५-६. आनन्दसुत्तादिवण्णना

३७-३८. ठितिया ठितिक्खणेन सहितं ठितं. ठितस्स अञ्ञथत्तन्ति उप्पादक्खणतो अञ्ञथाभावो. पञ्ञायतीति उपलब्भति. पच्चयवसेन धरमानत्ता एव जीवमानस्स जीवितिन्द्रियवसेन जरा पञ्ञायति उप्पादक्खणतो अञ्ञथत्तप्पत्तिया. वुत्तमेव अत्थं पाकटतरं कातुं ‘‘ठिती’’तिआदि वुत्तं. जीवि…पे… नामं. तथा हि अभिधम्मे (ध. स. १९) ‘‘आयु ठिती’’ति निद्दिट्ठं. अञ्ञथत्तन्ति जराय नामन्ति सम्बन्धो.

तीणि लक्खणानि होन्ति सङ्खतसभावलक्खणतो. यो कोचि रूपधम्मो वा अरूपधम्मो वा लोकियो वा लोकुत्तरो वा सङ्खारो. सङ्खारो, न लक्खणं उप्पादादिसभावत्ता. लक्खणं, न सङ्खारो उप्पादादिरहितत्ता. न च…पे… सक्का सङ्खारधम्मत्ता लक्खणस्स. नापि लक्खणं विना सङ्खारो पञ्ञापेतुं सक्का सङ्खारभावेन. तेनाह ‘‘लक्खणेना’’तिआदि. इदानि यथावुत्तमत्थं उपमाय विभावेतुं ‘‘यथा’’तिआदिमाह. तत्थ लक्खणन्ति काळरत्तसबलादिभावलक्खणं पाकटं होति ‘‘अयं असुकस्स गावी’’ति.

एवं सङ्खारोपि पञ्ञायति सभावतो उपधारेन्तस्स उप्पादलक्खणम्पि उप्पादावत्थाति कत्वा. कालसङ्खातोति उप्पज्जमानकालसङ्खातो. तस्स सङ्खारस्स. खणोपीति उप्पादक्खणोपि पञ्ञायति. उप्पादोपीति उप्पादलक्खणोपि. जरालक्खणन्ति उप्पन्नजीरणलक्खणं, तं ‘‘ठितस्स अञ्ञथत्त’’न्ति वुत्तं. ‘‘भङ्गक्खणे सङ्खारोपि तंलक्खणम्पि कालसङ्खातो तस्स खणोपि पञ्ञायती’’ति पाठो. केचि पन ‘‘जरापी’’ति पदम्पेत्थ पक्खिपन्ति. एवञ्च वदन्ति ‘‘न हि तस्मिं खणे तरुणो हुत्वा सङ्खारो भिज्जति, अथ खो जिय्यमानो महल्लको विय जिण्णो एव हुत्वा भिज्जती’’ति, भङ्गेनेव पन जरा अभिभुय्यति खणस्स अतिइत्तरभावतो न सक्का पञ्ञापेतुं ठितियाति तेसं अधिप्पायो. तानीति अरूपधम्मानं तीणि लक्खणानि. अत्थिक्खणन्ति अरूपधम्मविज्जमानक्खणं, उप्पादक्खणन्ति अधिप्पायो. सब्बधम्मानन्ति सब्बेसं रूपारूपधम्मानं ठितिया न भवितब्बं. तस्सेवाति तस्सा एव ठितिया. तमत्थन्ति जरालक्खणस्स पञ्ञापेतुं असक्कुणेय्यभावं. अञ्ञे पन ‘‘सन्ततिवसेन ठानं ठिती’’ति वदन्ति, तयिदं अकारणं अट्ठानं. यस्मा सुत्ते ‘‘ठितस्स अञ्ञथत्तं पञ्ञायती’’ति उप्पादवयेहि निब्बिसेसेन ठितिया जोतितत्ता. यं पनेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव. अपिच यथा धम्मस्स उप्पादावत्थाय भिन्ना भङ्गावत्था इच्छिता, अञ्ञथा उप्पज्जमानमेव भिज्जतीति आपज्जति, एवं भङ्गावत्थायपि भिन्ना भङ्गाभिमुखावत्था इच्छितब्बा. न हि अभङ्गाभिमुखो भिज्जति. न चेत्थ सक्का उप्पादाभिमुखावत्थं परिकप्पेतुं तदा तस्स अलद्धत्तलाभत्ता. अयं विसेसोति ठितिक्खणो नाम रूपधम्मानंयेव, न अरूपधम्मानन्ति अयं ईदिसो विसेसो. आचरियमति नाम तस्सेव आचरियस्स मति, सा सब्बदुब्बलाति आह ‘‘तस्मा’’तिआदि.

आनन्दसुत्तादिवण्णना निट्ठिता.