२. दुतियअस्सुतवासुत्तवण्णना
६२. पच्चयभावेन सुखवेदनाय हितन्ति सुखवेदनियं. तेनाह ‘‘सुखवेदनाय पच्चय’’न्ति. पच्चयभावो च उपनिस्सयकोटिया, न सहजातकोटिया. तेनाह ‘‘ननु चा’’तिआदि. जवनवेदनायाति जवनचित्तसहगताय वेदनाय. तं सन्धायाति तं उपनिस्सयपच्चयतं सन्धाय. एतन्ति एतं ‘‘सुखवेदनाय पच्चय’’न्ति वचनं वुत्तं. एसेव नयोति इमिना ‘‘ननु च सोतसम्फस्सो सुखवेदनाय पच्चयो न होती’’ति एवमादिं अतिदिसति. सो सम्फस्सो जाति उप्पत्तिट्ठानं एतस्साति तज्जातिकं, वेदयितं. तं पन यस्मा तस्स फस्सस्स अनुच्छविकमेव होति, तस्मा तस्सारुप्पं तस्स फस्सस्स अनुरूपन्ति च अत्थो वुत्तो. वुत्तनयेनाति ‘‘सुखवेदनाय पच्चयो’’तिआदिना वुत्तविधिअनुसारेन. अधरारणियं उत्तरारणिया मन्तनवसेन घट्टनं इव सङ्घट्टनं फस्सेन युगग्गाहो, तस्स पन घट्टनस्स निरन्तरप्पवत्तिया पिण्डितभावो इध समोधानं, न केसञ्चि द्विन्नं तिण्णं वा सहावट्ठानन्ति वुत्तं ‘‘सङ्घट्टनसम्पिण्डनेनाति अत्थो’’ति. अग्गिचुण्णोति विप्फुलिङ्गं. वत्थूति चक्खादिवत्थु विसयसङ्घट्टनतो. लब्भमानोव धम्मो सङ्घट्टनं विय गय्हतीति वुत्तं ‘‘सङ्घट्टनं विय फस्सो’’ति. उस्माधातु विय वेदना दुक्खसभावत्ता.
दुतियअस्सुतवासुत्तवण्णना निट्ठिता.