१०. पुण्णमसुत्तवण्णना

८२. दिस्सति अपदिस्सतीति देसो, कारणं, तञ्च खो ञापकं दट्ठब्बं. यञ्हि सो जानितुकामो रुप्पनादिसभावं, पठमं पन सरूपं पुच्छित्वा पुन तस्स विसेसो पुच्छितब्बोति पठमं ‘‘इमे नु खो’’तिआदिना पुच्छं करोति, इधापि च सो विसेसो एव तस्स भिक्खुनो अन्तन्ति दस्सेति. अजानन्तो विय पुच्छति तेसं हेतुन्ति अधिप्पायो.

तण्हाछन्दमूलका पभवत्ता. पञ्चुपादानक्खन्धाति एत्थ विसेसतो तण्हुपादानस्स गहणं इतरस्स तग्गहणेनेव गहितं तदविनाभावतोति छन्दरागो एव उद्धटो. इदन्ति तप्पञ्हपटिक्खिपनं. यदिपि खन्धा उपादानेहि असहजातापि होन्ति उपादानस्स अनारम्मणभूतापि, उपादानं पन तेहि सहजातमेव, तदारम्मणञ्च होतियेवाति दस्सेति. न हि असहजातं अनारम्मणञ्च उपादानं अत्थीति. इदानि तमत्थं विवरित्वा दस्सेतुं ‘‘तण्हासम्पयुत्तस्मि’’न्तिआदि वुत्तं, तं सुविञ्ञेय्यमेव. आरम्मणतोति आरम्मणकरणतो. ‘‘एवंरूपो सिय’’न्ति एवंपवत्तस्स छन्दरागस्स ‘‘एवंवेदनो सिय’’न्ति एवंपवत्तिया अभावतो तत्थ तत्थेव नतसङ्खारा भिज्जन्ति, तस्मा रूपवेदनारम्मणानं छन्दरागादीनं अभावतो अत्थेव छन्दरागवेमत्तता. छन्दरागस्स पहानादिवसेन छन्दरागपटिसंयुत्तस्स अपुच्छितत्ता, ‘‘अनुसन्धि न घटियती’’ति वुत्तं. किञ्चापि न घटियतीति अञ्ञस्सेव पुच्छितत्ता, तथापि सानुसन्धिकाव पुच्छा, ततो एव सानुसन्धिकं विस्सज्जनं. तत्थ कारणमाह ‘‘तेसं तेस’’न्तिआदिना. तेन अज्झासयानुसन्धिवसेन सानुसन्धिकानेव पुच्छाविस्सज्जनानीति दस्सेति.

पुण्णमसुत्तवण्णना निट्ठिता.

खज्जनीयवग्गवण्णना निट्ठिता.