३. पुत्तमंसूपमसुत्तवण्णना
६३. वुत्तनयमेवाति हेट्ठा आहारवग्गस्स पठमसुत्ते वुत्तनयमेव. लाभसक्कारेनाति लाभसक्कारसङ्खाताय अट्ठुप्पत्तियाति केचि. लाभसक्कारे वा अट्ठुप्पत्तियाति अपरे. यो हि लाभसक्कारनिमित्तं पच्चयेसु गेधेन भिक्खूनं अपच्चवेक्खितपरिभोगो जातो, तं अट्ठुप्पत्तिं कत्वा भगवा इमं देसनं निक्खिपि. यमकमहामेघोति हेट्ठा ओलम्बनउपरिउग्गमनवसेन सतपटलसहस्सपटलो युगळमहामेघो.
तिट्ठन्ति चेव भगवति कत्थचि निबद्धवासं वसन्ते, चारिकम्पि गच्छन्ते अनुबन्धन्ति च. भिक्खूनम्पि येभुय्येन कप्पसतसहस्सं ततो भिय्योपि पूरितदानपारमिसञ्चयत्ता तदा महालाभसक्कारो उप्पज्जतीति वुत्तं ‘‘एवं भिक्खुसङ्घस्सपी’’ति. सक्कतोति सक्कारप्पत्तो. गरुकतोति गरुकारप्पत्तो. मानितोति बहुमतो मनसा पियायितो च. पूजितोति मालादिपूजाय चेव चतुपच्चयाभिपूजाय च पूजितो. अपचितोति अपचायनप्पत्तो. यस्स हि चत्तारो पच्चये सक्कत्वा सुअभिसङ्खते पणीतपणीते उपनेन्ति, सो सक्कतो. यस्मिं गरुभावं पच्चुपट्ठपेत्वा देन्ति, सो गरुकतो. यं मनसा पियायन्ति बहुमञ्ञन्ति, सो बहुमतो. यस्स सब्बमेतं पूजावसेन करोन्ति, सो पूजितो. यस्स अभिवादनपच्चुट्ठानञ्जलिकम्मादिवसेन परमनिपच्चकारं करोन्ति, सो अपचितो. भगवति भिक्खुसङ्घे च लोको एवं पटिपन्नो. तेन वुत्तं ‘‘तेन खो पन समयेन…पे… परिक्खारान’’न्ति (उदा. १४; सं. नि. २.७०). लाभग्गयसग्गप्पत्तन्ति लाभस्स च यसस्स च अग्गं उक्कंसं पत्तं.
पठमाहारवण्णना
अस्साति भगवतो. धम्मसभावचिन्तावसेन पवत्तं सहोत्तप्पञाणं धम्मसंवेगो. धुवपटिसेवनट्ठानञ्हेतं सत्तानं, यदिदं आहारपरिभोगो, तस्मा न तत्थ अपच्चवेक्खणमत्तेन पाराजिकं पञ्ञपेतुं सक्काति अधिप्पायो. आहाराति ‘‘पच्चया’’तिआदिना पुब्बे आहारेसु वुत्तविधिं सन्धाय आह ‘‘आहारा’’तिआदि. इदानि तत्थ कत्तब्बं अत्थवण्णनं सन्धाय ‘‘हेट्ठा वुत्तत्थमेवा’’ति वुत्तं.
आदीनवन्ति दोसं. जायाति भरिया. पतीति भत्ता. अपेक्खासद्दा चेते पितापुत्तसद्दा विय, पाळियं पन आ-कारस्स रस्सत्तं सानुनासिकञ्च कत्वा वुत्तं ‘‘जायम्पतिका’’ति. सम्मा फलं वहतीति सम्बलं, सुखावहन्ति अत्थो. तथा हि तं ‘‘पथे हितन्ति पाथेय्य’’न्ति वुच्चति. मग्गस्स कन्तारपरियापन्नत्ता वुत्तं ‘‘कन्तारभूतं मग्ग’’न्ति. दुल्लभताय तं उदकं तत्थ तारेतीति कन्तारं, निरुदकं महावनं. रुळ्हीवसेन इतरम्पि महावनं तथा वुच्चतीति आह ‘‘चोरकन्तार’’न्तिआदि. परराजूनं वेरिआदीनञ्च वसेन सप्पटिभयम्पि अरञ्ञं एत्थेव सङ्गहं गच्छतीति वुत्तं ‘‘पञ्चविध’’न्ति.
घनघनट्ठानतोति मंसस्स बहलबहलं थूलथूलं हुत्वा ठितट्ठानतो. ‘‘तादिसञ्हि मंसं गहेत्वा सुक्खापितं वल्लूरं. सूले आवुनित्वा पक्कमंसं सूलमंसं. विरळच्छायायं निसीदिंसु गन्तुं असमत्थो हुत्वा. गोवतकुक्कुरवतदेवतायाचनादीहीति गोवतकुक्कुरवतादिवतचरणेहि चेव देवतायाचनादीहि पणिधिकम्मेहि च महन्तं दुक्खं अनुभूतं.
यस्मा पन सासने सम्मापटिपज्जन्तस्स भिक्खुनो आहारपरिभोगस्स ओपम्मभावेन तेसं जायम्पतिकानं पुत्तमंसपरिभोगो इध भगवता आनीतो, तस्मास्स नानाकारेहि ओपम्मत्तं विभावेतुं ‘‘तेसं सो पुत्तमंसाहारो’’तिआदि आरद्धं. तत्थ सजातिमंसतायाति समानजातिकमंसभावेन, मनुस्समंसभावेनाति अत्थो. मसुस्समंसञ्हि कुलप्पसुतमनुस्सानं अमनुञ्ञं होति अपरिचितभावतो गारय्हभावतो च, ततो एव ञातिआदिमंसतायातिआदि वुत्तं. तरुणमंसतायातिआदि पन सभावतो अनभिसङ्खारतो च अमनुञ्ञाति कत्वा वुत्तं. अधूपिततायाति अधूपितभावतो. मज्झत्तभावेयेव ठिता. ततो एव निच्छन्दरागपरिभोगे ठिताति वुत्तं कन्तारतो नित्थरणज्झासयताय. इदानि ये च ते अनपनीताहारो, न यावदत्थपरिभोगो विगतमच्छेरमलता सम्मोहाभावो आयतिं तत्थ पत्थनाभावो सन्निधिकाराभावो अपरिच्चजनमदत्थाभावो अहीळना अविवादपरिभोगो चाति उपमायं लब्भमाना पकारविसेसा, ते तथा नीहरित्वा उपमेय्ये योजेत्वा दस्सेतुं ‘‘न अट्ठिन्हारुचम्मनिस्सितट्ठानानी’’तिआदि वुत्तं. तं कारणन्ति तं तेसं जायम्पतीनं यावदेव कन्तारनित्थरणत्थाय पुत्तमंसपरिभोगसङ्खातं कारणं.
निस्सन्दपाटिकुल्यतं पच्चवेक्खन्तोपि कबळीकाराहारं परिवीमंसति. यथा ते जायम्पतिकातिआदिपि ओपम्मसंसन्दनं. ‘‘परिभुञ्जितब्बो आहारो’’ति पदं आनेत्वा सम्बन्धितब्बं. एस नयो इतो परेसुपि. अपटिक्खिपित्वाति अनपनेत्वा. वट्टकेन विय कुक्कुटेन विय चाति विसदिसूदाहरणं. ओधिं अदस्सेत्वाति महन्तग्गहणवसेन ओधिं अकत्वा. सीहेन वियाति सदिसूदाहरणं. सो किर सपदानमेव खादति.
अगधितअमुच्छितादिभावेन परिभुञ्जितब्बतो ‘‘अमच्छरायित्वा’’तिआदि वुत्तं. अब्भन्तरे अत्ता नाम अत्थीति दिट्ठि अत्तूपलद्धि, तंसहगतेन सम्मोहेन अत्ता आहारं परिभुञ्जतीति. सतिसम्पजञ्ञवसेनपीति ‘‘असिते पीते खायिते सायिते सम्पजानकारी होती’’ति एत्थ वुत्तसतिसम्पजञ्ञवसेनपि.
‘‘अहो वत मयं…पे… लभेय्य’’न्ति पत्थनं वा, ‘‘हिय्यो विय…पे… न लद्ध’’न्ति अनुसोचनं वा अकत्वाति योजना.
‘‘सन्निधिं न अकंसु, भूमियं वा निखणिंसु, अग्गिना वा झापयिंसू’’ति न-कारं आनेत्वा योजना. एवं सब्बत्थ.
पिण्डपातं वा अहीळेन्तेन दायकं वा अहीळेन्तेन परिभुञ्जितब्बोति योजना. स पत्तपाणीति सो पत्तहत्थो. नावजानियाति न अवजानिया. अतिमञ्ञतीति अतिक्कमित्वा मञ्ञति, अवजानातीति अत्थो.
‘‘तीहि परिञ्ञाहि परिञ्ञाते’’ति वत्वा ताहि कबळीकाराहारस्स परिजाननविधिं दस्सेन्तो ‘‘कथ’’न्तिआदिमाह. तत्थ सवत्थुकवसेनाति ससम्भारवसेन, सभावतो पन रूपाहरणं ओजमत्तं होति. इदञ्हि कबळीकाराहारस्स लक्खणं. कामं रसारम्मणं जिव्हापसादे पटिहञ्ञति, तेन पन अविनाभावतो सम्पत्तविसयगाहिताय च जिव्हापसादस्स ‘‘ओजट्ठमकरूपं कत्थ पटिहञ्ञती’’ति वुत्तं. तस्साति जिव्हापसादस्स. इमे धम्माति इमे यथावुत्तभूतुपादायधम्मा. तन्ति रूपखन्धं. परिग्गण्हतोति परिग्गण्हन्तस्स. उप्पन्ना फस्सपञ्चमका धम्माति सब्बेपि ये यथानिद्धारिता, तेहि सहप्पवत्ताव सब्बेपि इमे. सरसलक्खणतोति अत्तनो किच्चतो लक्खणतो च. तेसं नामरूपभावेन ववत्थपितानं पञ्चन्नं खन्धानं पच्चयो विञ्ञाणं. ‘‘तस्स सङ्खारा तेसं अविज्जा’’ति एवं उद्धं आरोहनवसेन पच्चयं. अधोओरोहनवसेन पन सळायतनादिके परियेसन्तो अनुलोमपटिलोमं पटिच्चसमुप्पादं पस्सति. सळायतनादयोपि हि रूपारूपधम्मानं यथारहं पच्चयभावेन ववत्थपेतब्बाति. याथावतो दिट्ठत्ताति ‘‘इदं रूपं, एत्तकं रूपं, न इतो भिय्यो, इदं नामं, एत्तकं नामं, न इतो भिय्यो’’ति च यथाभूतं दिट्ठत्ता. अनिच्चानुपस्सना, दुक्खानुपस्सना, अनत्तानुपस्सना, निब्बिदानुपस्सना, विरागानुपस्सना, निरोधानुपस्सना, पटिनिस्सग्गानुपस्सनाति इमासं सत्तन्नं अनुपस्सनानं वसेन. सोति कबळीकाराहारो. तिलक्खण…पे… सङ्खातायाति अनिच्चतादीनं तिण्णं लक्खणानं पटिविज्झनवसेन लक्खणवन्तसम्मसनवसेन च पवत्तञाणसङ्खाताय. परिञ्ञातो होति अनवसेसतो नामरूपस्स ञातत्ता तप्परियापन्नत्ता च आहारस्स. तेनाह ‘‘तस्मिं येवा’’तिआदि. छन्दरागावकड्ढनेनाति छन्दरागस्स पजहनेन.
पञ्च कामगुणा कारणभूता एतस्स अत्थीति पञ्चकामगुणिको. तेनाह ‘‘पञ्चकामगुणसम्भवो’’ति. एकिस्सा तण्हाय परिञ्ञा एकपरिञ्ञा. सब्बस्स पञ्चकामगुणिकस्स रागस्स परिञ्ञा, सब्बपरिञ्ञा. तदुभयस्सपि मूलभूतस्स आहारस्स परिञ्ञा मूलपरिञ्ञा. इदानि इमा तिस्सोपि परिञ्ञायो विभागेन दस्सेतुं ‘‘यो भिक्खू’’तिआदि आरद्धं. जिव्हाद्वारे एकरसतण्हं परिजानातीति जिव्हाय रसं सायित्वा इति पटिसञ्चिक्खति ‘‘यो यमेत्थ रसो, सो वत्थुकामवसेन ओजट्ठमकरूपं होति जिव्हायतनं पसादो. सो किं निस्सितो? चतुमहाभूतनिस्सितो. तंसहजातो वण्णो गन्धो रसो ओजा जीवितिन्द्रियन्ति इमे धम्मा रूपक्खन्धो नाम. यो तस्मिं रसे अस्सादो, अयं रसतण्हा. तंसहगता फस्सादयो धम्मा चत्तारो अरूपक्खन्धा’’तिआदिवसेन. सब्बं अट्ठकथायं आगतवसेन वेदितब्बं. तेनाह ‘‘तेन पञ्चकामगुणिको रागो परिञ्ञातोव होती’’ति. तत्थ तेनाति यो भिक्खु जिव्हाद्वारे रसतण्हं परिजानाति, तेन. कथं पन एकस्मिं द्वारे तण्हं परिजानतो पञ्चसु द्वारेसु रागो परिञ्ञातो होतीति आह ‘‘कस्मा’’तिआदि. तस्सायेवाति तण्हाय एव तण्हासामञ्ञतो एकत्तनयवसेन वुत्तं. तत्थाति पञ्चसु द्वारेसु. उप्पज्जनतोति रूपरागादिभावेन उप्पज्जनतो. लोभो एव हि तण्हायनट्ठेन ‘‘तण्हा’’तिपि, रज्जनट्ठेन ‘‘रागो’’तिपि वुच्चति. तेनाह ‘‘सायेव ही’’तिआदि. इदानि वुत्तमेवत्थं ‘‘यथा’’तिआदिना उपमाय सम्पिण्डेति. पञ्चमग्गे हनतोति पञ्चसु मग्गेसु सञ्चरित्तं करोन्तेन मग्गगामिनो हनन्तो ‘‘मग्गे हनतो’’ति वुत्तो.
सब्यञ्जने पिण्डपातसञ्ञिते भत्तसमूहे मनुञ्ञे रूपे रूपसद्दादयो लब्भन्ति, तत्थ पञ्चकामगुणरागस्स सम्भवं दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं. सतिसम्पजञ्ञेन परिग्गहेत्वाति सब्बभागियेन कम्मट्ठानपरिपालकेन परिग्गहेत्वा. निच्छन्दरागपरिभोगेनाति मग्गाधिगमसिद्धेन निच्छन्दरागपरिभोगेन परिभुत्ते. सोति कामगुणिको रागो.
तस्मिं सतीति कबळीकाराहारे सति. तस्साति पञ्चकामगुणिकरागस्स. उप्पत्तितोति उप्पज्जनतो. न हि आहारालाभेन जिघच्छादुब्बल्यपरेतस्स कामपरिभोगिच्छा सम्भवति. उपनिज्झानचित्तन्ति रागवसेन अञ्ञमञ्ञं ओलोकनचित्तं.
नत्थि तं संयोजनन्ति पञ्चविधम्पि उद्धम्भागियसंयोजनं सन्धाय वुत्तं. तेनाह ‘‘तेन रागेन…पे… नत्थी’’ति. तेनाति कामरागेन. एत्तकेनाति यथावुत्ताय देसनाय. कथेतुं वट्टतीति इमं पठमाहारकथं कथेन्तेन धम्मकथिकेन.
पठमाहारवण्णना निट्ठिता.
दुतियाहारवण्णना
दुतियेति दुतिये आहारे. उद्दालितचम्माति उप्पाटितचम्मा, सब्बसो अपनीतचम्माति अत्थो. न सक्कोति दुब्बलभावतो, तथा हि इत्थी ‘‘अबला’’ति वुच्चति. सिलाकुट्टादीनन्ति आदि-सद्देन इट्ठककुट्टमत्तिकाकुट्टादीनं सङ्गहो. उण्णनाभीति मक्कटकं. सरबूति घरगोळिका. उच्चालिङ्गपाणका नाम लोमसा पाणका. आकासनिस्सिताति आकासचारिनो. लुञ्चित्वाति उप्पाटेत्वा.
तिस्सो परिञ्ञाति हेट्ठा वुत्ता ञातपरिञ्ञादयो तिस्सो परिञ्ञा. तम्मूलकत्ताति फस्समूलकत्ता. देसना याव अरहत्ता कथिता सब्बसो वेदनासु परिञ्ञातासु किलेसानं लेसस्सपि अभावतो.
दुतियाहारवण्णना निट्ठिता.
ततियाहारवण्णना
अङ्गारकासुन्ति अङ्गाररासिं. फुणन्तीति अत्तनो उपरि सयमेव आकिरन्तीति अत्थो. तेनाह ‘‘नरा रुदन्ता परिदड्ढगत्ता’’ति. नराति पुरिसाति अत्थो, न मनुस्सा. भयञ्हि मं विन्दतीति भयस्स वसेन करोन्तो भयं लभति नाम. सन्तरमानोवाति सुट्ठु तरमानो एव हुत्वा. पोरिसं वुच्चति पुरिसप्पमाणं, तस्मा अतिरेकपोरिसा पुरिसप्पमाणतो अधिका. तेनाह ‘‘पञ्चरतनप्पमाणा’’ति. अस्साति कासुया. तदभावेति तेसं जालाधूमानं अभावे. आरकावस्साति आरका एव अस्स.
अङ्गारकासु विय तेभूमकवट्टं एकादसन्नं अग्गीनं वसेन महापरिळाहतो. जिवि…पे… पुथुज्जनो तेहि अग्गीहि दहितब्बतो. द्वे बल…पे… कम्मं अनिच्छन्तस्सेव तस्स वट्टदुक्खे पातनतो. आयूहनूपकड्ढनानं कालभेदो न चिन्तेतब्बो एकन्तभाविनो फलस्स निप्फादितत्ताति आह ‘‘कम्मं ही’’तिआदि.
फस्से वुत्तनयेनेवाति तत्थ ‘‘फस्सो सङ्खारक्खन्धो’’ति वुत्तं, इध ‘‘मनोसञ्चेतना सङ्खारक्खन्धो’’ति वत्तब्बं. सेसं वुत्तनयमेवाति. ‘‘तण्हापच्चया उपादानं, उपादानपच्चया भवो’’ति वचनतो मनोसञ्चेतनाय तण्हा मूलकारणन्ति आह ‘‘तण्हामूलकत्ता मनोसञ्चेतनाया’’ति. तेनाह ‘‘न ही’’तिआदि. केचि पन यस्मा मनोसञ्चेतनाय फलभूतं वेदनं पटिच्च तण्हा उप्पज्जति, तस्मा एवं वुत्तन्ति वदन्ति.
ततियाहारवण्णना निट्ठिता.
चतुत्थाहारवण्णना
अनिट्ठपापनवसेन तंसमङ्गीपुग्गलं आगच्छतीति आगु, पापं, तं चरति सीलेनाति आगुचारी. तेनाह ‘‘पापचारि’’न्ति.
राजा विय कम्मं परमिस्सरभावतो. आगुचारी पुरिसो विय…पे… पुथुज्जनो दुक्खवत्थुभावतो. आदिन्नप्पहारवणानि तीणि सत्तिसतानि विय पुथुज्जनस्स आतुरमानमहादुक्खपतिट्ठं पटिसन्धिविञ्ञाणं. तेनाह सत्ति…पे… दुक्खन्ति.
तम्मूलकत्ताति पटिसन्धिविञ्ञाणमूलकत्ता इतो परं पवत्तनामरूपस्स.
चतुत्थाहारवण्णना निट्ठिता.
पुत्तमंसूपमसुत्तवण्णना निट्ठिता.