४. दुतियअञ्ञतरभिक्खुसुत्तवण्णना

३६. तं अनुसयितं रूपन्ति तं रागादिना अनुसयितं रूपं मरन्तेन अनुसयेन अनुमरति. तेन वुत्तं ‘‘न ही’’तिआदि. येन अनुसयेन मरन्तेन तं अनुमरति. तेन सङ्खं गच्छतीति तथाभूततो तेन ‘‘रत्तो’’तिआदिवोहारं लभति. येन अनुसयेन कारणभूतेन अनुमीयति, तेन.

दुतियअञ्ञतरभिक्खुसुत्तवण्णना निट्ठिता.