८. दुतियगद्दुलबद्धसुत्तवण्णना
१००. दिट्ठिगद्दुलनिस्सितायाति सहजातादिपच्चयवसेन दिट्ठिगद्दुलनिस्सिताय निस्सायेव पवत्तति ततो अत्तानं विवेचेतुं असक्कुणेय्यत्ता. चित्तसंकिलेसेनेवाति दसविधकिलेसवत्थुवसेन चित्तस्स संकिलिट्ठभावेन. अरियमग्गाधिगमनेन चित्तस्स वोदानत्ता वोदायन्ति विसुज्झन्ति.
विचरणचित्तन्ति गहेत्वा विचरणवसेन विचरणचित्तं. सङ्खानामाति एवंनामका. ब्राह्मणपासण्डिकाति जातिया ब्राह्मणा, छन्नवुतिया पासण्डेसु तं सङ्खासञ्ञितं पासण्डं पग्गय्ह विचरणका. पटकोट्ठकन्ति दुस्सापणकं. दस्सेन्ताति यथागतिकम्मविपाकचित्ततं दस्सेन्ता. तं चित्तन्ति तं पटकोट्ठकचित्तं गहेत्वा विचरन्ति. चिन्तेत्वा कतत्ताति ‘‘इमस्स रूपस्स एवं हत्थपादा, एवं मुखं लिखितब्बं, एवं आकारवत्थग्गहणानि, एवं किरियाविसेसा, एवं किरियाविभागं, सत्तविसेसानं विभागं कातब्ब’’न्ति तस्स उब्बत्तनखिपनपवत्तनादिपयोजनञ्चाति सब्बमेतं तथा चिन्तेत्वा कतत्ता चित्तेन मनसा चिन्तितं नाम. उपायपरियेसनचित्तन्ति ‘‘हत्थपादा एवं लिखितब्बा’’तिआदिना यथावुत्तउपायस्स चेव पुब्बे पवत्तस्स भूमिपरिकम्मवण्णधातुसम्मायोजनुपायस्स च वसेन पवत्तं चित्तं. ततोपि चित्ततरन्ति ततो चित्तकम्मतोपि चित्ततरं चित्तकारेन चिन्तितप्पकारानं सब्बेसंयेव चित्तकम्मे अनिप्फज्जनतो. कम्मचित्तेनाति कम्मविञ्ञाणेन. कम्मचित्तेनाति वा कम्मस्स चित्तभावेन. सो कम्मस्स विचित्तभावो तण्हावसेन जायतीति वेदितब्बो. स्वायमत्थो अट्ठसालिनीटीकायं विभावितो. एवं चित्ताति एवं चित्तरूपविसेसा. योनिं उपनेतीति तं तं अण्डजादिभेदं योनिविसेसं पापेति वण्णविसेसो विय फलिकमणिकं. न हि विसेसा हितविचित्तसामत्थियकम्मं योनिं उपनेति, तस्स तस्स विपाकुप्पत्तिया पच्चयो होति. योनिमूलको तेसं चित्तभावोति यं यं योनिं कम्मं सत्ते उपनेति, तंतंयोनिमूलको तेसं सत्तानं चित्तविचित्तभावो. तेनाह ‘‘योनिउपगता’’तिआदि. सदिसचित्ताव सदिसचित्तभावा एव. इतीतिआदि वुत्तस्सेव अत्थस्स उप्पटिपाटिया निगमनं.
तिरच्छानगतचित्तभावतो चित्तस्सेव सविसेसं चित्तभावकरणं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ चित्तं नामेतं चित्ततरमेव वेदितब्बन्ति सम्बन्धो. सहजातधम्मचित्ततायाति रागादिसद्धादिधम्मविचित्तभावेन. भूमिचित्ततायाति अधिट्ठानचित्तताय. कम्मनानत्तं मूलं कारणं एतेसन्ति कम्मनानत्तमूलका, तेसं. लिङ्गनानत्तं इत्थिलिङ्गादिनानत्तवसेन चेव तंतंसण्ठाननानत्तवसेन च वेदितब्बं. सञ्ञानानत्तं इत्थिपुरिसदेवमनुस्सादिसञ्ञानानत्तवसेन. वोहारनानत्तं तिस्सोतिआदिवोहारनानत्तवसेन. चित्तानं विचित्तानं. तंतंवोहारनानत्तम्पि चित्तेनेव पञ्ञपीयति. रङ्गजातरूपसमुट्ठापनादिना वत्थं रञ्जयतीति रजको, वण्णकारो. पुथुज्जनस्स अत्तभावसञ्ञितरूपसमुट्ठापनता नियता एकन्तिकाति पुथुज्जनग्गहणं. ‘‘अभिरूपं रूपं समुट्ठापेती’’ति आनेत्वा सम्बन्धो.
दुतियगद्दुलबद्धसुत्तवण्णना निट्ठिता.