६. सम्मासम्बुद्धसुत्तवण्णना
५८. अधिकं सविसेसं पयसति पयुञ्जति एतेनाति अधिप्पयासो, विसिट्ठपयोगो. तेनाह ‘‘अधिकपयोगो’’ति. इमञ्हि मग्गन्ति अट्ठङ्गिकं अरियमग्गमाह. इधाति इमस्मिं सुत्ते. अवत्तमानट्ठेनाति बुद्धुप्पादतो पुब्बे न वत्तमानभावेन. मग्गं जानातीति समुदागमतो पट्ठाय सपुब्बभागं ससम्भारविसयं सफलं सउद्रयं अरियं मग्गं जानाति अवबुज्झतीति मग्गञ्ञू. विदितन्ति अञ्ञेसम्पि ञातं पटिलद्धं हत्थतले आमलकं विय पाकटं अकासि, तथा कत्वा देसेसि. अमग्गे परिवज्जनेन मग्गे पटिपत्तीति तस्स मग्गकुसलता विय अमग्गकुसलतापि इच्छितब्बाति आह ‘‘मग्गे च अमग्गे च कोविदो’’ति. अहं पठमं गतोति अहं पठममग्गेन समन्नागतो.
सम्मासम्बुद्धसुत्तवण्णना निट्ठिता.