१. अस्सुतवासुत्तवण्णना
६१. ‘‘अस्सुतवा’’ति सोतद्वारानुसारेन उपधारितं, उपधारणं वा सुतं अस्स अत्थीति सुतवा, तप्पटिक्खेपेन न सुतवाति अस्सुतवा. वा-सद्दो चायं पसंसायं, अतिसयस्स वा बोधनको, तस्मा यस्स पसंसितं, अतिसयेन वा सुतं अत्थि, सो ‘‘सुतवा’’ति संकिलेसविद्धंसनसमत्थो परियत्तिधम्मपरिचयो ‘‘तं सुत्वा तथत्ताय पटिपत्ति च सुतवा’’ति इमिना पदेन पकासितो. अथ वा सोतब्बयुत्तं सुत्वा कत्तब्बनिप्फत्तिं सुणीति सुतवा. तप्पटिक्खेपेन न सुतवाति अस्सुतवा. तेनाहु पोराणा ‘‘आगमाधिगमाभावा, ञेय्यो अस्सुतवा इती’’ति. तथा चाह ‘‘खन्धधातु…पे… विनिच्छयरहितो’’ति. तत्थ वाचुग्गतकरणं उग्गहो, तत्थ परिपुच्छनं परिपुच्छा, कुसलेहि सह चोदनापरिहरणवसेन विनिच्छयस्स कारणं विनिच्छयो. पुथूनन्ति बहूनं. किलेसादीनं किलेसाभिसङ्खारानं वित्थारेतब्बं पटिसम्भिदामग्गनिद्देसेसु (महानि. ५१, ९४) आगतनयेन. अन्धपुथुज्जनो गहितो ‘‘नालं निब्बिन्दितु’’न्तिआदिवचनतो. आसन्नपच्चक्खवाची इदं-सद्दोति आह ‘‘इमस्मिन्ति पच्चुप्पन्नपच्चक्खकायं दस्सेती’’ति. चतूसु महाभूतेसु नियुत्तोति चातुमहाभूतिको. यथा पन महामत्तिकाय निब्बत्तं मत्तिकामयं, एवमयं चतूहि महाभूतेहि निब्बत्तो ‘‘चतुमहाभूतमयो’’ति वुत्तं. निब्बिन्देय्याति निब्बिन्दनम्पि आपज्जेय्य. निब्बिन्दना नाम उक्कण्ठना अनभिरतिभावतोति वुत्तं ‘‘उक्कण्ठेय्या’’ति. विरज्जेय्याति वीतरागो भवेय्य. तेनाह ‘‘न रज्जेय्या’’ति. विमुच्चेय्याति इध पन अच्चन्ताय विमुच्चनं अधिप्पेतन्ति आह ‘‘मुच्चितुकामो भवेय्या’’ति. चतूहि च रूपजनकपच्चयेहि आगतो चयोति, आचयो, वुद्धि. चयतो अपक्कमोति अपचयो, परिहानि. आदानन्ति गहणं, पटिसन्धिया निब्बत्ति. भेदोति खन्धानं भेदो. सो हि कळेवरस्स निक्खेपोति वुत्तोति आह ‘‘निक्खेपनन्ति भेदो’’ति.
पञ्ञायन्तीति पकारतो ञायन्ति. रूपं परिग्गहेतुं परिग्गण्हनवसेनपि रूपं आलम्बितुं. अयुत्तरूपं कत्वा तण्हादीहि परिग्गहेतुं अरूपं परिग्गण्हितुं युत्तरूपं करोति तेसं भिक्खूनं सप्पायभावतो. तेनाह ‘‘कस्मा’’तिआदि. निक्कड्ढन्तोति ततो गाहतो नीहरन्तो.
मनायतनस्सेव नामं, न समाधिपञ्ञत्तीनं ‘‘चित्तं पञ्ञञ्च भावयं (सं. नि. १.२३, १९२; पेटको. २२; मि. प. १.९.९), चित्तो गहपती’’तिआदीसु (ध. प. अट्ठ. ७४) विय. चित्तीकातब्बभूतं वत्थु एतस्साति चित्तवत्थु, तस्स भावो चित्तवत्थुता, तेन कारणेन चित्तभावमाह. चित्तगोचरतायाति चित्तविचित्तविसयताय. सम्पयुत्तधम्मचित्ततायाति रागादिसद्धादिसम्पयुत्तधम्मवसेन चित्तसभावत्ता. तेन चित्तताय चित्तत्तमाह. विजाननट्ठेनाति बुज्झनट्ठेन. अज्झोसितन्ति अज्झोसाभूताय तण्हाय गहितं. तेनाह ‘‘तण्हाया’’तिआदि. परामसित्वाति धम्मसभावं अनिच्चतादिं अतिक्कमित्वा परतो निच्चादितो आमसित्वा. अट्ठसतन्ति अट्ठाधिकं सतं. नव मानाति सेय्यस्स ‘‘सेय्योहमस्मी’’तिआदिना आगता नवविधमाना. ब्रह्मजाले आगता सस्सतवादादयो द्वासट्ठिदिट्ठियो. एवन्ति वुत्ताकारेन. यस्मा तण्हामानदिट्ठिग्गाहवसेन पुथुज्जनेन दळ्हग्गाहं गहितं, तस्मा सो तत्थ निब्बिन्दितुं निब्बिदाञाणं उप्पादेतुं न समत्थो.
भिक्खवेति एत्थ इति-सद्दो आदिअत्थो, तेन ‘‘वर’’न्ति एवमादिकं सङ्गण्हाति. इदं अनुसन्धिवचनं ‘‘कस्मा आहा’’ति कथेतुकामताय कारणं पुच्छति. तेनाह ‘‘पठमं ही’’तिआदि. अस्सुतवता पुथुज्जनेन. तेनाति भगवता. अयुत्तरूपं कतं ‘‘निब्बिन्देय्या’’तिआदिना आदीनवस्स विभावितत्ता. अरूपे पन तथा आदीनवस्स अविभावितत्ता वुत्तं ‘‘अरूपं परिग्गहेतुं युत्तरूप’’न्ति, युत्तरूपं विय कतन्ति अधिप्पायो. गाहोति तण्हामानदिट्ठिग्गाहो. ‘‘निक्खमित्वा अरूपं गतो’’ति इदं भगवता आदीनवं दस्सेत्वा रूपे गाहो पटिक्खित्तो, न अरूपे, तस्मा ‘‘कातब्बो नु खो सो तत्था’’ति मिच्छागण्हन्तानं सो ततो रूपतो निक्खमित्वा अरूपं गतो विय होतीति कत्वा वुत्तं. तिट्ठमानन्ति तिट्ठन्तं. ‘‘आपज्जित्वा विय होती’’ति सभावेन पवत्तमानं ‘‘पठमवये’’तिआदिना रूपस्स भेदं वयादीहि विभजित्वा दस्सेति.
पादस्स उद्धरणेति यथा ठपितस्स पादस्स उक्खिपने. अतिहरणन्ति यथाउद्धतं यथाट्ठितट्ठानं अतिक्कमित्वा हरणं. वीतिहरणन्ति उद्धतो पादो यथाट्ठितं पादं यथा न घट्टेति, एवं थोकं पस्सतो परिणामेत्वा हरणं. वोस्सज्जनन्ति तथा परपादं वीतिसारेत्वा भूमियं निक्खिपनत्थं अवोस्सज्जनं. सन्निक्खेपनन्ति वोस्सज्जेत्वा भूमियं समं निक्खिपनं ठपनं. सन्निरुज्झनन्ति निक्खित्तस्स सब्बसो निरुज्झनं उप्पीळनं. तत्थ तत्थेवाति तस्मिं तस्मिं पठमवयादिके एव. अवधारणेन तेसं कोट्ठासन्तरसङ्कमनाभावमाह. ओधीति भावो, पब्बन्ति सन्धि. पठमवयादयो एव हेत्थ ओधि पब्बन्ति च अधिप्पेता. पटपटायन्ताति ‘‘पटपटा’’इति करोन्ता विय, तेन नेसं पवत्तिक्खणस्स इत्तरतं दस्सेति. एतन्ति एतं रूपधम्मानं यथावुत्तं तत्थ तत्थेव भिज्जनं एवं वुत्तप्पकारमेव. वट्टिप्पदेसन्ति वट्टिया पुलकं बरहं. तञ्हि वट्टिया पुलकं अनतिक्कमित्वाव सा दीपजाला भिज्जति. पवेणिसम्बन्धवसेनाति सन्ततिवसेन.
रत्तिन्ति रत्तियं. भुम्मत्थे हेतं उपयोगवचनं. एवं पन अत्थो न गहेतब्बो अनुप्पन्नस्स निरोधाभावतो. पुरिमपवेणितोति रूपे वुत्तपवेणितो. अनेकानि चित्तकोटिसतसहस्सानि उप्पज्जन्तीति वुत्तमत्थं थेरवादेन दीपेतुं ‘‘वुत्तम्पि चेत’’न्तिआदि वुत्तं. अड्ढचूळन्ति थोकेन ऊनं उपड्ढं, तस्स पन उपड्ढं अधिकारतो वाहसतस्साति विञ्ञायति. ‘‘अड्ढचुद्दस’’न्ति केचि, ‘‘अड्ढचतुत्थ’’न्ति अपरे. ‘‘साधिकं दियड्ढसतं वाहा’’ति दळ्हं कत्वा वदन्तीति वीमंसितब्बं. चतुनाळिको तुम्बो. महारञ्ञताय पवद्धं वनं पवनन्ति आह ‘‘पवनेति महावने’’ति. तन्ति पठमं गहितसाखं. अयमत्थोति अयं भूमिं अनोतरित्वा ठितसाखाय एव गहणसङ्खातो अत्थो. एतदत्थमेव हि भगवा ‘‘अरञ्ञे’’ति वत्वापि ‘‘पवने’’ति आह.
अरञ्ञमहावनं वियाति अरञ्ञट्ठाने ब्रहारञ्ञे विय. आरम्मणोलम्बनन्ति आरम्मणस्स अवलम्बनं. न वत्तब्बं आरम्मणपच्चयेन विना अनुप्पज्जनतो. एकजातियन्ति रूपादिनीलादिएकसभावं. ‘‘दिस्सति, भिक्खवे, इमस्स चातुमहाभूतिकस्स कायस्स आचयोपि अपचयोपी’’ति वदन्तेन रूपतो नीहरित्वा अरूपे गाहो पतिट्ठापितो नाम, ‘‘वरं, भिक्खवे, अस्सुतवा पुथुज्जनो’’तिआदिं वदन्तेन अरूपतो नीहरित्वा रूपे गाहो पतिट्ठापितो नाम.
नन्ति गाहं. उभयतोति रूपतो च अरूपतो च. हरिस्सामीति नीहरिस्सामि. परिवत्तेत्वाति मन्तं जप्पित्वा. कण्णे धुमेत्वाति कण्णे धमेत्वा. अस्साति विसस्स. निम्मथेत्वाति निम्मद्दित्वा, नीहरित्वाति अधिप्पायो.
मग्गोति लोकुत्तरमग्गो. ‘‘निब्बिन्द’’न्ति इमिना बलवविपस्सना कथिता.
अस्सुतवासुत्तवण्णना निट्ठिता.