३. फेणपिण्डूपमसुत्तवण्णना

९५. केनचि कारणेन युज्झित्वा गहेतुं न सक्काति अयुज्झा नाम. निवत्तनट्ठानेति उदकप्पवाहस्स निवत्तितट्ठाने.

अनुसोतागमनेति अनुसोतं आगमनहेतु, ‘‘अनुसोतागमनेना’’ति वा पाठो. अनुपुब्बेन पवड्ढित्वाति तत्थ तत्थ उट्ठितानं खुद्दकमहन्तानं फेणपिण्डानं संसग्गेन पकारतो वुद्धिं पत्वा. आवहेय्याति आनेत्वा वहेय्य. कारणेन उपपरिक्खेय्याति ञाणेन वीमंसेय्य. ‘‘सारो नाम किं भवेय्या’’ति वत्वा सब्बसो तदभावं दस्सेन्तो ‘‘विलीयित्वा विद्धंसेय्येवा’’ति आह. तेन रूपम्पि निस्सारताय भिज्जतेवाति दस्सेति. यथा हि अनिच्चताय असारतासिद्धि, एवं असारतायपि अनिच्चतासिद्धीति अनिच्चताय एव निच्चसारं थिरभावसारं धुवसारं सामीनिवासीकारकभूतस्स अत्तनो वसे पवत्तनम्पेत्थ नत्थीति आह ‘‘रूपम्पि…पे… निस्सारमेवा’’ति. सोति फेणपिण्डो. गहितोपि उपायेन तमत्थं न साधेति अनरहत्ता. अनेकसन्धिघटितो तथा तथा घटितो हुत्वा.

ब्याममत्तम्पि एतरहि मनुस्सानं वसेन. अवस्समेव भिज्जति तरङ्गब्भाहतं हुत्वा.

तस्मिं तस्मिं उदकबिन्दुम्हि पतिते. उदकतलन्ति उदकपिट्ठिं. अञ्ञतो पतन्तं उदकबिन्दुं. उदकजल्लन्ति सन्तानकं हुत्वा ठितं उदकमलं. तञ्हि संकड्ढित्वा ततो उदकं पुटं करोति, तस्मिं पुटे पुब्बुळसमञ्ञा. वत्थुन्ति चक्खादिवत्थुं. आरम्मणन्ति रूपादिआरम्मणं. किलेसजल्लन्ति पुरिमसिद्धं, पटिलब्भमानं वा किलेसमलं. फस्ससङ्घट्टनन्ति फस्ससमोधानं. पुब्बुळसदिसा मुहुत्तरमणीयताय. यस्मा घम्मकाले सूरियातपसन्तापाभिनिब्बत्तरस्मिजालनिपाते तादिसे भूमिपदेसे इतो चितो समुग्गतवातवेगसमुद्धटविरुळ्हसङ्खातेसु परिब्भमन्तेसु अणुपरमाणुतज्जारिप्पकारेसु भूतसङ्घातेसु मरीचिसमञ्ञा, तस्मा सब्बसो सारविरहिताति वुत्तं ‘‘सञ्ञापि असारकट्ठेन मरीचिसदिसा’’ति. यस्मा च पस्सन्तानं येभुय्येन उदकाकारेन खायति, तस्मा ‘‘गहेत्वा पिवितुं वा’’तिआदि वुत्तं. नीलादिअनुभवनत्थायाति नीलादिआरम्मणस्स अनुभवनत्थाय. फन्दतीति फन्दनाकारप्पत्ता विय होति अप्पहीनतण्हस्स पुग्गलस्स. विप्पलम्भेति अप्पहीनविपल्लासं पुग्गलं. तेनाह ‘‘इदं नीलक’’न्तिआदि. सञ्ञाविपल्लासतो हि चित्तविपल्लासो, ततो दिट्ठिविपल्लासोति. विप्पलम्भनेनाति विप्पकारवसेनेव आरम्मणस्स लम्भनेन. विप्पकारवसेन हि एतं लम्भनं, यदिदं अनुदकमेव उदकं कत्वा दस्सनं अनगरमेव नगरं कत्वा गन्धब्बनाटकादिदस्सनं.

कुक्कुकं वुच्चति कदलिक्खन्धस्स सब्बपत्तवट्टीनं अब्भन्तरे दण्डकन्ति आह ‘‘अकुक्कुकजातन्ति अन्तो असञ्जातघनदण्डक’’न्ति. न तथा होतीति यदत्थाय उपनीतं, तदत्थाय न होति. नानालक्खणोति नानासभावो. सङ्खारक्खन्धोवाति एको सङ्खारक्खन्धोत्वेव वुच्चति.

अस्साति पुरिसस्स. अपगतपटलपिळकन्ति अपगतपटलदोसञ्चेव अपगतपिळकदोसञ्च. असारभावदस्सनसमत्थन्ति असारस्स असारभावदस्सनसमत्थं. इत्तराति परित्तकाला, न चिरट्ठितिका. तेनाह ‘‘लहुपच्चुपट्ठाना’’ति. अञ्ञदेव च आगमनकाले चित्तन्ति इदञ्च ओळारिकवसेनेव वुत्तं. तथा हि एकच्छरक्खणे अनेककोटिसतसहस्ससङ्खानि चित्तानि उप्पज्जित्वा निरुज्झन्ति. मायाय दस्सितं रूपं मायाति वुत्तं. यंकिञ्चिदेव कपालिट्ठकपासाणवालिकादिं. वञ्चेतीति असुवण्णमेव सुवण्णन्ति, अमुत्तमेव मुत्तातिआदिना वञ्चेति. ननु च सञ्ञापि मरीचि विय विप्पलम्भेति वञ्चेति, इदम्पि विञ्ञाणं माया विय वञ्चेतीति को इमेसं विसेसोति? वचनत्थो नेसं साधारणो. तथापि सञ्ञा अनुदकंयेव उदकं कत्वा गाहापेन्ती, अपुरिसञ्ञेव पुरिसं कत्वा गाहापेन्ती विप्पलम्भनवसेन अप्पविसया, विञ्ञाणं पन यं किञ्चि अतंसभावं तं कत्वा दस्सेन्ती माया विय महाविसया. तेनाह ‘‘यंकिञ्चिदेवा’’तिआदि. एवम्पीति अतिविय लहुपरिवत्तिभावेनपि मायासदिसन्ति.

देसिताति एवं देसिता फेणपिण्डादिउपमाहि.

भूरि वुच्चति पथवी, सण्हट्ठेन विपुलट्ठेन च भूरिसदिसपञ्ञताय भूरिपञ्ञो. तेनाह ‘‘सण्हपञ्ञेन चेवा’’तिआदि. किमिगणादीनन्ति आदि-सद्देन अनेकगिज्झादिके सङ्गण्हाति. पवेणीति धम्मपबन्धो. बाललापिनी ‘‘अहं ममा’’तिआदिना. सेसधातुयो गहेत्वाव भिज्जति एकुप्पादेकनिरोधत्ता, वत्थुरूपनिस्सयपच्चयत्ता ‘‘अय’’न्ति न विसुं गहितं. वधभावतोति वधस्स मरणस्स अत्थिभावतो. सरणन्ति पटिसरणं.

फेणपिण्डूपमसुत्तवण्णना निट्ठिता.