९. वासिजटसुत्तवण्णना

१०१. अत्थस्साति हितस्स. असाधिका ‘‘भावनानुयोगं अननुयुत्तस्सा’’ति अननुयुत्तस्स वुत्तत्ता. इतराति सुक्कपक्खउपमा. साधिका भावनायोगस्स अनुयुत्तत्ता. तञ्हि तस्स साधिका वेदितब्बा. सम्भावनत्थेति परमत्थसम्भावने. एवञ्हि कण्हपक्खेपि अपिसद्दग्गहणं समत्थितं होति. सम्भावनत्थेति वा परिकप्पनत्थेति अत्थो. सङ्खातब्बे अत्थे अनियमतो वुच्चमाने सङ्खातो अनियमत्थो वासद्दो वत्तब्बोति ‘‘अट्ठ वा’’तिआदि वुत्तं. ऊनाधिकानीति ऊनानिपि अधिकानिपि किञ्चापि होन्ति, एकंसो पन गहेतब्बोति ‘‘अट्ठ वा दस वा द्वादस वा’’ति वुत्तं. एवं वचनं सन्धाय ‘‘वचनसिलिट्ठताया’’तिआदि वुत्तं. पादनखसिखाहि अकोपनवसेन सम्मा अधिसयितानि. उतुन्ति उण्हउतुं कायुस्मावसेन. तेनाह ‘‘उस्मीकतानी’’ति. भावितानीति कुक्कुटवासनाय वासितानि. सम्माअधिसयनादितिविधकिरियाकरणेन इमं अप्पमादं कत्वा. सोत्थिना अभिनिब्भिज्जितुन्ति अनन्तरायेन ततो निक्खमितुं. इदानि तमत्थं विवरन्तो ‘‘ते ही’’तिआदिमाह. सयम्पीति अण्डानि. परिणामन्ति परिपक्कं बहिनिक्खमनयोग्गतं.

तन्ति ओपम्मसम्पटिपादनं. एवन्ति इदानि वुच्चमानाकारेन. अत्थेनाति उपमेय्यत्थेन. संसन्दित्वा सम्मा योजेत्वा. सम्पयुत्तधम्मवसेन ञाणस्स तिक्खादिभावो वेदितब्बो. ञाणस्स हि सभावतो सतिनेपक्कतो च तिक्खभावो, समाधिवसेन सूरभावो, सद्धावसेन विप्पसन्नभावो, वीरियवसेन परिणामभावो. परिणामकालोति बलवविपस्सनाकालो. वड्ढितकालोति वुट्ठानगामिनिविपस्सनाकालो. अनुलोमट्ठानस्स हि विपस्सना गहितगब्भा नाम तदा मग्गगब्भस्स गहितत्ता. तज्जातिकन्ति तस्स विपस्सनानुयोगस्स अनुरूपं. सत्थापि गाथाय अविज्जण्डकोसं पहरति भिन्दापेति.

ओलम्बकसङ्खातन्ति ओलम्बकसुत्तसङ्खातं. पलन्ति तस्स सुत्तस्स नामं. धारेत्वाति दारूनं हेय्यादिजाननत्थं उपनेत्वा. दारूनं गण्डं हरतीति पलगण्डोति एतेन पलेन गण्डहारो ‘‘पलगण्डो’’ति पच्छिमपदे उत्तरपदलोपेन निद्देसोति दस्सेति. गहणट्ठानेति हत्थेन गहेतब्बट्ठाने. सम्मदेव खेपीयन्ति एतेन कायदुच्चरितादीनीति सङ्खेपो, तेन. विपस्सनं अनुयुञ्जन्तस्स पुग्गलस्सेव दिवसे दिवसे आसवानं परिक्खयो इध ‘‘विपस्सनायानिसंसो’’ति अधिप्पेतो. हेमन्तिकेन करणभूतेन. भुम्मत्थे वा एतं करणवचनं, हेमन्तिकेति अत्थो. पटिप्पस्सम्भन्तीति पटिप्पस्सद्धफलानि होन्ति. तेनाह ‘‘पूतिकानि भवन्ती’’ति.

महासमुद्दो विय सासनं सभावगम्भीरभावतो. नावा विय योगावचरो महोघुत्तरणतो. परियादानं वियाति परितो अपरिपूरणं विय. खज्जमानानन्ति सङ्खादन्तेन विय उदकेन खेपियमानानं बन्धनानं. तनुभावोति परियुट्ठानुप्पत्तिया असमत्थताय दुब्बलभावो. विपस्सनाञाणपीतिपामोज्जेहीति विपस्सनाञाणसमुट्ठितेहि पीतिपामोज्जेहि. ओक्खायमाने पक्खायमानेति विविधपटिपत्तिया उक्खायमाने पटिसङ्खानुपस्सनाय पक्खायमाने. दुब्बलता दीपिता ‘‘अप्पकसिरेनेव संयोजनानि पटिप्पस्सम्भन्ति, पूतिकानि भवन्ती’’ति वुत्तत्ता.

वासिजटसुत्तवण्णना निट्ठिता.