७. अनत्तलक्खणसुत्तवण्णना

५९. पुराणुपट्ठाकेति पुब्बे पधानपदहनकाले उपट्ठाकभूते. ‘‘अवसवत्तनट्ठेन अस्सामिकट्ठेन सुञ्ञतट्ठेन अत्तपटिक्खेपट्ठेना’’ति एवं पुब्बे वुत्तेहि. एत्तकेन ठानेनाति ‘‘रूपं, भिक्खवे, अनत्ता’’ति आरभित्वा याव ‘‘एवं मे विञ्ञाणं मा अहोसी’’ति एत्तकेन सुत्तपदेसेन. अकथितस्सेव कथनं उत्तरं, न कथितस्साति वुत्तं ‘‘तानि दस्सेत्वा’’ति. समोधानेत्वाति सम्पिण्डित्वा. वित्थारकथाति वित्थारतो अट्ठकथा. अनत्तलक्खणमेवाति तब्बहुलताय तप्पधानताय च वुत्तं. अनिच्चतादीनम्पि हि तत्थ तंदीपनत्थमेव वुत्तत्ता तदेव जेट्ठं पधानं तथा वेनेय्यज्झासयतो.

अनत्तलक्खणसुत्तवण्णना निट्ठिता.