४. अरहन्तसुत्तवण्णना

७६. यत्तका सत्तावासाति तस्मिं तस्मिं सत्तनिकाये आवसनट्ठेन सत्ता एव सत्तावासा. तेन यत्तका सत्तावासा, तेहि सब्बेहिपि एते अग्गा एते सेट्ठा, ये इमे अरहन्ताति दस्सेति. पुरिमनयेनेवाति पुरिमस्मिं सत्तट्ठानकोसल्लसुत्ते वुत्तनयेन.

तदत्थपरिदीपनाहीति ‘‘पञ्चक्खन्धे परिञ्ञाय. तण्हा तेसं न विज्जति. अस्मिमानो समुच्छिन्नो’’तिआदिना तस्स यथानिद्दिट्ठस्स सुत्तस्स अत्थदीपनाहि चेव ‘‘अनेजं ते अनुप्पत्ता, चित्तं तेसं अनाविल’’न्तिआदिना विसेसत्थपरिदीपनाहि च. झानमग्गफलपरियापन्नं अतिसयितसुखं एतेसमत्थीति सुखिनोति आह ‘‘झान…पे… सुखिता’’ति. तण्हा तेसं न विज्जतीति एत्थ तेसं अपायदुक्खजनिका तण्हा न विज्जतीति वुत्तं. वट्टमूलिकाय तण्हाय अभावा ‘‘नन्दी तेसं न विज्जती’’ति एत्थ वुच्चतीति. इमस्सपीति पि-सद्देन दुक्खस्साभावेनपीति दुक्खाभावो विय वट्टमूलिकतण्हाभावो सम्पिण्डीयतीति दट्ठब्बं. तेन हि ते अनुपादिसेसनिब्बानप्पत्तिया अच्चन्तसुखिता एवाति वुच्चन्तीति. ‘‘सेय्योहमस्मी’’तिआदिनयप्पवत्तिया नवविधो. ञाणेनाति अग्गमग्गञ्ञाणेन.

अरहत्तं अनुप्पत्ता. अलित्ताति अमक्खिता. ब्रह्मभूताति ब्रह्मभावं पत्ता, ब्रह्मतो वा अरियमग्गञाणतो भूता अरियाय जातिया जाता. सत्त सद्धम्मा गोचरो पवत्तिट्ठानं एतेसन्ति सत्तसद्धम्मगोचरा.

निरासङ्कचारो नाम गहितो कुतोचिपि तेसं आसङ्काय अभावतो. सम्मादिट्ठिआदीहि दसहि अङ्गेहि सम्माविमुत्ति-सम्माञाणपरियोसानेहि. ‘‘आगुं न करोती’’तिआदीहि चतूहि कारणेहि. तण्हा तेसं न विज्जतीति इदम्पि तण्हापहानस्स बहूपकारतादस्सनं. तेनाह ‘‘दासकारिका तण्हापि तेसं नत्थी’’ति.

न विकम्पन्ति ‘‘सेय्योहमस्मी’’तिआदिना.

उद्धं तिरियं अपाचीनन्ति एत्थ ‘‘उद्धं वुच्चती’’तिआदिना रूपमुखेन अत्तभावं गहेत्वा पवत्तो पठमनयो. कालत्तयवसेन धम्मप्पवत्तिं गहेत्वा पवत्तो दुतियनयो. ठानवसेन सकललोकधातुं गहेत्वा पवत्तो ततियनयो. बुद्धाति चत्तारि सच्चानि बुद्धवन्तो.

सीहनादसमोधानन्ति सीहनादानं संकलनं. लोके अत्तनो उत्तरितरस्साभावा अनुत्तरा. उत्तरो ताव तिट्ठतु पुरिसो, सदिसोपि ताव नत्थीति असदिसा. सकलम्पि भवं उत्तरित्वा भवपिट्ठे ठत्वा विमुत्तिसुखेन सुखितत्तादिवसेन एकवीसतियाकारेहि सीहनादं नदन्ति.

अरहन्तसुत्तवण्णना निट्ठिता.