‘‘नो आचिनाती’’तिआदि. वट्टं विनासेतीति विधमति अदस्सनं गमेति. नेव चिनातीति न वड्ढेति. तदेवाति तं वट्टं एव. विस्सज्जेतीति छड्डेति. विकिरतीति विद्धंसेति. विधूपेतीति वट्टत्तयसङ्खातं अग्गिक्खन्धं विगतधूमं विगतसन्तापं करोतीति अत्थोति आह ‘‘निब्बापेती’’ति.

एवं पस्सन्तिआदि अनागामिफले ठितस्स अरियसावकस्स अग्गमग्गफलाधिगमाय देसनाति अधिप्पायेनाह ‘‘वट्टं विनासेत्वा ठितं महाखीणासवं दस्सेस्सामी’’ति. खीणासवस्स अनागतभावदस्सनंयेव, सब्बा चायं हेट्ठिमा देसना सुद्धविपस्सनाकथा, सहपठममग्गा वा सहविज्जूपमधम्मा वा विपस्सनाकथाति दस्सेन्तो ‘‘एत्तकेन ठानेना’’तिआदिमाह.

नमस्सन्तियेव महता गारवबहुमानेन. तेनाह ‘‘नमो ते पुरिसाजञ्ञा’’तिआदि. तत्थ निदस्सनं दस्सेन्तो ‘‘आयस्मन्तं नीतत्थेरं विया’’ति वत्वा तमत्थं विभावेतुं ‘‘थेरो’’तिआदिमाह. तत्थ खुरग्गेयेवाति केसोरोपनत्थं खुरधाराय अग्गे सीसे ठपिते तचपञ्चककम्मट्ठानमुखेन भावनं अनुयुञ्जन्तो अरहत्तं पत्वा. ब्रह्मविमानाति ब्रह्मानं निवासभूता विमाना.

खज्जनीयसुत्तवण्णना निट्ठिता.