५. गहपतिवग्गो
१. पञ्चवेरभयसुत्तवण्णना
४१. यतोति यस्मिं काले. अयञ्हि तो-सद्दो दा-सद्दो विय इध कालविसयो. तेनाह ‘‘यदा’’ति. भयवेरचेतनायोति भायितब्बट्ठेन भयं, वेरपसवनट्ठेन वेरन्ति च लद्धनामा चेतनायो. पाणातिपातादयो हि यस्स पवत्तन्ति, यञ्च उद्दिस्स पवत्तियन्ति, उभये सभयभेरवाति ते एव भायितब्बभयवेरजनकावाति. सोतस्स अरियमग्गस्स आदितो पट्ठाय पटिपत्तिअधिगमो सोतापत्ति, तदत्थाय तत्थ पतिट्ठितस्स च अङ्गानि सोतापत्तियङ्गानि, तदुभयं सन्धायाह ‘‘दुविधं सोतापत्तिया अङ्ग’’न्ति, सोतापत्तिअत्थं अङ्गन्ति अत्थो. यं पुब्बभागेति यं सयं सोतापत्तिमग्गफलपटिलाभतो पुब्बभागे तदत्थाय संवत्तति. किं पन तन्ति आह ‘‘सप्पुरिससंसेवो’’तिआदि. सप्पुरिसानं बुद्धादीनं अरियञाणसञ्ञाणजाता पयिरुपासना, सद्धम्मस्सवनं चतुसच्चधम्मस्सवनं, योनिसो उपायेन अनिच्चादितो मनसि करणं योनिसो मनसिकारो, उस्सुक्कापेन्तेन धम्मस्स निब्बानस्स अनुधम्मपटिपज्जनं धम्मानुधम्मपटिपत्तीति एतानि सोतापत्तिया अङ्गानि. अट्ठकथायं पन सोतापत्तिअङ्गन्ति पदं अपेक्खित्वा ‘‘एवं आगत’’न्ति वुत्तं. ठितस्स पुग्गलस्स अङ्गं. सोतापन्नो अङ्गीयति ञायति एतेनाति सोतापन्नस्स अङ्गन्तिपि वुच्चति. इदं पच्छा वुत्तं अङ्गं. दोसेहि आरकाति अरियोति आह ‘‘निद्दोसो’’ति. कथं अविज्जा सङ्खारानं पच्चयोतिआदिना केनचिपि अनुपारम्भियत्ता निरुपारम्भो. ञाणं सन्धाय ‘‘निद्दोसो’’ति वुत्तं, पटिच्चसमुप्पादं सन्धाय ‘‘निरुपारम्भो’’ति वदन्ति. उभयम्पि पन सन्धाय उभयं वुत्तन्ति अपरे. पटिच्चसमुप्पादो एत्थ अधिप्पेतो. तथा हि वुत्तं ‘‘अपरापरं उप्पन्नाय विपस्सनापञ्ञाया’’ति. न हि मग्गञाणं विपस्सनापञ्ञाति. सम्मा उपायत्ता तस्स पटिच्चसमुप्पन्ने याथावतो ञायतीति ञायो, पटिच्चसमुप्पादो. ञाणं पन ञायति सो एतेनाति ञायो.
तत्थाति निरये. मग्गसोतन्ति मग्गस्स सोतं. आपन्नोति अधिगतो. अपायेसु उप्पज्जनसङ्खातो विनिपातधम्मो एतस्साति विनिपातधम्मो, न विनिपातधम्मो अविनिपातधम्मो. परं अयनन्ति अतिविय सविसये अयितब्बं बुज्झितब्बं. येसञ्हि धातूनं गतिअत्थो, बुद्धिपि तेसं अत्थो. तेनाह ‘‘अवस्सं अभिसम्बुज्झनको’’ति.
पाणातिपातकम्मकारणाति पाणातिपातसङ्खातस्स पापकम्मस्स करणहेतु. वेरं वुच्चति विरोधो, तदेव भायितब्बतो भयन्ति आह ‘‘भयं वेरन्ति अत्थतो एक’’न्ति. इदं बाहिरं वेरं नाम तस्स वेरस्स मूलभूततो वेरकारपुग्गलतो बहिभावत्ता. तेनेव हि तस्स वेरकारपुग्गलस्स उप्पन्नं वेरं सन्धाय ‘‘इदं अज्झत्तिकवेरं नामा’’ति वुत्तं, तन्निस्सितस्स वेरस्स मूलभूता वेरकारपुग्गलचेतना उप्पज्जति पहरितुं असमत्थस्सपीति अधिप्पायो. न हि नेरयिका निरयपालेसु पटिपहरितुं सक्कोन्ति. निरयपालस्स चेतना उप्पज्जतीति एतेन ‘‘अत्थि निरये निरयपाला’’ति दस्सेति. यं पनेतं बाहिरवेरन्ति यमिदं दिट्ठधम्मिकं सम्परायिकञ्च बाहिरं वेरं. पुग्गलवेरन्ति वुत्तं अत्तकिच्चं साधेतुं असक्कोन्तो केवलं परपुग्गले उप्पन्नमत्तं वेरन्ति कत्वा. अत्थतो एकमेव ‘‘चेतसिक’’न्ति विसेसेत्वा वुत्तत्ता. सेसपदेसूति ‘‘अदिन्नादानपच्चया’’तिआदिना आगतेसु सेसकोट्ठासेसु. अत्थो भग्गोति अत्थो धंसितो. अधिगतेनाति मग्गेन अधिगतेन. ‘‘अभिगतेना’’तिपि पाठो, अधिवुत्तेनाति अत्थो. तेनाह ‘‘अचलप्पसादेना’’ति.
पञ्चवेरभयसुत्तवण्णना निट्ठिता.
२. दुतियपञ्चवेरभयसुत्तवण्णना
४२. भिक्खूनं कथितभावमत्तमेव विसेसोति एतेन या सत्थारा एकच्चानं देसितदेसना, पुन तदञ्ञेसं वेनेय्यदमकुसलेन कालन्तरे तेनेव देसिता, सा धम्मसंगाहकेहि ‘‘मा नो सत्थुदेसना सम्पटिग्गहं विना नस्सतू’’ति विसुं सङ्गहं आरोपिताति दस्सेति.
दुतियपञ्चवेरभयसुत्तवण्णना निट्ठिता.
३. दुक्खसुत्तवण्णना
४३. समुदयनं समुदयो, समुदेति एतम्हाति समुदयो, एवं उभिन्नं समुदयानमत्थतोपि भेदो वेदितब्बो. पच्चयाव पच्चयसमुदयो. आरद्धविपस्सको ‘‘इमञ्च इमञ्च पच्चयसामग्गिं पटिच्च इमे धम्मा खणे खणे उप्पज्जन्ती’’ति पस्सन्तो ‘‘पच्चयसमुदयं पस्सन्तोपि भिक्खु खणिकसमुदयं पस्सती’’ति वुत्तो पच्चयदस्सनमुखेन निब्बत्तिक्खणस्स दस्सनतो. सो पन खणे खणे सङ्खारानं निब्बत्तिं पस्सितुं आरद्धो ‘‘इमेहि नाम पच्चयेहि निब्बत्तती’’ति पस्सति. ‘‘सो खणिकसमुदयं पस्सन्तो पच्चयं पस्सती’’ति वदन्ति. यस्मा पन पच्चयतो सङ्खारानं उदयं पस्सन्तो खणतो तेसं उदयदस्सनं होति, खणतो एतेसं उदयं पस्सतो पगेव पच्चयानं सुग्गहितत्ता पच्चयतो दस्सनं सुखेन इज्झति, तस्मा वुत्तं ‘‘पच्चयसमुदयं पस्सन्तोपी’’तिआदि. अत्थङ्गमदस्सनेपि एसेव नयो. अच्चन्तत्थङ्गमोति अप्पवत्ति निरोधो निब्बानन्ति. भेदत्थङ्गमोति खणिकनिरोधो. तदुभयं पुब्बभागे उग्गहपरिपुच्छादिवसेन पस्सन्तो अञ्ञतरस्स दस्सने इतरदस्सनम्पि सिद्धमेव होति, पुब्बभागे च आरम्मणवसेन खयतो वयसम्मसनादिकाले भेदत्थङ्गमं पस्सन्तो अतिरेकवसेन अनुस्सवादितो अच्चन्तं अत्थङ्गमं पस्सति. मग्गक्खणे पनारम्मणतो अच्चन्तअत्थङ्गमं पस्सति, असम्मोहतो इतरम्पि पस्सति. तं सन्धायाह ‘‘अच्चन्तत्थङ्गमं पस्सन्तोपी’’तिआदि. समुदयत्थङ्गमं निब्बत्तिभेदन्ति समुदयसङ्खातं निब्बत्तिं अत्थङ्गमसङ्खातं भेदञ्च. निस्सयवसेनाति चक्खुस्स सन्निस्सयवसेन पच्चयं कत्वा. आरम्मणवसेनाति रूपे आरम्मणं कत्वा. यं पनेत्थ वत्तब्बं, तं मधुपिण्डिकसुत्तटीकायं वुत्तनयेन वेदितब्बं. तिण्णं सङ्गति फस्सोति ‘‘चक्खु रूपानि विञ्ञाण’’न्ति इमेसं तिण्णं सङ्गति समागमे निब्बत्ति फस्सोति वुत्तोति आह ‘‘तिण्णं सङ्गतिया फस्सो’’ति. तिण्णन्ति च पाकटपच्चयवसेन वुत्तं, तदञ्ञेपि पन मनसिकारादयो फस्सपच्चया होन्तियेव. एवन्ति तण्हादीनं असेसविरागनिरोधक्कमेन. भिन्नं होतीति अनुप्पादनिरोधेन निरुद्धं होति. तेनाह ‘‘अप्पटिसन्धिय’’न्ति.
दुक्खसुत्तवण्णना निट्ठिता.
४. लोकसुत्तवण्णना
४४. अयमेत्थ विसेसोति ‘‘अयं लोकस्सा’’ति समुदयत्थङ्गमानं विसेसदस्सनं. एत्थ चतुत्थसुत्ते ततियसुत्ततो विसेसो.
लोकसुत्तवण्णना निट्ठिता.
५. ञातिकसुत्तवण्णना
४५. अञ्ञमञ्ञं द्विन्नं ञातीनं गामो ञातिकोति वुत्तोति आह ‘‘द्विन्नं ञातकानं गामे’’ति. गिञ्जका वुच्चन्ति इट्ठका, गिञ्जकाहि एव कतो आवसथो गिञ्जकावसथो. सो किर आवासो यथा सुधापरिकम्मेन पयोजनं नत्थि, एवं इट्ठकाहि एव चिनित्वा छादेत्वा कतो. तादिसञ्हि छदनं सन्धाय भगवता इट्ठकाछदनं अनुञ्ञातं. तेन वुत्तं ‘‘इट्ठकाहि कते महापासादे’’ति. तत्थ द्वारबन्धकवाटफलकादीनि पन दारुमयानियेव. परियायति अत्तनो फलं परिग्गहेत्वा वत्ततीति परियायो, कारणन्ति आह ‘‘धम्मपरियायन्ति धम्मकारण’’न्ति, परियत्तिधम्मभूतं विसेसाधिगमस्स हेतुन्ति अत्थो. उपेच्च सुय्यति एत्थाति उपस्सुतीति वुत्तं ‘‘उपस्सुतीति उपस्सुतिट्ठान’’न्ति. अत्तनो कम्मन्ति यदत्थं तत्थ गतो, तं परिवेणसमज्जनकिरियं. पहायाति अकत्वा. एवं महत्थञ्हि विमुत्तायतनसीसे ठत्वा सुणन्तस्स महतो अत्थाय संवत्तति. एकङ्गणं अहोसीति सब्बं विवटं अहोसि. तीसु हि भवेसु सङ्खारगतं पच्चयुप्पन्नवसेन मनसिकरोतो भगवतो किञ्चि असेसेत्वा सब्बम्पि तं ञाणमुखे आपाथं उपगच्छि. तेन वुत्तं ‘‘यावभवग्गा एकङ्गणं अहोसी’’ति. तन्तिवसेन तमत्थं वाचाय निच्छारेन्तो ‘‘वचसा सज्झायं करोन्तो’’ति वुत्तो. पच्चयपच्चयुप्पन्नवसेन च अत्थं आहरित्वा तेसं निरोधेन विवट्टस्स आहतत्ता ‘‘यथानुसन्धिना’’ति वुत्तं. अद्दस ञाणचक्खुना.
मनसा सज्झायं करोन्तो ‘‘तुण्हीभूतोव पगुणं करोन्तो’’ति वुत्तो. पदानुपदन्ति पदञ्च अनुपदञ्च. पुरिमञ्हि पदं नाम, तदनन्तरं अनुपदं. घटेत्वा सम्बन्धं कत्वा अविच्छिन्दित्वा. परियापुणातीति अज्झयति. आधारप्पत्तन्ति आधारं चित्तसन्तानप्पत्तं अप्पमुट्ठं गतत्ता आधारप्पत्तं नाम. कारणनिस्सितोति लोकुत्तरधम्मस्स कारणसन्निस्सितो. आदिब्रह्मचरियकोति आदिब्रह्मचरियं, तदेव आदिब्रह्मचरियकं. धम्मपरियायापेक्खाय पुल्लिङ्गनिद्देसो. तीसुपि इमेसूति ततियचतुत्थपञ्चमेसु तीसु सुत्तेसु.
ञातिकसुत्तवण्णना निट्ठिता.
६. अञ्ञतरब्राह्मणसुत्तवण्णना
४६. नामवसेनाति गोत्तनामवसेन च कित्तिवसेन च अपाकटो, तस्मा ‘‘जातिवसेन ब्राह्मणो’’ति वुत्तं.
अञ्ञतरब्राह्मणसुत्तवण्णना निट्ठिता.
७. जाणुस्सोणिसुत्तवण्णना
४७. एवंलद्धनामोति ‘‘जाणुस्सोणी’’ति एवंलद्धनामो रञ्ञो सन्तिका अधिगतनामो.
जाणुस्सोणिसुत्तवण्णना निट्ठिता.
८. लोकायतिकसुत्तवण्णना
४८. आयतिं हितं तेन लोको न यतति न ईहतीति लोकायतं. न हि तं लद्धिं निस्साय सत्ता पुञ्ञकिरियाय चित्तम्पि उप्पादेन्ति, कुतो पयोगो, तं एतस्स अत्थि, तत्थ वा नियुत्तोति लोकायतिको. पठमसद्दो आदिअत्थवाचकत्ता जेट्ठवेवचनोति आह ‘‘पठमं लोकायत’’न्ति. साधारणवचनोपि लोकसद्दो विसिट्ठविसयो इधाधिप्पेतोति आह ‘‘बालपुथुज्जनलोकस्सा’’ति. इत्तरभावेन लकुण्डकभावेन तस्स विपुलादिभावेन बालानं उपट्ठानमत्तन्ति दस्सेन्तो ‘‘आयतं महन्त’’न्तिआदिमाह. परित्तन्ति खुद्दकं. एकसभावन्ति एकं सभावं. अविपरिणामधम्मतायाति आह ‘‘निच्चसभावमेवाति पुच्छती’’ति. पुरिमसभावेन नानासभावन्ति पुरिमसभावतो भिन्नसभावं. पच्छा न होतीति पच्छा किञ्चि न होति सब्बसो समुच्छिज्जनतो. तेनाह ‘‘उच्छेदं सन्धाय पुच्छती’’ति. एकत्तन्ति सब्बकालं अत्तसम्भवं. तथा चेव गहणेन द्वेपि वादा सस्सतदिट्ठियो होन्ति. नत्थि न होति. पुथुत्तं नानासभावं, एकरूपं न होतीति वा गहणेन द्वेपि वादा उच्छेददिट्ठियोति.
लोकायतिकसुत्तवण्णना निट्ठिता.
९. अरियसावकसुत्तवण्णना
४९. संसयुप्पत्ति आकारदस्सनन्ति ‘‘कस्मिं सति किं होती’’ति कारणस्स फलस्स च पच्चामसनेन विना केवलं इदप्पच्चयताय संसयस्स उप्पज्जनाकारदस्सनं. समुदयति समुदेतीति अत्थोति आह ‘‘उप्पज्जती’’ति.
अरियसावकसुत्तवण्णना निट्ठिता.
१०. दुतियअरियसावकसुत्तवण्णना
५०. द्वेपि नया एकतो वुत्ताति इदं ‘‘विञ्ञाणे सति नामरूपं होती’’तिआदिना नवमे वुत्तस्स नयस्स ‘‘अविज्जाय सति सङ्खारा होन्ती’’तिआदिना दसमे वुत्तनये अन्तोगधत्ता. नानत्तन्ति पुरिमतो नवमतो दसमस्स नानत्तं.
दुतियअरियसावकसुत्तवण्णना निट्ठिता.
गहपतिवग्गवण्णना निट्ठिता.