१०. पुप्फवग्गो
१. नदीसुत्तवण्णना
९३. पब्बतेय्याति पब्बततो आगता. ततो एव ओहारिनी. तेनस्सा चण्डसोततं दस्सेति. दूरं गच्छतीति दूरङ्गमा. तेनस्सा महोघतं दस्सेति.
सोतेति वट्टसोते. चतूहि गाहेहीति ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिनयप्पवत्तेहि चतूहि गाहेहि. पलुज्जनत्ताति छिन्नत्ता. सोकादिब्यसनप्पत्तीति सोकादिअनत्थुप्पत्ति.
नदीसुत्तवण्णना निट्ठिता.
२. पुप्फसुत्तवण्णना
९४. विवदतीति विवादं करोति. वदन्तोति अयथासभावेन वदन्तो. विवदति धम्मताय विरुद्धं कत्वा वदति. लोकधम्मोति लुज्जनसभावधम्मो. को पन सोति आह ‘‘खन्धपञ्चक’’न्ति. तेनाह ‘‘तं ही’’तिआदि. कथं करोमीति केन पकारेनाहं बालं अजानन्तं करोमि. तेनाह ‘‘मय्हं ही’’तिआदि. तथा चाह ‘‘अक्खातो वो मया मग्गो’’तिआदि (ध. प. २७५). ‘‘तयो लोका कथिता’’ति वत्वा तं विवरितुं ‘‘नाहं, भिक्खवे’’तिआदिमाह.
पुप्फसुत्तवण्णना निट्ठिता.
३. फेणपिण्डूपमसुत्तवण्णना
९५. केनचि कारणेन युज्झित्वा गहेतुं न सक्काति अयुज्झा नाम. निवत्तनट्ठानेति उदकप्पवाहस्स निवत्तितट्ठाने.
अनुसोतागमनेति अनुसोतं आगमनहेतु, ‘‘अनुसोतागमनेना’’ति वा पाठो. अनुपुब्बेन पवड्ढित्वाति तत्थ तत्थ उट्ठितानं खुद्दकमहन्तानं फेणपिण्डानं संसग्गेन पकारतो वुद्धिं पत्वा. आवहेय्याति आनेत्वा वहेय्य. कारणेन उपपरिक्खेय्याति ञाणेन वीमंसेय्य. ‘‘सारो नाम किं भवेय्या’’ति वत्वा सब्बसो तदभावं दस्सेन्तो ‘‘विलीयित्वा विद्धंसेय्येवा’’ति आह. तेन रूपम्पि निस्सारताय भिज्जतेवाति दस्सेति. यथा हि अनिच्चताय असारतासिद्धि, एवं असारतायपि अनिच्चतासिद्धीति अनिच्चताय एव निच्चसारं थिरभावसारं धुवसारं सामीनिवासीकारकभूतस्स अत्तनो वसे पवत्तनम्पेत्थ नत्थीति आह ‘‘रूपम्पि…पे… निस्सारमेवा’’ति. सोति फेणपिण्डो. गहितोपि उपायेन तमत्थं न साधेति अनरहत्ता. अनेकसन्धिघटितो तथा तथा घटितो हुत्वा.
ब्याममत्तम्पि एतरहि मनुस्सानं वसेन. अवस्समेव भिज्जति तरङ्गब्भाहतं हुत्वा.
तस्मिं तस्मिं उदकबिन्दुम्हि पतिते. उदकतलन्ति उदकपिट्ठिं. अञ्ञतो पतन्तं उदकबिन्दुं. उदकजल्लन्ति सन्तानकं हुत्वा ठितं उदकमलं. तञ्हि संकड्ढित्वा ततो उदकं पुटं करोति, तस्मिं पुटे पुब्बुळसमञ्ञा. वत्थुन्ति चक्खादिवत्थुं. आरम्मणन्ति रूपादिआरम्मणं. किलेसजल्लन्ति पुरिमसिद्धं, पटिलब्भमानं वा किलेसमलं. फस्ससङ्घट्टनन्ति फस्ससमोधानं. पुब्बुळसदिसा मुहुत्तरमणीयताय. यस्मा घम्मकाले सूरियातपसन्तापाभिनिब्बत्तरस्मिजालनिपाते तादिसे भूमिपदेसे इतो चितो समुग्गतवातवेगसमुद्धटविरुळ्हसङ्खातेसु परिब्भमन्तेसु अणुपरमाणुतज्जारिप्पकारेसु भूतसङ्घातेसु मरीचिसमञ्ञा, तस्मा सब्बसो सारविरहिताति वुत्तं ‘‘सञ्ञापि असारकट्ठेन मरीचिसदिसा’’ति. यस्मा च पस्सन्तानं येभुय्येन उदकाकारेन खायति, तस्मा ‘‘गहेत्वा पिवितुं वा’’तिआदि वुत्तं. नीलादिअनुभवनत्थायाति नीलादिआरम्मणस्स अनुभवनत्थाय. फन्दतीति फन्दनाकारप्पत्ता विय होति अप्पहीनतण्हस्स पुग्गलस्स. विप्पलम्भेति अप्पहीनविपल्लासं पुग्गलं. तेनाह ‘‘इदं नीलक’’न्तिआदि. सञ्ञाविपल्लासतो हि चित्तविपल्लासो, ततो दिट्ठिविपल्लासोति. विप्पलम्भनेनाति विप्पकारवसेनेव आरम्मणस्स लम्भनेन. विप्पकारवसेन हि एतं लम्भनं, यदिदं अनुदकमेव उदकं कत्वा दस्सनं अनगरमेव नगरं कत्वा गन्धब्बनाटकादिदस्सनं.
कुक्कुकं वुच्चति कदलिक्खन्धस्स सब्बपत्तवट्टीनं अब्भन्तरे दण्डकन्ति आह ‘‘अकुक्कुकजातन्ति अन्तो असञ्जातघनदण्डक’’न्ति. न तथा होतीति यदत्थाय उपनीतं, तदत्थाय न होति. नानालक्खणोति नानासभावो. सङ्खारक्खन्धोवाति एको सङ्खारक्खन्धोत्वेव वुच्चति.
अस्साति पुरिसस्स. अपगतपटलपिळकन्ति अपगतपटलदोसञ्चेव अपगतपिळकदोसञ्च. असारभावदस्सनसमत्थन्ति असारस्स असारभावदस्सनसमत्थं. इत्तराति परित्तकाला, न चिरट्ठितिका. तेनाह ‘‘लहुपच्चुपट्ठाना’’ति. अञ्ञदेव च आगमनकाले चित्तन्ति इदञ्च ओळारिकवसेनेव वुत्तं. तथा हि एकच्छरक्खणे अनेककोटिसतसहस्ससङ्खानि चित्तानि उप्पज्जित्वा निरुज्झन्ति. मायाय दस्सितं रूपं मायाति वुत्तं. यंकिञ्चिदेव कपालिट्ठकपासाणवालिकादिं. वञ्चेतीति असुवण्णमेव सुवण्णन्ति, अमुत्तमेव मुत्तातिआदिना वञ्चेति. ननु च सञ्ञापि मरीचि विय विप्पलम्भेति वञ्चेति, इदम्पि विञ्ञाणं माया विय वञ्चेतीति को इमेसं विसेसोति? वचनत्थो नेसं साधारणो. तथापि सञ्ञा अनुदकंयेव उदकं कत्वा गाहापेन्ती, अपुरिसञ्ञेव पुरिसं कत्वा गाहापेन्ती विप्पलम्भनवसेन अप्पविसया, विञ्ञाणं पन यं किञ्चि अतंसभावं तं कत्वा दस्सेन्ती माया विय महाविसया. तेनाह ‘‘यंकिञ्चिदेवा’’तिआदि. एवम्पीति अतिविय लहुपरिवत्तिभावेनपि मायासदिसन्ति.
देसिताति एवं देसिता फेणपिण्डादिउपमाहि.
भूरि वुच्चति पथवी, सण्हट्ठेन विपुलट्ठेन च भूरिसदिसपञ्ञताय भूरिपञ्ञो. तेनाह ‘‘सण्हपञ्ञेन चेवा’’तिआदि. किमिगणादीनन्ति आदि-सद्देन अनेकगिज्झादिके सङ्गण्हाति. पवेणीति धम्मपबन्धो. बाललापिनी ‘‘अहं ममा’’तिआदिना. सेसधातुयो गहेत्वाव भिज्जति एकुप्पादेकनिरोधत्ता, वत्थुरूपनिस्सयपच्चयत्ता ‘‘अय’’न्ति न विसुं गहितं. वधभावतोति वधस्स मरणस्स अत्थिभावतो. सरणन्ति पटिसरणं.
फेणपिण्डूपमसुत्तवण्णना निट्ठिता.
४-६. गोमयपिण्डसुत्तादिवण्णना
९६-९८. सस्सतं सब्बकालं याव कप्पवुट्ठाना होन्तीति सस्सतियो, सिनेरुआदयो. ताहि समं समकालं. अनेनाति भगवता. नयिदन्ति एत्थ य-कारो पदसन्धिकरो, इदन्ति निपातपदं. तं पन येन येन सम्बन्धीयति, तं तिलिङ्गोव होतीति ‘‘अयं मग्गब्रह्मचरियवासो’’ति वुत्तं. ‘‘न पञ्ञायेय्या’’ति वत्वा तमत्थं विवरितुं ‘‘मग्गो ही’’तिआदि वुत्तं. विवट्टेन्तोति विनिवट्टेन्तो अप्पवत्तिं करोन्तो.
राजधानीति रञ्ञो निवासनगरं. सुत्तमयन्ति चित्तवण्णवट्टिकामयं.
गोमयपिण्डसुत्तादिवण्णना निट्ठिता.
७. गद्दुलबद्धसुत्तवण्णना
९९. यं महासमुद्दोति एत्थ यन्ति समयस्स पच्चामसनं. भुम्मत्थे चेतं पच्चत्तवचनन्ति आह ‘‘यस्मिं समये’’ति. सो च समयो अयन्ति दस्सेन्तो ‘‘पञ्चमे सूरिये उट्ठिते’’ति आह. परिच्छेदं न वदामि परिच्छेदकारिकाय अग्गमग्गविज्जाय अनधिगतत्ता. सुनखो विय वट्टनिस्सितो बालो असवसभावतो. गद्दुलो विय दिट्ठिबन्धो. सक्कायो तस्स असवसभावतो. पुथुज्जनस्स सक्कायानुपरिवत्तनन्ति ‘‘सन्ताने सत्तवोहारो’’ति तं ततो अञ्ञं कत्वा भेदेन निद्देसो.
गद्दुलबद्धसुत्तवण्णना निट्ठिता.
८. दुतियगद्दुलबद्धसुत्तवण्णना
१००. दिट्ठिगद्दुलनिस्सितायाति सहजातादिपच्चयवसेन दिट्ठिगद्दुलनिस्सिताय निस्सायेव पवत्तति ततो अत्तानं विवेचेतुं असक्कुणेय्यत्ता. चित्तसंकिलेसेनेवाति दसविधकिलेसवत्थुवसेन चित्तस्स संकिलिट्ठभावेन. अरियमग्गाधिगमनेन चित्तस्स वोदानत्ता वोदायन्ति विसुज्झन्ति.
विचरणचित्तन्ति गहेत्वा विचरणवसेन विचरणचित्तं. सङ्खानामाति एवंनामका. ब्राह्मणपासण्डिकाति जातिया ब्राह्मणा, छन्नवुतिया पासण्डेसु तं सङ्खासञ्ञितं पासण्डं पग्गय्ह विचरणका. पटकोट्ठकन्ति दुस्सापणकं. दस्सेन्ताति यथागतिकम्मविपाकचित्ततं दस्सेन्ता. तं चित्तन्ति तं पटकोट्ठकचित्तं गहेत्वा विचरन्ति. चिन्तेत्वा कतत्ताति ‘‘इमस्स रूपस्स एवं हत्थपादा, एवं मुखं लिखितब्बं, एवं आकारवत्थग्गहणानि, एवं किरियाविसेसा, एवं किरियाविभागं, सत्तविसेसानं विभागं कातब्ब’’न्ति तस्स उब्बत्तनखिपनपवत्तनादिपयोजनञ्चाति सब्बमेतं तथा चिन्तेत्वा कतत्ता चित्तेन मनसा चिन्तितं नाम. उपायपरियेसनचित्तन्ति ‘‘हत्थपादा एवं लिखितब्बा’’तिआदिना यथावुत्तउपायस्स चेव पुब्बे पवत्तस्स भूमिपरिकम्मवण्णधातुसम्मायोजनुपायस्स च वसेन पवत्तं चित्तं. ततोपि चित्ततरन्ति ततो चित्तकम्मतोपि चित्ततरं चित्तकारेन चिन्तितप्पकारानं सब्बेसंयेव चित्तकम्मे अनिप्फज्जनतो. कम्मचित्तेनाति कम्मविञ्ञाणेन. कम्मचित्तेनाति वा कम्मस्स चित्तभावेन. सो कम्मस्स विचित्तभावो तण्हावसेन जायतीति वेदितब्बो. स्वायमत्थो अट्ठसालिनीटीकायं विभावितो. एवं चित्ताति एवं चित्तरूपविसेसा. योनिं उपनेतीति तं तं अण्डजादिभेदं योनिविसेसं पापेति वण्णविसेसो विय फलिकमणिकं. न हि विसेसा हितविचित्तसामत्थियकम्मं योनिं उपनेति, तस्स तस्स विपाकुप्पत्तिया पच्चयो होति. योनिमूलको तेसं चित्तभावोति यं यं योनिं कम्मं सत्ते उपनेति, तंतंयोनिमूलको तेसं सत्तानं चित्तविचित्तभावो. तेनाह ‘‘योनिउपगता’’तिआदि. सदिसचित्ताव सदिसचित्तभावा एव. इतीतिआदि वुत्तस्सेव अत्थस्स उप्पटिपाटिया निगमनं.
तिरच्छानगतचित्तभावतो चित्तस्सेव सविसेसं चित्तभावकरणं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ चित्तं नामेतं चित्ततरमेव वेदितब्बन्ति सम्बन्धो. सहजातधम्मचित्ततायाति रागादिसद्धादिधम्मविचित्तभावेन. भूमिचित्ततायाति अधिट्ठानचित्तताय. कम्मनानत्तं मूलं कारणं एतेसन्ति कम्मनानत्तमूलका, तेसं. लिङ्गनानत्तं इत्थिलिङ्गादिनानत्तवसेन चेव तंतंसण्ठाननानत्तवसेन च वेदितब्बं. सञ्ञानानत्तं इत्थिपुरिसदेवमनुस्सादिसञ्ञानानत्तवसेन. वोहारनानत्तं तिस्सोतिआदिवोहारनानत्तवसेन. चित्तानं विचित्तानं. तंतंवोहारनानत्तम्पि चित्तेनेव पञ्ञपीयति. रङ्गजातरूपसमुट्ठापनादिना वत्थं रञ्जयतीति रजको, वण्णकारो. पुथुज्जनस्स अत्तभावसञ्ञितरूपसमुट्ठापनता नियता एकन्तिकाति पुथुज्जनग्गहणं. ‘‘अभिरूपं रूपं समुट्ठापेती’’ति आनेत्वा सम्बन्धो.
दुतियगद्दुलबद्धसुत्तवण्णना निट्ठिता.
९. वासिजटसुत्तवण्णना
१०१. अत्थस्साति हितस्स. असाधिका ‘‘भावनानुयोगं अननुयुत्तस्सा’’ति अननुयुत्तस्स वुत्तत्ता. इतराति सुक्कपक्खउपमा. साधिका भावनायोगस्स अनुयुत्तत्ता. तञ्हि तस्स साधिका वेदितब्बा. सम्भावनत्थेति परमत्थसम्भावने. एवञ्हि कण्हपक्खेपि अपिसद्दग्गहणं समत्थितं होति. सम्भावनत्थेति वा परिकप्पनत्थेति अत्थो. सङ्खातब्बे अत्थे अनियमतो वुच्चमाने सङ्खातो अनियमत्थो वासद्दो वत्तब्बोति ‘‘अट्ठ वा’’तिआदि वुत्तं. ऊनाधिकानीति ऊनानिपि अधिकानिपि किञ्चापि होन्ति, एकंसो पन गहेतब्बोति ‘‘अट्ठ वा दस वा द्वादस वा’’ति वुत्तं. एवं वचनं सन्धाय ‘‘वचनसिलिट्ठताया’’तिआदि वुत्तं. पादनखसिखाहि अकोपनवसेन सम्मा अधिसयितानि. उतुन्ति उण्हउतुं कायुस्मावसेन. तेनाह ‘‘उस्मीकतानी’’ति. भावितानीति कुक्कुटवासनाय वासितानि. सम्माअधिसयनादितिविधकिरियाकरणेन इमं अप्पमादं कत्वा. सोत्थिना अभिनिब्भिज्जितुन्ति अनन्तरायेन ततो निक्खमितुं. इदानि तमत्थं विवरन्तो ‘‘ते ही’’तिआदिमाह. सयम्पीति अण्डानि. परिणामन्ति परिपक्कं बहिनिक्खमनयोग्गतं.
तन्ति ओपम्मसम्पटिपादनं. एवन्ति इदानि वुच्चमानाकारेन. अत्थेनाति उपमेय्यत्थेन. संसन्दित्वा सम्मा योजेत्वा. सम्पयुत्तधम्मवसेन ञाणस्स तिक्खादिभावो वेदितब्बो. ञाणस्स हि सभावतो सतिनेपक्कतो च तिक्खभावो, समाधिवसेन सूरभावो, सद्धावसेन विप्पसन्नभावो, वीरियवसेन परिणामभावो. परिणामकालोति बलवविपस्सनाकालो. वड्ढितकालोति वुट्ठानगामिनिविपस्सनाकालो. अनुलोमट्ठानस्स हि विपस्सना गहितगब्भा नाम तदा मग्गगब्भस्स गहितत्ता. तज्जातिकन्ति तस्स विपस्सनानुयोगस्स अनुरूपं. सत्थापि गाथाय अविज्जण्डकोसं पहरति भिन्दापेति.
ओलम्बकसङ्खातन्ति ओलम्बकसुत्तसङ्खातं. पलन्ति तस्स सुत्तस्स नामं. धारेत्वाति दारूनं हेय्यादिजाननत्थं उपनेत्वा. दारूनं गण्डं हरतीति पलगण्डोति एतेन पलेन गण्डहारो ‘‘पलगण्डो’’ति पच्छिमपदे उत्तरपदलोपेन निद्देसोति दस्सेति. गहणट्ठानेति हत्थेन गहेतब्बट्ठाने. सम्मदेव खेपीयन्ति एतेन कायदुच्चरितादीनीति सङ्खेपो, तेन. विपस्सनं अनुयुञ्जन्तस्स पुग्गलस्सेव दिवसे दिवसे आसवानं परिक्खयो इध ‘‘विपस्सनायानिसंसो’’ति अधिप्पेतो. हेमन्तिकेन करणभूतेन. भुम्मत्थे वा एतं करणवचनं, हेमन्तिकेति अत्थो. पटिप्पस्सम्भन्तीति पटिप्पस्सद्धफलानि होन्ति. तेनाह ‘‘पूतिकानि भवन्ती’’ति.
महासमुद्दो विय सासनं सभावगम्भीरभावतो. नावा विय योगावचरो महोघुत्तरणतो. परियादानं वियाति परितो अपरिपूरणं विय. खज्जमानानन्ति सङ्खादन्तेन विय उदकेन खेपियमानानं बन्धनानं. तनुभावोति परियुट्ठानुप्पत्तिया असमत्थताय दुब्बलभावो. विपस्सनाञाणपीतिपामोज्जेहीति विपस्सनाञाणसमुट्ठितेहि पीतिपामोज्जेहि. ओक्खायमाने पक्खायमानेति विविधपटिपत्तिया उक्खायमाने पटिसङ्खानुपस्सनाय पक्खायमाने. दुब्बलता दीपिता ‘‘अप्पकसिरेनेव संयोजनानि पटिप्पस्सम्भन्ति, पूतिकानि भवन्ती’’ति वुत्तत्ता.
वासिजटसुत्तवण्णना निट्ठिता.
१०. अनिच्चसञ्ञासुत्तवण्णना
१०२. भावेन्तस्साति विपस्सनाय मग्गं भावेन्तस्स उप्पन्नसञ्ञा. तेनाह – ‘‘सब्बं कामरागं परियादियती’’तिआदि. सन्तानेत्वाति कसनट्ठानं सब्बसो वितनेत्वा पत्थरित्वा. किलेसाति उपक्किलेसप्पभेदा किलेसा. अनिच्चसञ्ञाञाणेनाति अनिच्चसञ्ञासहगतेन ञाणेन.
लायनन्ति लायनं विय नयनं विय निच्छोटनं विय च अनिच्चसञ्ञाञाणं. इमिना अत्थेनाति इमिना यथावुत्तेन पाळिया अत्थेन, उपमा संसन्देतब्बाति एत्थ पब्बजलायको विय योगावचरो. लायनादिना तस्स तत्थ कतकिच्चताय परितुट्ठि विय इमस्स किलेसे सब्बसो छिन्दित्वा फलसमापत्तिसुखेन कालस्स वीतिनामना.
कूटं गच्छन्तीति पारिमन्तेन कूटं गच्छन्ति. कूटं पविसनभावेनाति कूटच्छिद्दं अग्गेन पविसनवसेन. समोसरित्वाति छिद्दे अनुपविसनवसेन च आहच्च अवट्ठानेन च समोसरित्वा ठिता. कूटं विय अनिच्चसञ्ञा अनिच्चानुपस्सनावसेन अवट्ठानस्स मूलभावतो. गोपानसियो विय चतुभूमककुसला धम्मा अनिच्चसञ्ञामूलकत्ता. कूटं अग्गं सब्बगोपानसीनं तथाअधिट्ठानस्स पधानकारणत्ता. अनिच्चसञ्ञा अग्गाति एत्थापि एसेव नयो. अनिच्चसञ्ञा लोकियाति इदं अनिच्चसञ्ञानुपस्सनं सन्धाय वुत्तं. अनिच्चानुपस्सनामुखेन अधिगतअरियमग्गे उप्पन्नसञ्ञा अनिच्चसञ्ञाति वत्तब्बतं लभतीति ‘‘अनिच्चसञ्ञा, भिक्खवे, भाविता बहुलीकता सब्बं कामरागं परियादियती’’तिआदि वुत्तं. तथा हि धम्मसङ्गहे (ध. स. ३५७, ३६०) ‘‘यस्मिं समये लोकुत्तरं सञ्ञं भावेती’’तिआदिना सञ्ञापि उद्धटा. सब्बासु उपमासूति मूलसन्तानउपमादीसु पञ्चसु उपमासु. पुरिमाहीति कस्सकपब्बजलायनअम्बपिण्डिउपमाहि अनिच्चसञ्ञाय किच्चं वुत्तं मूलसन्तानकपदालनपब्बजलायनवण्टच्छेदनपदेसेन अनिच्चसञ्ञाय पटिपक्खपच्छेदनस्स दस्सितत्ता. पच्छिमाहि बलं दस्सितं पटिपक्खातिभावस्स जोतितत्ता.
अनिच्चसञ्ञासुत्तवण्णना निट्ठिता.
पुप्फवग्गवण्णना निट्ठिता.
मज्झिमपण्णासको समत्तो.