४. कळारखत्तियवग्गो

१. भूतसुत्तवण्णना

३१. अजितमाणवेनाति सोळससु बावरियब्राह्मणपरिचारकेसु ‘‘अजितो’’ति लद्धनामेन माणवेन. सङ्खा वुच्चति पञ्ञा, सङ्खाता परिञ्ञाता धम्मा येसं ते सङ्खातधम्मा, पटिविद्धसच्चा खीणासवा. सेक्खा पन विपाकस्स अपरिञ्ञातत्ता ‘‘सङ्खातधम्मा’’ति न वुच्चन्ति. सेक्खधम्मसमन्नागमेन ते सेक्खा. ते पन कामं पुग्गलपटिलाभवसेन अनेकसहस्साव होन्ति, चतुमग्गहेट्ठिमफलत्तयस्स पन वसेन तंसमङ्गितासामञ्ञेन न सत्तजनतो उद्धन्ति आह ‘‘सत्त जने’’ति नियमेत्वा विसेसेति. संकिलेसवज्जं, ततो वा अत्तानं विय विनेय्यलोकं निपाति रक्खतीति निपको, तस्स भावो नेपक्कं, ञाणन्ति आह ‘‘नेपक्कं वुच्चति पञ्ञा, ताय समन्नागतत्ता निपको’’ति.

‘‘को नु खो इमस्स पञ्हस्स अत्थो’’ति चिन्तेन्तो पञ्हाय कङ्खति नाम. ‘‘कथं ब्याकरमानो नु खो सत्थु अज्झासयं न विरोधेमी’’ति चिन्तेन्तो अज्झासयं कङ्खति नाम. सुजाननीयत्थपरिच्छेदं कत्वा चिन्तना हेत्थ ‘‘कङ्खा’’ति अधिप्पेता, न विचिकिच्छाति. पहीनविचिकिच्छो हि महाथेरो आयस्मतो अस्सजिमहाथेरस्स सन्तिकेयेव, विचिननभूतं कुक्कुच्चसदिसं पनेतं वीमंसनमत्तन्ति दट्ठब्बं. पत्तं आदाय चरन्तोति पब्बजितभावलक्खणं. धम्मसेनापतिभावेन वा मम पत्तधम्मदेसनावारं आदाय चरन्तोति एवं वा एत्थ अत्थो दट्ठब्बो.

जातन्ति यथारहं पच्चयतो उप्पन्नं, सङ्खतन्ति अत्थो. पञ्हब्याकरणं उपट्ठासीति पञ्हस्स ब्याकरणता पटिभासि. ‘‘सम्मप्पञ्ञाय पस्सती’’ति पाठो, अट्ठकथायं पन ‘‘सम्मप्पञ्ञाय पस्सतो’’ति पदं उद्धरित्वा ‘‘पस्सन्तस्सा’’ति अत्थो वुत्तो. तं ‘‘भूतन्ति…पे… पटिपन्नो होती’’ति इमाय पाळिया न समेति, तस्मा यथादस्सितपाठो एव युत्तो. याव अरहत्तमग्गा निब्बिदादीनं अत्थायाति समितापेक्खधम्मवसा पदं वदन्ति. आहारसम्भवन्ति पच्चयहेतुकं. सेक्खपटिपदा कथिता ‘‘निब्बिदाय विरागाय निरोधाय पटिपन्नो होती’’ति वचनतो. एस नयो निरोधवारेपि. निब्बिदाति करणे पच्चत्तवचनं, विरागा निरोधाति करणे निस्सक्कवचनन्ति आह ‘‘सब्बानि कारणवचनानी’’ति. अनुपादाति अनुपादाय. भूतमिदन्तिआदिमाह सब्बसुत्तं आहच्चभासितं जिनवचनमेव करोन्तो.

भूतसुत्तवण्णना निट्ठिता.

२. कळारसुत्तवण्णना

३२. तस्स थेरस्स नामं जातिसमुदागतं. निवत्तोति पुब्बे वट्टसोतस्स पटिसोतं गन्तुं आरद्धो, तं अविसहन्तो अनुसोतमेव गच्छन्तो, ततो निवत्तो परिक्लेसविधमे असंसट्ठो वियुत्तो होति. एत्थ चेतनाति वा अस्सासो. हीनायावत्तनं नाम कामेसु सापेक्खताय, तत्थ च निरपेक्खता ततियमग्गाधिगमेनाति दस्सेन्तो ‘‘तयो मग्गे’’तिआदिमाह. सावकपारमीञाणं थेरस्स अरहत्ताधिगमेन निप्फन्नं, तस्मा तस्स तं उपरिमकोटिया अस्सासो वुत्तो. उग्घाटिताति विवटा, वूपसमिताति अत्थो. तत्थाति अरहत्तप्पत्तियं. विचिकिच्छाभावन्ति निब्बेमतिकतं.

न एवं ब्याकताति ‘‘खीणा जाती’’तिआदिका एवं उत्तानकं न ब्याकता, परियायेन पन ब्याकता. केनचीति केनचिपि कारणेन. एवं उत्तानकं ब्याकरिस्सति.

तस्स पच्चयस्स खयाति तस्स कम्मभवसङ्खातस्स पच्चयस्स अविज्जाय सहकारितायं सङ्गहितस्स खया अनुप्पादा निरोधा. खीणस्मिन्ति खीणे. अनुप्पादनिरोधेन निरुद्धे जातिया यथावुत्ते पच्चये. जातिसङ्खातं फलं खीणं अनुप्पत्तिधम्मतं आपादितन्ति. विदितं ञातं. आजानाति चतुसच्चं हेट्ठिममग्गेहि ञातं अनतिक्कमित्वाव पटिविज्झतीति अञ्ञा अग्गमग्गो. तदुपचारेन अग्गफलं इध ‘‘अञ्ञा’’ नाम. पच्चयोति भवूपपत्तिया पच्चयो पटिच्चसमुप्पादो.

मेति मया. अञ्ञासि आकारग्गहणेन चित्ताचारं जानाति. तेनाति भगवता. ब्याकरणं अनुमोदितं पञ्हब्याकरणस्स विसयकतभावतो.

अयमस्स विसयोति अयं वेदना अस्स सारिपुत्तत्थेरस्स सविसयो तत्थ विसयभावेन पवत्तत्ता. किञ्चापीति किञ्चापि सुखा वेदना ठितिसुखा दुक्खा वेदना विपरिणामसुखा, अदुक्खमसुखा वेदना ञाणसुखा. विपरिणामकोटियाति अनिच्चभावेन सब्बाव वेदना दुक्खा नाम. सुखपटिक्खेपतोपि हि सुखपीतिया फरणताय सुखाति तिक्खमत्तेन विपरिणामदुक्खाति विपरिणामतो अभावाधिगमेन सुखनिरोधक्खणमत्तेन. तथा हि वुत्तं पपञ्चसूदनियं ‘‘सुखाय वेदनाय अत्थिभावो सुख’’न्ति. सुखकामो दुक्खं तितिक्खति. अपरिञ्ञातवत्थुकानञ्हि सुखवेदनुपरमो दुक्खतो उपट्ठाति, तस्मायमत्थो वियोगेन दीपेतब्बो. ‘‘दुक्खा विपरिणामसुखा’’ति एत्थापि एसेव नयो. तथाचाह पपञ्चसूदनियं ‘‘दुक्खाय वेदनाय नत्थिभावो सुख’’न्ति. दुक्खवेदनुपरमो हि वुत्तानं सुखतो उपट्ठाति एवाति वदन्ति. तस्स योगस्स वूपसमेन ‘‘अहो सुखं जात’’न्ति मज्झत्तवेदनाय जाननभावो याथावतो अवबुज्झनं सुखं. अदुक्खमसुखापि वेदना विजानन्तस्स सुखं होति तस्स सुखुमताय विञ्ञेय्यभावतो. यथा रूपारूपधम्मानं सलक्खणतो सामञ्ञलक्खणतो च सम्मदेव अवबोधो परमं सुखं. तेनाह –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४);

अञ्ञाणदुक्खाति अजाननभावो अदुक्खमसुखावेदनाय दुक्खं. सम्मा विभागजाननसभावो ञाणस्स सम्भवो. ञाणसम्पयुत्ता हि ञाणूपनिस्सया अदुक्खमसुखा वेदना पसत्थाकारा, यतो सा इट्ठा चेव इट्ठफला चाति. अजाननभावोति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो. ‘‘दुक्खन्ति विदितो’’ति पाळि, अट्ठकथायं पन विदितन्ति पदुद्धारो कतो, तं अत्थदस्सनमत्तन्ति दट्ठब्बं.

वेदनापरिच्छेदजाननेति ‘‘तिस्सो इमा वेदना’’ति एवं परिच्छेदतो जानने. अञ्ञासीति कदा अञ्ञासि? इमस्मिं देसनाकालेति वदन्ति, पटिवेधकालेति पन युत्तं. यथापटिविद्धा हि वेदना इध थेरेन देसिताति. इमिना कारणेनाति ‘‘यदनिच्चं तं दुक्ख’’न्ति वेदनानं अनिच्चताय दुक्खभावजाननसङ्खातेन कारणेन. तंनिमित्तं हिस्स वेदनासु तण्हा न उप्पज्जति. अतिप्पपञ्चोति अतिवित्थारो. दुक्खस्मिं अन्तोगधं दुक्खपरियापन्नत्ता. दुक्खन्ति सब्बं वेदयितं दुक्खं सङ्खारदुक्खभावतो. ञातमत्तेति याथावतो अवबुज्झनमत्ते. तण्हा न तिट्ठतीति न सन्तिट्ठति नप्पवत्तति.

कथं विमोक्खाति अज्झत्तबहिद्धाभेदेसु विमुत्ता. हेतुम्हि चेतं निस्सक्कवचनन्ति हेतुअत्थेन करणवचनेन अत्थमाह ‘‘कतरेन विमोक्खेना’’ति. करणत्थेपि वा एतं निस्सक्कवचनन्ति तथा वुत्तं. अभिनिवेसोति विपस्सनारम्भो. बहिद्धाधम्मापि दट्ठब्बायेव सब्बस्सपि परिञ्ञेय्यस्स परिजानितब्बतो. ञाणं पवत्तेत्वा. तेति अज्झत्तसङ्खारे. ववत्थपेत्वाति सलक्खणतो परिच्छिन्दित्वा. बहिद्धा ओतारेतीति बहिद्धासङ्खारेसु ञाणं ओतारेति. अज्झत्तं ओतारेतीति अज्झत्तसङ्खारे सम्मसति. तत्र तस्मिं चतुक्के. तेसं ववत्थानकालेति तेसं अज्झत्तसङ्खारानं विपस्सनाकाले.

सब्बुपादानक्खयाति सब्बसो उपादानानं खया. कामं दिट्ठिसीलब्बतअत्तवादुपादानानि पठममग्गेनेव खीयन्ति, कामुपादानं पन अग्गमग्गेनाति तस्स वसेन ‘‘सब्बुपादानक्खया’’ति वदन्तो थेरो अत्तनो अरहत्तपत्तिं ब्याकरोति. तेनाह ‘‘आसवा नानुस्सवन्ती’’ति. सतोति इमिना सतिवेपुल्लप्पत्तिं दस्सेति. चक्खुतो रूपे सवन्तीति चक्खुविञ्ञाणवीथियं तदनुगतमनोविञ्ञाणवीथियञ्च रूपारम्मणा आसवा पवत्तन्तीति. किञ्चापि तत्थ कुसलादीनम्पि पवत्ति अत्थि, कामासवादयो एव वणतो यूसं विय पग्घरणकअसुचिभावेन सन्दन्ति, तथा सेसवारेसु. तेनाह ‘‘एव’’न्तिआदि, तस्मा ते एव ‘‘आसवा’’ति वुच्चन्ति. तत्थ हि पग्घरणकअसुचिम्हि निरुळ्हो आसवसद्दो. ‘‘अत्तानं नावजानामी’’ति वुत्तत्ता ‘‘ओमानपहानं कथित’’न्ति आह. तेन आसवेसु समुदायुपलक्खणं कथितन्ति दट्ठब्बं. न हि सेय्यमानादिप्पहानेन विना हीनमानंयेव पजहति. पजाननाति ‘‘नापरं इत्थत्ताया’’ति वुत्तपजाननसम्पन्नो होतीति.

सरूपभेदतोपीति ‘‘चत्तारो’’ति एवं परिमाणपरिच्छेदतोपि. इदं भगवा दस्सेन्तो आहाति सम्बन्धो. इदन्ति च ‘‘अयम्पि खो’’तिआदिवचनं सन्धायाह.

असम्भिन्नाय एवाति यथानिसिन्नाय एव, अवुट्ठिताय एवाति अत्थो. पुग्गलथोमनत्थन्ति देसनाकुसलानं आनन्दत्थेरादीनं पुग्गलानं पसंसनत्थं उक्कंसनत्थं. धम्मथोमनत्थन्ति पटिपत्तिधम्मस्स पसंसनत्थं. तेपीति आनन्दत्थेरादयो भिक्खूपि. धम्मपटिग्गाहका भिक्खू. अत्थेति सीलादिअत्थे. धम्मेति पाळिधम्मे.

अस्साति भगवतो. आनुभावं करिस्सति ‘‘दिवसञ्चेपि भगवा’’तिआदिना. नन्ति सारिपुत्तत्थेरं. अहम्पि तथेव थोमेस्सामि ‘‘सा हि भिक्खू’’तिआदिना. एवं चिन्तेसीति एवं वक्खमानेन धम्मदायाददेसनाय चिन्तिताकारेन चिन्तेसि. तेनाह ‘‘यथा’’तिआदि. एकज्झासयायाति समानाधिप्पायाय. मतियाति पञ्ञाय. अयं देसना अग्गाति भगवा धम्मसेनापतिं गुणतो एवं पग्गण्हातीति कत्वा वुत्तं.

पकासेत्वाति गुणतो पाकटं पञ्ञातं कत्वा सब्बसावकेहि सेट्ठभावे ठपेतुकामो. चित्तगतिया चित्तवसेन कायस्स परिणामनेन ‘‘अयं कायो इदं चित्तं विय होतू’’ति कायसमानगतिकत्ताधिट्ठानेन. कथं पन कायो दन्धप्पवत्तिको लहुपरिवत्तेन चित्तेन समानगतिको होतीति? न सब्बथा समानगतिको. यथेव हि कायवसेन चित्तविपरिणामने चित्तं सब्बथा कायेन समानगतिकं होति. न हि तदा चित्तं सभावसिद्धेन अत्तनो खणेन अवत्तित्वा दन्धवुत्तिकस्स रूपधम्मस्स खणेन वत्तितुं सक्कोति, ‘‘इदं चित्तं अयं कायो विय होतू’’ति पनाधिट्ठानेन दन्धगतिकस्स कायस्स अनुवत्तनतो याव इच्छितट्ठानप्पत्ति होति, ताव कायगतिअनुलोमेनेव हुत्वा सन्तानवसेन पवत्तमानं चित्तं कायगतिया परिणामितं नाम होति, एवं ‘‘अयं कायो इदं चित्तं विय होतू’’ति अधिट्ठानेन पगेव सुखलहुसञ्ञाय सम्पादितत्ता अभावितिद्धिपादानं विय दन्धं अवत्तित्वा यथा लहुकतिपयचित्तवारेहेव इच्छितट्ठानप्पति होति, एवं पवत्तरूपता विञ्ञायतीति.

अधिप्पायानुरूपमेव तस्स भगवतो थोमनाय कतत्ता. इदं नाम अत्थजातं भगवा पुच्छिस्सतीति पुब्बे मया अविदितं अपस्सं. आसयजाननत्थन्ति ‘‘एवं ब्याकरोन्तेन सत्थु अज्झासयो गहितो होती’’ति एवं सत्थु अज्झासयजाननत्थं. दुतियं पञ्हं पुच्छन्तो भगवा पठमं पञ्हं अनुमोदि दुतियं पञ्हं पुच्छन्तेनेव पठमपञ्हविस्सज्जनस्स सम्पटिच्छितभावतो.

एतं अहोसीति एतं परिवितक्कनं अहोसि. अस्साति कळारखत्तियस्स भिक्खुनो. धम्मे दहतीति धम्मधातु, सावकपारमीञाणं, सावकविसये धम्मे दहति याथावतो अजिते कत्वा ठपेतीति अत्थो. तेनाह ‘‘धम्मधातू’’तिआदि. सब्बञ्ञुतञ्ञाणगतिकमेव विसये. गोचरधम्मेति गोचरभूते ञेय्यधम्मे.

कळारसुत्तवण्णना निट्ठिता.

३. ञाणवत्थुसुत्तवण्णना

३३. ञाणमेव ञाणवत्थु सम्पत्तीनं कारणभावतो. चतूसूति चतुसच्चस्स बोधनवसेन वुत्तेसु चतूसु ञाणेसु. पठमन्ति ‘‘जरामरणे ञाण’’न्ति एवं वुत्तं ञाणं, येन धारणपरिचयमनसिकारवसेन पवत्तं सब्बं गण्हि. सन्निचयञाणमयं सवनमयं नामत्वेव वेदितब्बं. सभावतो पच्चयतो चस्स परिग्गण्हनञाणं सम्मसनञाणंत्वेव वेदितब्बं. जरामरणसीसेन चेत्थ जरामरणवन्तोव धम्मा गहिता. पटिवेधञाणन्ति असम्मोहतो पटिविज्झनञाणं. इमिना धम्मेनाति हेतुम्हि करणवचनं. इमस्स हि धम्मस्स अधिगमहेतु अयं अरियो अतीतानागते नयेनपि चतुसच्चधम्मे अभिसम्बुज्झति. मग्गञाणमेव पन अतीतानागते नयनसदिसं कत्वा दस्सेतुं ‘‘मग्गञाणधम्मेन वा’’ति दुतियविकप्पो वुत्तो. एवञ्हि ‘‘अकालिक’’न्ति समत्थितं होति.

ञाणचक्खुना दिट्ठेनाति धम्मचक्खुभूतेन ञाणचक्खुना असम्मोहपटिवेधवसेन पच्चक्खतो दिट्ठेन. पञ्ञाय विदितेनाति मग्गपञ्ञाय तथेव विदितेन. यस्मा तथा दिट्ठं विदितं सब्बसो पत्तं महाउपायो होति, तस्मा वुत्तं ‘‘परियोगाळ्हेना’’ति. दिट्ठेनाति वा दस्सनेन, धम्मं पस्सित्वा ठितेनाति अत्थो. विदितेनाति चत्तारि सच्चानि विदित्वा पाकटानि कत्वा ठितेन. अकालिकेनाति न कालन्तरविपाकदायिना. पत्तेनाति चत्तारि सच्चानि पत्वा ठितत्ता धम्मं पत्तेन. परियोगाळ्हेनाति चतुसच्चधम्मे परियोगाहित्वा ठितेन. अतीतानागते नयं नेतीति अतीते च अनागते च नयं नेति हरति पेसेति. इदं पन पच्चवेक्खणञाणस्स किच्चं, सत्थारा पन मग्गञाणं अतीतानागते नयनसदिसं कतं तंमूलकत्ता. अतीतमग्गस्स हि पच्चवेक्खणं नाम होति, तस्मा मग्गञाणं नयनसदिसं कतं नाम होति, पच्चवेक्खणञाणेन पन नयं नेति. तेनाह ‘‘एत्थ चा’’तिआदि. यथा पन तेन नयं नेति. तं आकारं दस्सेतुं ‘‘ये खो केची’’तिआदि वुत्तं. एत्थ च नयनुप्पादनं नयञाणस्सेव पवत्तिविसेसो. तेन वुत्तं ‘‘पच्चवेक्खणञाणस्स किच्च’’न्ति. किञ्चापि ‘‘इमिनाति मग्गञाणधम्मेन वा’’ति वुत्तं, दुविधं पन मग्गफलञाणं सम्मसनञाणपच्चवेक्खणाय मूलकारणं, न नयनस्साति दुविधेन ञाणधम्मेनाति न न युज्जति. तथा चतुसच्चधम्मस्स ञातत्ता मग्गफलसङ्खातस्स वा धम्मस्स सच्चपटिवेधसम्पयोगं गतत्ता ‘‘नयनं होतू’’ति तेन ‘‘इमिना धम्मेना’’ति ञाणस्स विसयभावेन ञाणसम्पयोगेन तदञातेनाति च अत्थो न न युज्जति. अनुअयेति धम्मञाणस्स अनुरूपवसेन अये बुज्झनञाणे दिट्ठानं अदिट्ठानयनतो अदिट्ठस्स दिट्ठताय ञापनतो च. तेनाह ‘‘धम्मञाणस्स अनुगमने ञाण’’न्ति. खीणासवस्स सेक्खभूमि नाम अग्गमग्गक्खणो. कस्मा पनेतं एवं वुत्तन्ति चे? ‘‘एवं जरामरणं पजानाती’’तिआदिना वत्तमानवसेन देसनाय पवत्तत्ता.

ञाणवत्थुसुत्तवण्णना निट्ठिता.

४. दुतियञाणवत्थुसुत्तवण्णना

३४. सत्तरीति त-कारस्स र-कारादेसं वुत्तं. सत्ततिसद्देन वा समानत्थो सत्तरिसद्दो. ब्यञ्जनरुचिवसेन ब्यञ्जनं भणन्तीति ब्यञ्जनभाणका. तेनाह ‘‘बहुब्यञ्जनं कत्वा’’तिआदि. तिट्ठति तत्थ फलं तदायत्तवुत्तितायाति ठिति, पच्चुप्पन्नलक्खणस्स धम्मस्स ठिति धम्मट्ठिति. अथ वा धम्मोति कारणं, पच्चयोति अत्थो. धम्मस्स यो ठितिसभावो, सोव धम्मतो अञ्ञो नत्थीति धम्मट्ठिति, पच्चयो. तत्थ ञाणं धम्मट्ठितिञाणं. तेनाह आयस्मा धम्मसेनापति – ‘‘पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाण’’न्ति (पटि. म. मातिका ४). तथा चाह ‘‘पच्चयाकारे ञाण’’न्तिआदि. तत्थ धम्मानन्ति पच्चयुप्पन्नधम्मानं. पवत्तिट्ठितिकारणत्ताति पवत्तिसङ्खाताय ठितिया कारणत्ता. ‘‘जातिपच्चया जरामरण’’न्तिआदिना अद्धत्तये अन्वयब्यतिरेकवसेन पवत्तिया छब्बिधस्स ञाणस्स. खयो नाम विनासो, सोव भेदोति. विरज्जनं पलुज्जनं. निरुज्झनं अन्तरधानं. एकेकस्मिन्ति जरामरणादीसु एकेकस्मिं. पुब्बे ‘‘यथाभूतञाण’’न्ति तरुणविपस्सनं आह. तस्मा इधापि धम्मट्ठितिञाणं विपस्सनाति गहेत्वा ‘‘विपस्सनापटिविपस्सना कथिता’’ति वुत्तं.

दुतियञाणवत्थुसुत्तवण्णना निट्ठिता.

५. अविज्जापच्चयसुत्तवण्णना

३५. देसनं ओसापेसीति यथारद्धकथं ठपेसि. तत्थ निसिन्नस्स दिट्ठिगतिकस्स लद्धिया भिन्दनवसेन उपरि कथेतुकामो. बुद्धानञ्हि देसनावारं पच्छिन्दापेत्वा पुच्छितुं समत्थो नाम कोचि नत्थि. तेनाह ‘‘दिट्ठिगतिकस्स ओकासदानत्थ’’न्ति. दुप्पञ्हो एसो सत्तूपलद्धिया पुच्छितत्ता. सत्तूपलद्धिवादपदेनाति ‘‘सत्तो जीवो उपलब्भती’’ति एवं पवत्तदिट्ठिदीपकपदवसेन. वदन्ति एतेनाति वादो. दिट्ठि-सद्दो पन द्वयसङ्गहितो, ब्रह्मचरियवासो पन परमत्थतो अरियमग्गभावनाति आह ‘‘अरियमग्गवासो’’ति. अयं दिट्ठीति अनञ्ञे सरीरजीवाति दिट्ठि. ‘‘जीवो’’ति च जीवितमेव वदन्ति. वट्टन्ति दुविधं वट्टं. निरोधेन्तोति अनुप्पत्तिधम्मतं आपादेन्तो. समुच्छिन्दन्तोति अप्पवत्तियं पापनेन उपच्छिन्दन्तो. तदेतं मग्गेन निरोधेतब्बं वट्टं निरुज्झतीति योजना. ‘‘अयं सत्तो विनासं अभावं पत्वा सब्बसो उच्छिज्जती’’ति एवं उच्छेददिट्ठिया गहिताकारस्स सम्भवे सच्चभावे सति. न होतीति सात्थको न होति.

गच्छतीति सरीरतो निक्खमित्वा गच्छति. विवट्टेन्तोति अप्पवत्तिं करोन्तोति अत्थो. विवट्टेतुं न सक्कोति निच्चस्स अप्पवत्तिं पापेतुं असक्कुणेय्यत्ता. मिच्छादिट्ठि सम्मादिट्ठिं विज्झति असमाहितपुग्गलसेवनवसेन तथा पवत्तितुं अप्पदानवसेन च पजहितब्बापजहनवसेन सम्मादिट्ठिं विज्झति. विसूकमिवाति कण्डको विय. न केवलं अननुवत्तकोव, अथ खो विरोधोपि ‘‘निच्च’’न्तिआदिना पवत्तनधम्मताय विञ्ञापनतो. विरूपं बीभच्छं फन्दितं विप्फन्दितं. पण्णपुप्फफलपल्लवानं अवत्थुभूतो तालो एव तालावत्थु ‘‘असिवे सिवा’’ति वोहारो विय. केचि पन ‘‘तालवत्थुकतानी’’ति पठन्ति, अवत्थुभूतताय तालो विय कतानीति अत्थो. तेनाह ‘‘मत्थकच्छिन्नतालो विया’’ति. अनुअभावन्ति विनासं.

अविज्जापच्चयसुत्तवण्णना निट्ठिता.

६. दुतियअविज्जापच्चयसुत्तवण्णना

३६. इति वाति एवं वा. जरामरणस्स चेव जरामरणसामिकस्स च खणवसेन यो वदेय्य. अविसारदधातुको पुच्छितुं अच्छेकताय मङ्कुभावेन जातो. तेनाह ‘‘पुच्छितुं न सक्कोती’’ति.

दुतियअविज्जापच्चयसुत्तवण्णना निट्ठिता.

७. नतुम्हसुत्तवण्णना

३७. न तुम्हाकन्ति कायस्स अनत्तनियभावदस्सनमेव पनेतन्ति या तस्स अनत्तनियता, तं दस्सेतुं ‘‘अत्तनि ही’’तिआदि वुत्तं. यदि न अत्तनियं, परकियं नाम सियाति, तम्पि नत्थीति दस्सेन्तो ‘‘नापि अञ्ञेस’’न्ति आह. नयिदं पुराणकम्ममेवाति ‘‘इदं कायो’’ति वुत्तसरीरं पुराणकम्ममेव न होति. न हि कायो वेदनासभावो. पच्चयवोहारेनाति कारणोपचारेन. अभिसङ्खतन्तिआदि नपुंसकलिङ्गवचनं. पुरिमलिङ्गसभागतायाति ‘‘पुराणमिदं कम्म’’न्ति एवं वुत्तपुरिमनपुंसकलिङ्गसभागताय. अञ्ञमञ्ञाभिमुखेहि समेच्च पच्चयेहि कतो अभिसङ्खतोति आह ‘‘पच्चयेहि कतोति दट्ठब्बो’’ति. अभिसञ्चेतयितन्ति तथा अभिसङ्खतत्तसङ्खातेन अभिमुखभावेन चेतयितं पकप्पितं, पवत्तितन्ति अत्थो. चेतनावत्थुकोति चेतनाहेतुको. वेदनियन्ति वेदनाय हितं वत्थारम्मणभावेन वेदनाय पच्चयभावतो. तेनाह ‘‘वेदनियवत्थू’’ति.

नतुम्हसुत्तवण्णना निट्ठिता.

८. चेतनासुत्तवण्णना

३८. यञ्चाति एत्थ च-सद्दो अट्ठाने. तेन चेतनाय विय पकप्पानानुसयानम्पि विञ्ञाणस्स ठितिया वक्खमानंयेव अविसिट्ठं आरम्मणभावं जोतेति. कामं तीसुपि पदेसु ‘‘पवत्तेति’’इच्चेव अत्थो वुत्तो, वत्तनत्थो पन चेतनादीनं यथाक्कमं चेतयनपकप्पनानुसयनरूपो विसिट्ठट्ठो दट्ठब्बो. तेभूमककुसलाकुसलचेतना गहिता कम्मविञ्ञाणस्स पच्चयनिद्धारणमेतन्ति. तण्हादिट्ठिकप्पा गहिता यथारहन्ति अधिप्पायो. अट्ठसुपि हि लोभसहगतचित्तेसु तण्हाकप्पो, तत्थ चतूस्वेव दिट्ठिकप्पोति. कामं अनुसया लोकियकुसलचेतनासुपि अनुसेन्तियेव, अकुसलेसु पन पवत्ति पाकटाति ‘‘द्वादसन्नं चेतनान’’न्ति वुत्तं. सहजातकोटियाति इदं पच्चुप्पन्नापि कामरागादयो अनुसयाव वुच्चन्ति तंसदिसतायाति वुत्तं. न हि कालभेदेन लक्खणप्पभेदो अत्थीति. अनागता एव हि कामरागादयो निप्परियायतो ‘‘अनुसया’’ति वत्तब्बतं अरहन्ति. पच्चयुप्पन्नो वट्टतीति आह ‘‘आरम्मणं पच्चयो’’ति. कम्मविञ्ञाणस्स ठितत्थन्ति कम्मविञ्ञाणस्सेव पवत्तिया. तस्मिं पच्चये सतीति तस्मिं चेतनापकप्पनानुसयसञ्ञिते पच्चये सति पतिट्ठा विञ्ञाणस्स होति. सन्ताने फलदानसमत्थतायेव होतीति ‘‘पतिट्ठा होति, तस्मिं पतिट्ठिते’’ति वुत्तं. सन्निट्ठापकचेतनावसेन विरुळ्हेति. पतिट्ठितेति हि इमिना कम्मस्स कतभावो वुत्तो, ‘‘विरुळ्हे’’ति इमिना उपचितभावो. तेनाह ‘‘कम्मं जवापेत्वा’’तिआदि. तत्थ पुरेतरं उप्पन्नाहि कम्मचेतनाहि लद्धपच्चयत्ता बलप्पत्ताय सन्निट्ठापकचेतनाय कम्मविञ्ञाणं लद्धपतिट्ठं विरुळ्हमूलञ्च होतीति वुत्तं ‘‘निब्बत्तमूले जाते’’ति. तथा हि सन्निट्ठापकचेतना विपाकं देन्तं अनन्तरे जातिवसेन देति उपपज्जवेदनीयकम्मन्ति.

तेभूमकचेतनायाति तेभूमककुसलाकुसलचेतनाय. अप्पवत्तनक्खणोति इध पवत्तनक्खणो जायमानक्खणो. न जायमानक्खणो अप्पवत्तनक्खणो न केवलं भङ्गक्खणो अप्पहीनानुसयस्स अधिप्पेतत्ता. अप्पहीनकोटियाति असमुच्छिन्नभावेन. तदिदं तेभूमककुसलाकुसलचेतनासु अप्पवत्तमानासु अनुसयानं सहजातकोटिआदिना पवत्ति नाम नत्थि, विपाकादीसु अप्पहीनकोटिया पवत्तति करोन्तस्स अभावतोति इममत्थं सन्धाय वुत्तं. अवारितत्ताति पटिपक्खेति अवारितब्बत्ता. पच्चयोव होति विञ्ञाणस्स ठितिया.

पठमदुतियवारेहि वट्टं दस्सेत्वा ततियवारे ‘‘नो चे’’तिआदिना विवट्टं दस्सितन्ति ‘‘पठमपदे तेभूमककुसलाकुसलचेतना निवत्ता’’तिआदि वुत्तं. तत्थ निवत्ताति अकरणतो अप्पवत्तिया अपगता. तण्हादिट्ठियो निवत्ताति योजना. वुत्तप्पकारेसूति ‘‘तेभूमकविपाकेसू’’तिआदिना वुत्तप्पकारेसु.

एत्थाति इमस्मिं सुत्ते. एत्थ चेतनापकप्पनानं पवत्तनवसेन धम्मपरिच्छेदो दस्सितोति ‘‘चेतेतीति तेभूमककुसलाकुसलचेतना गहिता’’तिआदिनयो इधेव होतीति दस्सितो. चतस्सोति पटिघद्वयमोहमूलसमागता चतस्सो अकुसलचेतना. चतूसु अकुसलचेतनासूति यथावुत्तासु एव चतूसु अकुसलचेतनासु, इतरा पन ‘‘न पकप्पेती’’ति इमिना पटिक्खेपेन निवत्ताति. सुत्ते आगतं वारेत्वाति ‘‘नो च पकप्पेती’’ति एवं पटिक्खेपवसेन सुत्ते आगतं वज्जेत्वा. ‘‘न पकप्पेती’’ति हि इमिना अट्ठसु लोभसहगतचित्तेसु सहजातकोटिया पवत्तअनुसयो निवत्तितो तेसं चित्तानं अप्पवत्तनतो, तस्मा तं ठानं ठपेत्वाति अत्थो. पुरिमसदिसोव पुरिमनयेसु वुत्तनयेन गहेतब्बो धम्मपरिच्छेदत्ता.

तदप्पतिट्ठितेति समासभावतो विभत्तिलोपो, सन्धिवसेन द-कारागमो, तस्स अप्पतिट्ठितं तदप्पतिट्ठितं, तस्मिं तदप्पतिट्ठितेति एवमेत्थ समासपदसिद्धि दट्ठब्बा. एत्थाति एतस्मिं ततियवारे अरहत्तमग्गस्स किच्चं कथितं सब्बसो अनुसयनिब्बत्तिभेदनतो. खीणासवस्स किच्चकरणन्तिपि वत्तुं वट्टति सब्बसो वेदनादीनं पटिक्खेपभावतो. नव लोकुत्तरधम्मातिपि वत्तुं वट्टति मग्गपटिपाटिया अनुसयसमुग्घाटनतो मग्गानन्तरानि फलानि, तदुभयारम्मणञ्च निब्बानन्ति. विञ्ञाणस्साति कम्मविञ्ञाणस्स. पुनब्भवसीसेन अनन्तरभवसङ्गहितं नामरूपं पटिसन्धिविञ्ञाणमेव वा गहितन्ति आह ‘‘पुनब्भवस्स च अन्तरे एको सन्धी’’ति. भवजातीनन्ति एत्थ ‘‘दुतियभवस्स ततियभवे जातिया’’ति एवं परम्परवसेन गहेतब्बं. आयतिं पुनब्भवाभिनिब्बत्तिगहणेन पन नानन्तरियतो कम्मभवो गहितो, जातिहेतुफलसिद्धिपेत्थ वुत्ता एवाति वेदितब्बं. एत्थ च ‘‘नो चे, भिक्खवे, चेतेति नो च पकप्पेति, अथ खो अनुसेती’’ति एवं भगवता दुतियनये पुब्बभागे भवनिब्बत्तककुसलाकुसलायूहनं, पकप्पनञ्च विनापि भवेसु दिट्ठादीनवस्स योगिनो अनुसयपच्चया विपस्सनाचेतनापि पटिसन्धिजनका होतीति दस्सनत्थं कुसलाकुसलस्स अप्पवत्ति चेपि, तदा विज्जमानतेभूमकविपाकादिधम्मेसु अप्पहीनकोटिया अनुसयितकिलेसप्पच्चया भववज्जस्स कम्मविञ्ञाणस्स पतिट्ठितता होतीति दस्सनत्थञ्च वुत्तो. ‘‘न चेतेति पकप्पेति अनुसेती’’ति अयं नयो न गहितो चेतनं विना पकप्पनस्स अभावतो.

चेतनासुत्तवण्णना निट्ठिता.

९. दुतियचेतनासुत्तवण्णना

३९. विञ्ञाणनामरूपानं अन्तरे एको सन्धीति हेतुफलसन्धि विञ्ञाणग्गहणेन कम्मविञ्ञाणस्स गहितत्ता. नामरूपं पन विपाकनामरूपमेवाति पाकटमेव. सेसं सुविञ्ञेय्यमेव.

दुतियचेतनासुत्तवण्णना निट्ठिता.

१०. ततियचेतनासुत्तवण्णना

४०. रूपादीसु छसु आरम्मणेसु. तेन चेत्थ भवत्तयं सङ्गण्हाति छळारम्मणपरियापन्नत्ता. तस्सेव भवत्तयस्स पत्थना पणिधानादिवसेन नति नाम. आगतिम्हि गतीति पच्चुपट्ठानवसेन अभिमुखं गति पवत्ति एतस्माति आगति, कम्मादिनिमित्तं. तस्मिं पटिसन्धिविञ्ञाणस्स गति पवत्ति निब्बत्ति होति. तेनाह ‘‘आगते’’तिआदि. चुतूपपातोति चवनं चुति, मरणं. उपपज्जनं निब्बत्ति, उपपातो. चुतितो उपपातो पुनरुप्पादो. तेनाह ‘‘एवं विञ्ञाणस्सा’’तिआदि. इतोति निब्बत्तभवतो. तत्थाति पुनब्भवसङ्खाते आयतिभवे. एकोव सन्धीति एको हेतुफलसन्धि एव कथितो.

ततियचेतनासुत्तवण्णना निट्ठिता.

कळारखत्तियवग्गवण्णना निट्ठिता.