१-३. अस्सादसुत्तादिवण्णना
७३-७५. चतुसच्चमेव कथितं अस्सादादीनञ्चेव समुदयादीनञ्च वसेन देसनाय पवत्तत्ता. यस्मा अस्सादो समुदयसच्चं, आदीनवो दुक्खसच्चं, निस्सरणं मग्गसच्चं निरोधसच्चञ्चाति वुत्तोवायमत्थो; दुतिये समुदयस्सादो समुदयसच्चं, आदीनवो दुक्खसच्चं, अत्थङ्गमो निरोधसच्चं, निस्सरणं मग्गसच्चन्ति वुत्तोवायमत्थो; ततियं अरियसावकस्सेव वसेन वुत्तं.
अस्सादसुत्तादिवण्णना निट्ठिता.