३. ञाणवत्थुसुत्तवण्णना

३३. ञाणमेव ञाणवत्थु सम्पत्तीनं कारणभावतो. चतूसूति चतुसच्चस्स बोधनवसेन वुत्तेसु चतूसु ञाणेसु. पठमन्ति ‘‘जरामरणे ञाण’’न्ति एवं वुत्तं ञाणं, येन धारणपरिचयमनसिकारवसेन पवत्तं सब्बं गण्हि. सन्निचयञाणमयं सवनमयं नामत्वेव वेदितब्बं. सभावतो पच्चयतो चस्स परिग्गण्हनञाणं सम्मसनञाणंत्वेव वेदितब्बं. जरामरणसीसेन चेत्थ जरामरणवन्तोव धम्मा गहिता. पटिवेधञाणन्ति असम्मोहतो पटिविज्झनञाणं. इमिना धम्मेनाति हेतुम्हि करणवचनं. इमस्स हि धम्मस्स अधिगमहेतु अयं अरियो अतीतानागते नयेनपि चतुसच्चधम्मे अभिसम्बुज्झति. मग्गञाणमेव पन अतीतानागते नयनसदिसं कत्वा दस्सेतुं ‘‘मग्गञाणधम्मेन वा’’ति दुतियविकप्पो वुत्तो. एवञ्हि ‘‘अकालिक’’न्ति समत्थितं होति.

ञाणचक्खुना दिट्ठेनाति धम्मचक्खुभूतेन ञाणचक्खुना असम्मोहपटिवेधवसेन पच्चक्खतो दिट्ठेन. पञ्ञाय विदितेनाति मग्गपञ्ञाय तथेव विदितेन. यस्मा तथा दिट्ठं विदितं सब्बसो पत्तं महाउपायो होति, तस्मा वुत्तं ‘‘परियोगाळ्हेना’’ति. दिट्ठेनाति वा दस्सनेन, धम्मं पस्सित्वा ठितेनाति अत्थो. विदितेनाति चत्तारि सच्चानि विदित्वा पाकटानि कत्वा ठितेन. अकालिकेनाति न कालन्तरविपाकदायिना. पत्तेनाति चत्तारि सच्चानि पत्वा ठितत्ता धम्मं पत्तेन. परियोगाळ्हेनाति चतुसच्चधम्मे परियोगाहित्वा ठितेन. अतीतानागते नयं नेतीति अतीते च अनागते च नयं नेति हरति पेसेति. इदं पन पच्चवेक्खणञाणस्स किच्चं, सत्थारा पन मग्गञाणं अतीतानागते नयनसदिसं कतं तंमूलकत्ता. अतीतमग्गस्स हि पच्चवेक्खणं नाम होति, तस्मा मग्गञाणं नयनसदिसं कतं नाम होति, पच्चवेक्खणञाणेन पन नयं नेति. तेनाह ‘‘एत्थ चा’’तिआदि. यथा पन तेन नयं नेति. तं आकारं दस्सेतुं ‘‘ये खो केची’’तिआदि वुत्तं. एत्थ च नयनुप्पादनं नयञाणस्सेव पवत्तिविसेसो. तेन वुत्तं ‘‘पच्चवेक्खणञाणस्स किच्च’’न्ति. किञ्चापि ‘‘इमिनाति मग्गञाणधम्मेन वा’’ति वुत्तं, दुविधं पन मग्गफलञाणं सम्मसनञाणपच्चवेक्खणाय मूलकारणं, न नयनस्साति दुविधेन ञाणधम्मेनाति न न युज्जति. तथा चतुसच्चधम्मस्स ञातत्ता मग्गफलसङ्खातस्स वा धम्मस्स सच्चपटिवेधसम्पयोगं गतत्ता ‘‘नयनं होतू’’ति तेन ‘‘इमिना धम्मेना’’ति ञाणस्स विसयभावेन ञाणसम्पयोगेन तदञातेनाति च अत्थो न न युज्जति. अनुअयेति धम्मञाणस्स अनुरूपवसेन अये बुज्झनञाणे दिट्ठानं अदिट्ठानयनतो अदिट्ठस्स दिट्ठताय ञापनतो च. तेनाह ‘‘धम्मञाणस्स अनुगमने ञाण’’न्ति. खीणासवस्स सेक्खभूमि नाम अग्गमग्गक्खणो. कस्मा पनेतं एवं वुत्तन्ति चे? ‘‘एवं जरामरणं पजानाती’’तिआदिना वत्तमानवसेन देसनाय पवत्तत्ता.

ञाणवत्थुसुत्तवण्णना निट्ठिता.