६. उपयवग्गो
१. उपयसुत्तवण्णना
५३. उपेतीति उपयो. कथमुपेति? तण्हामानादिवसेनाति आह ‘‘तण्हामानदिट्ठिवसेना’’ति. कथमिदं लब्भतीति? ‘‘अविमुत्तो’’ति वचनतो. तण्हादिट्ठिवसेन हि बद्धो, किं उपेतीति आह ‘‘पञ्चक्खन्धे’’ति तब्बिनिमुत्तस्स तथा उपेतस्स अभावतो. को पनुपेतीति? तंसमङ्गीपुग्गलो. तण्हादिट्ठिवसेन उपगमस्स वुत्तत्ता विञ्ञाणन्ति अकुसलकम्मविञ्ञाणमेवाति वदन्ति. जवापेत्वाति गहितजवं कत्वा. यथा पटिसन्धिं आकड्ढितुं समत्थं, एवं कत्वा. तेनाह ‘‘पटिसन्धी’’तिआदि. अग्गहणे कारणं वुत्तमेव ‘‘ओकं पहाय अनिकेतसारी’’ति गाथाय विस्सज्जने. कम्मनिमित्तादिवसेन पटिसन्धिया पच्चयभूतं आरम्मणं पटिसन्धिजनकस्स कम्मस्स वसेन वोच्छिज्जति. पतिट्ठा न होति सरागकाले विय अनुपट्ठानतो. अप्पतिट्ठितं विञ्ञाणं वुत्तप्पकारेन. अनभिसङ्खरित्वाति अनुप्पादेत्वा पच्चयघातेन.
उपयसुत्तवण्णना निट्ठिता.
२. बीजसुत्तवण्णना
५४. बीजजातानीति जात-सद्दो पदपूरणमत्तन्ति आह ‘‘बीजानी’’ति. वचन्ति सेतवचं. अज्जुकन्ति तच्छकं. फणिज्जकं तुलसि. अभिन्नानीति एकदेसेनपि अखण्डितानि. बीजत्थायाति बीजकिच्चाय. न उपकप्पतीति पच्चयो न होतीति दस्सेति. न पापितानीति पूतितं न उपगतानि. तण्डुलसारस्स आदानतो सारादानि. आरम्मणग्गहणवसेन विञ्ञाणं तिट्ठति एत्थाति विञ्ञाणट्ठितियो. आरम्मणवसेनाति आरम्मणभाववसेन. सिनेहनट्ठेनाति तण्हायनवसेन सिनिद्धतापादनेन, यतो ‘‘नन्दूपसेचन’’न्ति वुत्तं. तथा हि विरोपितं तं कम्मविञ्ञाणं पटिसन्धिअङ्कुरुप्पादनसमत्थं होति. सप्पच्चयन्ति अविज्जाअयोनिसोनमनसिकारादिपच्चयेहि सप्पच्चयं. विरुहति विपाकसन्तानुप्पादनसमत्थो हुत्वा.
बीजसुत्तवण्णना निट्ठिता.
३. उदानसुत्तवण्णना
५५. उदानं उदाहरीति अत्तमनवाचं निच्छारेसि. एस वुत्तप्पकारो उदाहारो. भुसो निस्सयो उपनिस्सयो, दानमेव उपनिस्सयो दानूपनिस्सयो. एस नयो सेसेसुपि. तत्थ दानूपनिस्सयो अन्नादिवत्थूसु बलवाति बलवभावेन होति, तस्मा उपनिस्सयबहुलो कामरागप्पहानेनेव कतपरिचयत्ता विपस्सनमनुयुञ्जन्तो न चिरस्सेव अनागामिफलं पापुणाति, तथा सुविसुद्धसीलूपनिस्सयो कामदोसजिगुच्छनेन. यदि एवं कस्मा इमे द्वे उपनिस्सया दुब्बलाति वुत्ता? विज्जूपमञ्ञाणस्सेव पच्चयभावतो. सोपि भावनूपनिस्सयसहायलाभेनेव, न केवलं. भावना पन पटिवेधस्स विसेसहेतुभावतो बलवा उपनिस्सयो. तथा हि सा वजिरूपमञाणस्स विसेसपच्चयो. तेनाह ‘‘भावनूपनिस्सयो अरहत्तं पापेती’’ति.
सोति मिलकत्थेरो. विहारन्ति वसनट्ठानं. विहारपच्चन्ते हि पण्णसालाय थेरो विहरति. उपट्ठाति एकलक्खणेन. कूटगोणो विय गमनवीथिं. तत्थाति अल्लकट्ठरासिम्हि. उदकमणिकानन्ति उदकथेवानं.
अत्तनियेव उपनेसि उदानकथाय वुत्तधम्मानं परिपुण्णानं अत्तनि संविज्जमानत्ता. तेनाह ‘‘उट्ठानवता’’तिआदि. अयञ्हि मिलकत्थेरो सिक्खाय गारवो सप्पतिस्सो वत्तपटिवत्तं पूरेन्तो विसुद्धसीलो हुत्वा ठितो, तस्मा ‘‘दुब्बलूपनिस्सये’’ति वुत्तं. तेनाह भगवा उदानेन्तो ‘‘नो चस्सं…पे… सञ्ञोजनानी’’ति.
सचे अहं न भवेय्यन्ति यदि अहं नाम कोचि न भवेय्यं तादिसस्स अहंसद्दवचनीयस्स कस्सचि अत्थस्स अभावतो. ततो एव मम परिक्खारोपि न भवेय्यतस्स च पभङ्गुभावेन अनवट्ठितभावतो. एवं अत्तुद्देसिकभावेन पदद्वयस्स अत्थं वत्वा इदानि कम्मफलवसेन वत्तुं ‘‘सचे वा पना’’तिआदि वुत्तं. अतीतपच्चुप्पन्नवसेन सुञ्ञतं दस्सेत्वा इदानि पच्चुप्पन्नानागतवसेन तं दस्सेन्तो ‘‘इदानि पना’’तिआदि वुत्तं. एवं अधिमुच्चन्तोति एदिसं अधिमुत्तिं पवत्तेन्तो. विभविस्सतीति विनस्सिस्सति. विभवो हि विनासो. तेनाह ‘‘भिज्जिस्सती’’ति. विभवदस्सनं विभवोति उत्तरपदलोपेन वुत्तन्ति आह ‘‘विभवदस्सनेना’’ति. विभवदस्सनं नाम अच्चन्ताय विनासस्स दस्सनं. तन्ति अरियमग्गं. सामञ्ञजोतना हेसा विसेसनिट्ठा होतीति ततियमग्गवसेन अत्थो वेदितब्बो.
उपरि मग्गफलन्ति अग्गमग्गफलं. नत्थि एतिस्सा जातिया अन्तरन्ति अनन्तरा, अनन्तरा विपस्सना मग्गस्स. गोत्रभू पन अनुलोमवीथिपरियापन्नत्ता विपस्सनागतिकं वा सिया, निब्बानारम्मणत्ता मग्गगतिकं वाति न तेन मग्गो अन्तरिको नाम होति. तेनाह ‘‘विपस्सना मग्गस्स आसन्नानन्तरं नामा’’ति. फलं पन निब्बानारम्मणत्ता किलेसानं पजहनवसेन पवत्तनतो लोकुत्तरभावतो च कम्ममग्गगतिकमेव, कुसलविपाकभावेन पन नेसं अत्थो पभेदोति विपस्सनाय फलस्स सिया अनन्तरताति वुत्तं ‘‘फलस्स दूरानन्तरं नामा’’ति. ‘‘आसवानं खयो’’ति पन अग्गमग्गे वुच्चमाने विपस्सनानं आसन्नताय वत्तब्बमेव नत्थि. अतसितायेति न तसितब्बे तासं अनापज्जितब्बे. तासोति तासहेतु ‘‘तसति एतस्मा’’ति कत्वा. सोति अस्सुतवा पुथुज्जनो. तिलक्खणाहतन्ति अनिच्चतादिलक्खणत्तयलक्खितं. मनम्हि नट्ठोति ईसकं नट्ठोम्हि, ततो परम्पि तत्थेव ठत्वा किञ्चि अपूरितत्ता एव मुत्तोति अधिप्पायो. ‘‘न तासो नाम होती’’ति वत्वा तस्स अतासभावं दस्सेतुं ‘‘न ही’’तिआदि वुत्तं. कल्याणपुथुज्जनो हि भयतुपट्ठानञाणेन ‘‘सभया सङ्खारा’’ति विपस्सन्तो न उत्तसति.
उदानसुत्तवण्णना निट्ठिता.
४. उपादानपरिपवत्तसुत्तवण्णना
५६. चतुन्नं परिवट्टनवसेनाति पच्चेकक्खन्धेसु चतुन्नं अरियसच्चानं परिवट्टनवसेन. रूपं अब्भञ्ञासिन्ति सकलभूतुपादारूपं कुच्छितभावतो तत्थ च तुच्छविपल्लासताय ‘‘दुक्खसच्च’’न्ति अभिविसिट्ठेन ञाणेन अञ्ञासिं पटिविज्झिं. आहारवसेन रूपकायस्स हानिवुद्धादीनं पाकटभावतो विसेसपच्चयतो च तस्स ‘‘आहारसमुदया’’ति वुत्तं. दुक्खसमुदयकथा नाम वट्टकथाति ‘‘सच्छन्दरागो’’ति विसेसेत्वा वुत्तं. छन्दरागग्गहणेन च उपादानकम्माविज्जापि गहिता एव. पटिपन्ना होन्तीति अत्थो. वत्तमानकालप्पयोगो हेस यथा ‘‘कुसलं चित्तं उप्पन्नं होती’’ति. पतिट्ठहन्तीति पतिट्ठं लभन्ति. केवलिनोति इध विमुत्तिगुणेन पारिपूरीति आह ‘‘सकलिनो कतसब्बकिच्चा’’ति. येन तेति येन अवसिट्ठेन ते असेक्खे पञ्ञापेन्ता पञ्ञापेय्युं, तं नेसं वट्टं सेक्खानं विय नत्थि पञ्ञापनाय. वट्टन्ति कारणं वट्टनट्ठेन फलस्स पवत्तनट्ठेन. असेक्खभूमिवारोति असेक्खभूमिप्पवत्ति.
उपादानपरिपवत्तसुत्तवण्णना निट्ठिता.
५. सत्तट्ठानसुत्तवण्णना
५७. सत्तसु ओकासेसूति रूपपजाननादीसु सत्तसु ओकासेसु. वुसितवासोति वुसितअरियवासो. एत्थाति इमस्मिं उद्देसे. सेसं नाम इध वुत्तावसेसं. वुत्तनयेनाति हेट्ठा वुत्तनयेन वेदितब्बं. उस्सदनन्दियन्ति उस्सन्नगुणवतो तोसनं सम्मोदापनं. गुणकित्तनेन पलोभनीयं सेक्खकल्याणपुथुज्जनानं पसादुप्पादनेन. इदानि वुत्तमेव अत्थं पाकटं कातुं ‘‘यथा ही’’तिआदि वुत्तं.
एत्तावताति पञ्चन्नं खन्धानं वसेन सत्तसु ठानेसु कोसल्लदीपनेन एत्तकेन देसनाक्कमेन. तन्ति आरम्मणं. धातुआदिमत्तमेवाति धातायतनपटिच्चसमुप्पादमत्तमेव. इमेसु धम्मेसूति इमेसु जातादीसु. कम्मं कत्वाति सम्मसनकम्मं निट्ठपेत्वाति अत्थो. एवमेत्थ पञ्चन्नं खन्धानं वसेन सत्तट्ठानकोसल्लपवत्तिया पभेदेन विभजित्वा ‘‘तिविधूपपरिक्खी’’ति दस्सेति धम्मराजा.
सत्तट्ठानसुत्तवण्णना निट्ठिता.
६. सम्मासम्बुद्धसुत्तवण्णना
५८. अधिकं सविसेसं पयसति पयुञ्जति एतेनाति अधिप्पयासो, विसिट्ठपयोगो. तेनाह ‘‘अधिकपयोगो’’ति. इमञ्हि मग्गन्ति अट्ठङ्गिकं अरियमग्गमाह. इधाति इमस्मिं सुत्ते. अवत्तमानट्ठेनाति बुद्धुप्पादतो पुब्बे न वत्तमानभावेन. मग्गं जानातीति समुदागमतो पट्ठाय सपुब्बभागं ससम्भारविसयं सफलं सउद्रयं अरियं मग्गं जानाति अवबुज्झतीति मग्गञ्ञू. विदितन्ति अञ्ञेसम्पि ञातं पटिलद्धं हत्थतले आमलकं विय पाकटं अकासि, तथा कत्वा देसेसि. अमग्गे परिवज्जनेन मग्गे पटिपत्तीति तस्स मग्गकुसलता विय अमग्गकुसलतापि इच्छितब्बाति आह ‘‘मग्गे च अमग्गे च कोविदो’’ति. अहं पठमं गतोति अहं पठममग्गेन समन्नागतो.
सम्मासम्बुद्धसुत्तवण्णना निट्ठिता.
७. अनत्तलक्खणसुत्तवण्णना
५९. पुराणुपट्ठाकेति पुब्बे पधानपदहनकाले उपट्ठाकभूते. ‘‘अवसवत्तनट्ठेन अस्सामिकट्ठेन सुञ्ञतट्ठेन अत्तपटिक्खेपट्ठेना’’ति एवं पुब्बे वुत्तेहि. एत्तकेन ठानेनाति ‘‘रूपं, भिक्खवे, अनत्ता’’ति आरभित्वा याव ‘‘एवं मे विञ्ञाणं मा अहोसी’’ति एत्तकेन सुत्तपदेसेन. अकथितस्सेव कथनं उत्तरं, न कथितस्साति वुत्तं ‘‘तानि दस्सेत्वा’’ति. समोधानेत्वाति सम्पिण्डित्वा. वित्थारकथाति वित्थारतो अट्ठकथा. अनत्तलक्खणमेवाति तब्बहुलताय तप्पधानताय च वुत्तं. अनिच्चतादीनम्पि हि तत्थ तंदीपनत्थमेव वुत्तत्ता तदेव जेट्ठं पधानं तथा वेनेय्यज्झासयतो.
अनत्तलक्खणसुत्तवण्णना निट्ठिता.
८. महालिसुत्तवण्णना
६०. एकन्तदुक्खन्तिआदीनि पदानि वुत्तनयानेव, तस्मा तत्थ वुत्तनयेनेव अत्थो वेदितब्बो. एत्थ च यथा सरागो हेतु पच्चयो संकिलेसाय, एवं सविपस्सनो मग्गो हेतु पच्चयो च विसुद्धियाति दट्ठब्बं.
महालिसुत्तवण्णना निट्ठिता.
९. आदित्तसुत्तवण्णना
६१. एकादसहीति रागादीहि उपायासपरियोसानेहि एकादसहि सन्तापनट्ठेन अग्गीहि. द्वीसूति अट्ठमनवमेसु. दुक्खलक्खणमेवाति तब्बहुलताय तप्पधानताय च वुत्तं.
आदित्तसुत्तवण्णना निट्ठिता.
१०. निरुत्तिपथसुत्तवण्णना
६२. निरुत्तियोव निरुत्तिपथाति पथ-सद्देन पदवड्ढनमाह यथा ‘‘बीजानियेव बीजजातानी’’ति. निरुत्तिवसेनाति निब्बचनवसेन. पथा च अत्थानुरूपभावतो. तीणिपीति निरुत्तिअधिवचनपञ्ञत्तिपथपदानि. तथा हि ‘‘फुसतीति फस्सो’’तिआदिना नीहरित्वा वचनं निरुत्ति, ‘‘सिरीवड्ढको धनवड्ढको’’तिआदिना वचनमत्तमेव अधिकारं कत्वा पवत्तं अधिवचनं, ‘‘तक्को वितक्को’’तिआदिना तंतंपकारेन ञापनतो पञ्ञत्ति. अथ वा तंतंअत्थप्पकासनेन निच्छितं, नियतं वा वचनं निरुत्ति. अधि-सद्दो उपरिभागे, उपरि वचनं अधिवचनं. कस्स उपरि? पकासेतब्बस्स अत्थस्साति पाकटोयमत्थो. अधीनं वचनं अधिवचनं. केन अधीनं? अत्थेन. अत्थस्स पञ्ञापनत्थेन पञ्ञत्तीति एवं निरुत्तिआदिपदानं सब्बवचनेसु पवत्ति वेदितब्बा. अञ्ञथा ‘‘फुसतीति फस्सो’’तिआदिप्पकारेन निद्धारणवचनानंयेव निरुत्तिता, सिरिवड्ढकधनवड्ढकपकारानमेव अभिलापनं अधिवचनता. ‘‘तक्को वितक्को’’ति एवंपकारानमेव एकमेव अत्थं तेन तेन पकारेन ञापेन्तानं वचनानं पञ्ञत्तिता च आपज्जेय्य. असंकिण्णाति न संकिण्णा. तेनाह ‘‘अविजहिता…पे… अछड्डिता’’ति. न संकीयन्तीति न संकिरीयन्ति, न संकीयिस्सन्ति न संकिरीयिस्सन्तीति अत्थो. अप्पटिकुट्ठाति न पटिक्खित्ता. यस्मा भङ्गं अतिक्कन्तं उप्पादादि अतिक्कन्तमेव होति, तस्मा वुत्तं ‘‘भङ्गमेवा’’ति. यस्मा देसन्तरं सङ्कन्तोपि अतिक्कन्तन्ति वुच्चति, तस्मा तदाभावं दस्सेतुं ‘‘देसन्तरं असङ्कमित्वा’’ति वुत्तं. यत्थ यत्थ हि सङ्खारा उप्पज्जन्ति, तत्थ तत्थेव भिज्जन्ति निरुज्झन्ति विपरिणमन्ति विनासं आपज्जन्ति. तेनाह ‘‘विपरिणतन्ति…पे… नट्ठ’’न्ति. अपाकटीभूतं अजातत्ता एव.
वसभणगोत्तताय वस्सभञ्ञा. मूलदिट्ठिगतिकाति मूलभूता दिट्ठिगतिका, इमस्मिं कप्पे सब्बपठमं तादिसदिट्ठिसमुप्पादका. पुनप्पुनं आवज्जेन्तस्साति अहेतुवादपटिसंयुत्तगन्थं उग्गहेत्वा परियापुणित्वा तदत्थं वीमंसन्तस्स ‘‘नत्थि हेतु, नत्थि पच्चयो सत्तानं संकिलेसाया’’तिआदिनयप्पवत्ताय लद्धिया आरम्मणे मिच्छासति सन्तिट्ठति, ‘‘नत्थि हेतू’’तिआदिवसेन अनुस्सवूपलद्धे अत्थे तदाकारपरिवितक्कनेहि सविग्गहे विय सरूपतो चित्तस्स पच्चुपट्ठिते चिरकालपरिचयेन ‘‘एवमेत’’न्ति निज्झानक्खमभावूपगमनेन निज्झानक्खन्तिया तथागहिते पुनप्पुनं तथेव आसेवन्तस्स बहुलीकरोन्तस्स मिच्छावितक्केन समादियमाना मिच्छावायामूपत्थम्भिता अतंसभावं ‘‘तंसभाव’’न्ति गण्हन्ती मिच्छासतीति लद्धनामा तंलद्धिसहगता तण्हा सन्तिट्ठति. यथासकं वितक्कादिपच्चयलाभेन तस्मिं आरम्मणे अधिट्ठितताय अनेकग्गतं पहाय चित्तं एकग्गतं अप्पितं विय होति मिच्छासमाधिना. सोपि हि पच्चयविसेसेहि लद्धभावनाबलो ईदिसे ठाने समाधानपतिरूपकिच्चकरो होतियेव वालविज्झनादीसु वियाति दट्ठब्बं. तथा हि अनेकक्खत्तुं तेनाकारेन पुब्बभागियेसु जवनवारेसु पवत्तेसु सब्बपच्छिमे जवनवारे सत्त जवनानि जवन्ति. तत्थ पठमे सतेकिच्छो होति, तथा दुतियादीसु. सत्तमे पन जवने सम्पत्ते अतेकिच्छो होति. तेनाह ‘‘अस्सादेन्तस्सा’’तिआदि. इमेसुपीति द्वीसुपि ठानेसु.
पच्चुप्पन्नं वाति एत्थ इति-सद्दो आदिअत्थो. तेन ‘‘यदेतं अनागतं नाम, नयिदं अनागत’’न्तिआदिकं सङ्गण्हाति. तेपीति ते वस्सभञ्ञापि न मञ्ञिंसु लोकसमञ्ञाय अनतिक्कमनीयतो. तेनाह ‘‘अतीतं पना’’तिआदि. खन्धानं उपरि निरुळ्हा पण्णत्ति.
निरुत्तिपथसुत्तवण्णना निट्ठिता.
उपयवग्गवण्णना निट्ठिता.