२. दुतियदसबलसुत्तवण्णना
२२. तत्थाति दुतियसुत्ते. दसहि बलेहीति दसहि अनञ्ञसाधारणेहि ञाणबलेहि, तानि तथागतस्सेव बलानीति तथागतबलानीति वुच्चन्ति. कामञ्च तानि एकच्चानं सावकानम्पि उप्पज्जन्ति, यादिसानि पन बुद्धानं ठानाट्ठानञाणादीनि उप्पज्जन्ति, न तादिसानि तदञ्ञेसं कदाचिपि उप्पज्जन्तीति. हत्थिकुलानुसारेनाति वक्खमानहत्थिकुलानुसारेन. काळावकन्ति कुलसद्दापेक्खाय नपुंसकनिद्देसो. एस नयो सेसेसुपि. पकतिहत्थिकुलन्ति गिरिचरनदिचरवनचरादिप्पभेदा गोचरियकाळावकनामा सब्बापि बलेन पाकतिका हत्थिजाति. दसन्नं पुरिसानन्ति थाममज्झिमानं दसन्नं पुरिसानं. एकस्स तथागतस्स कायबलन्ति आनेत्वा सम्बन्धो. एकस्साति च तथा हेट्ठाकथायं आगतत्ता देसनासोतेन वुत्तं. नारायनसङ्घातबलन्ति एत्थ नारा वुच्चन्ति रस्मियो, ता बहू नानाविधा इतो उप्पज्जन्तीति नारायनं, वजिरं, तस्मा नारायनसङ्घातबलन्ति वजिरसङ्घातबलन्ति अत्थो. तथागतस्स कायबलन्ति तथागतस्स पाकतिककायबलं. सङ्गहं न गच्छति अत्तनो बलाभावतो, ततो एवस्स बाहिरकता लामकता च. तदुभयं पनस्स कारणेन दस्सेतुं ‘‘एतञ्हि निस्साया’’तिआदि वुत्तं. अञ्ञन्ति कायबलतो अञ्ञं ततो विसुंयेव. दससु ठानेसु दससु ञातब्बट्ठानेसु. याथावपटिवेधतो सयञ्च अकम्पयं, पुग्गलञ्च तंसमङ्गिं नेय्येसु अधिबलं करोतीति आह ‘‘अकम्पनट्ठेन उपत्थम्भनट्ठेन चा’’ति.
ठानञ्च ठानतोति कारणञ्च कारणतो. कारणञ्हि यस्मा फलं तिट्ठति तदायत्तवुत्तिताय उप्पज्जति चेव पवत्तति च, तस्मा ‘‘ठान’’न्ति वुच्चति. विपरियायेन अट्ठानन्ति अकारणं वेदितब्बं. तदुभयं भगवा येन ञाणेन ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय, तं तं ठानं, ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्चया उप्पादाय, तं तं अट्ठानन्ति पजानाति. तं सन्धायाह ‘‘ठानञ्च…पे… जाननं एक’’न्ति. कम्मसमादानानन्ति कम्मं समादियित्वा कतानं कुसलाकुसलकम्मानं, कम्मञ्ञेव वा कम्मसमादानं. ठानसो हेतुसोति पच्चयतो च हेतुतो च. तत्थ गतिउपधिकालपयोगा विपाकस्स ठानं, कम्मं हेतु. सब्बत्थगामिनीपटिपदाजाननन्ति सब्बगतिगामिनिया अगतिगामिनिया च पटिपदाय मग्गस्स जाननं, बहूसुपि मनुस्सेसु एकमेव पाणं हनन्तेसु ‘‘इमस्स चेतना निरयगामिनी भविस्सति, इमस्स तिरच्छानयोनिगामिनी’’ति इमिना नयेन एकवत्थुस्मिम्पि कुसलाकुसलचेतनासङ्खातानं पटिपत्तीनं अविपरीततो सभावजाननं. अनेकधातुनानाधातुलोकजाननन्ति चक्खुधातुआदीहि कामधातुआदीहि वा बहुधातुनो, तासंयेव धातूनं विपरीतताय नानप्पकारधातुनो खन्धायतनधातुलोकस्स जाननं. परसत्तानन्ति परेसं सत्तानं. नानाधिमुत्तिकताजाननन्ति हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभावस्स जाननं. तेसंयेवाति परसत्तानंयेव. इन्द्रियपरोपरियत्तजाननन्ति सद्धादीनं इन्द्रियानं परभावस्स अपरभावस्स वुद्धिया चेव हानिया च जाननं. झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्नं झानानं, ‘‘रूपी रूपानि पस्सती’’तिआदीनं अट्ठन्नं विमोक्खानं, सवितक्कसविचारादीनं तिण्णं समाधीनं, पठमज्झानसमापत्तिआदीनञ्च नवन्नं अनुपुब्बसमापत्तीनं. संकिलेसवोदानवुट्ठानजाननन्ति हानभागियस्स, विसेसभागियस्स ‘‘वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति (विभ. ८२८) एवं वुत्तपगुणज्झानस्स चेव भवङ्गफलसमापत्तीनञ्च जाननं. हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति, तस्मा वोदानम्पि ‘‘वुट्ठान’’न्ति वुच्चति. भवङ्गेन पन सब्बझानेहि वुट्ठानं होति. फलसमापत्तिया निरोधसमापत्तितो वुट्ठानमेव सन्धाय ‘‘तम्हा तम्हा समाधिम्हा वुट्ठान’’न्ति वुत्तं. पुब्बेनिवासजाननन्ति पुब्बेनिवासानुस्सतिञाणेन निवुट्ठक्खन्धानं जाननं. चुतूपपातजाननन्ति सत्तानं चुतिया उपपत्तिया च याथावतो जाननं. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे वुत्तनयेनेव वेदितब्बो. आसवक्खयजाननं आसवक्खयञाणं, मग्गञाणन्ति अत्थो. यत्थ पनेतानि वित्थारतो आगतानि संवण्णितानि, तानि दस्सेन्तो ‘‘अभिधम्मे पना’’तिआदिमाह.
ब्यामोहभयवसेन सरणपरियेसनं सारज्जनं सारदो, ब्यामोहभयं. विगतो सारदो एतस्साति विसारदो, तस्स भावो वेसारज्जं. तं पन ञाणसम्पदं पहानसम्पदं देसनाविसेससम्पदं खेमं निस्साय पवत्तं चतुब्बिधं पच्चवेक्खणाञाणं. तेनाह ‘‘चतूसु ठानेसू’’तिआदि. चतूसूति परपरिकप्पितेसु वत्थूसु. परपरिकप्पितेसु वा वत्थुमत्तेसु चोदनाकारणेसु. सम्मासम्बुद्धस्स ते पटिजानतोति ‘‘अहं सम्मासम्बुद्धो’’ति एवं पटिजानन्तेन तया. इमे धम्माति ‘‘इदं पञ्चमं अरियसच्चं, अयं छट्ठो उपादानक्खन्धो, इदं तेरसमं आयतन’’न्ति वेदितब्बा इमे धम्मा. अनभिसम्बुद्धा अप्पटिविद्धत्ताति.
तत्राति तस्मिं अनभिसम्बुद्धधम्मसङ्खाते चोदनावत्थुस्मिं. कोचीति समणादीहि अञ्ञो वा यो कोचि. सह धम्मेनाति सह हेतुना. ‘‘धम्मपटिसम्भिदा’’तिआदीसु विय हेतुपरियायो इध धम्म-सद्दो. हेतूति च उप्पत्तिसाधनहेतु वेदितब्बो, न कारको सम्पापको वा. निमित्तन्ति कारणं, तं पनेत्थ चोदनावत्थुमेव. न समनुपस्सामि सम्मासम्बुद्धभावतो. खेमप्पत्तोति अखेमप्पत्तरूपाय चोदनाय अनुपद्दवं पत्तो निच्चलभावप्पत्तो. वेसारज्जप्पत्तोति विसारदभावप्पत्तो. सेसेसुपि एसेव नयो. अयं पन विसेसो – इमे आसवाति कामासवादीसु इमे नाम आसवा न परिक्खीणाति आसवक्खयवचनेनेत्थ सब्बकिलेसप्पहानं वुत्तं. न हि सो किलेसो अत्थि, यो सब्बसो आसवेसु खीणेसु नप्पहीयेय्य. अन्तरायिकाति अन्तरायकरा, सग्गविमोक्खाधिगमस्स अन्तरायकराति अत्थो. धम्मो हि यो संकिलेसतो निय्याति, सो ‘‘निय्यानिको’’ति वुत्तो. धम्मे निय्यन्ते तंसमङ्गीपुग्गलो निय्यानिकोति वोहरितो होतीति तस्स पटिक्खिपन्तो ‘‘सो न निय्याती’’ति आह. कथं पन देसनाधम्मो निय्यातीति वुच्चति? निय्यानत्थसमाधानतो, सो अभेदोपचारेन ‘‘निय्याती’’ति वुत्तो. अथ वा ‘‘धम्मो देसितो’’ति अरियधम्मस्स अधिप्पेतत्ता न कोचि विरोधो.
उसभस्स इदन्ति आसभं, असन्तसनट्ठेन आसभं वियाति आसभं, सेट्ठट्ठानं सब्बञ्ञुतं. आसभट्ठानट्ठायिताय आसभा नाम पुब्बबुद्धा. सब्बञ्ञुतपटिजाननवसेन अभिमुखं गच्छन्ति, चतस्सो वा परिसा उपसङ्कमन्तीति आसभा. चतस्सोपि हि परिसा बुद्धाभिमुखा एवं तिट्ठन्ति, न तिट्ठन्ति परम्मुखा. इदम्पीति ‘‘उसभो’’ति इदम्पि पदं. तस्साति निसभस्स. येसं बलुप्पादावट्ठानानं वसेन उसभस्स आसभण्ठानं इच्छितं, ततो सातिसयानं एव तेसं वसेन आसभण्ठानं होतीति दट्ठब्बं. यं किञ्चि लोके उपमं नाम बुद्धगुणानं निदस्सनभावेन वुच्चति, सब्बं तं निहीनमेव. तिट्ठमानो चाति अतिट्ठन्तोपि तिट्ठमानो एव पटिजानाति नाम. उपगच्छतीति अनुजानाति.
अट्ठ खो इमाति इदं वेसारज्जञाणस्स बलदस्सनं. यथा हि ब्यत्तं परिसं अज्झोगाहेत्वा विञ्ञूनं चित्तं आराधनसमत्थाय कथाय धम्मकथिकस्स छेकभावो पञ्ञायति, एवं इमा अट्ठ परिसा पत्वा सत्थु वेसारज्जञाणस्स बलं पाकटं होति. तेन वुत्तं ‘‘परिसासू’’ति. खत्तियपरिसाति खत्तियानं सन्निपतितानं समूहो. एस नयो सब्बत्थ. मारपरिसाति मारकायिकानं सन्निपतितानं समूहो. मारसदिसानं मारानं परिसाति मारपरिसा. सब्बा चेता परिसा उग्गट्ठानदस्सनवसेन गहिता. मनुस्सा हि ‘‘एत्थ राजा निसिन्नो’’ति वुत्ते पकतिवचनम्पि वत्तुं न सक्कोन्ति, कच्छेहि सेदा मुच्चन्ति, एवं उग्गा खत्तियपरिसा, ब्राह्मणा तीसु वेदेसु कुसला होन्ति, गहपतयो नानावोहारेसु च अक्खरचिन्ताय च कुसला, समणा सकवादपरवादेसु कुसला, तेसं मज्झे धम्मकथाकथनं नाम अतिविय भारियं. देवानं उग्गभावे वत्तब्बमेव नत्थि. अमनुस्सोति हि वुत्तमत्ते मनुस्सानं सकलसरीरं कम्पति, तेसं रूपं दिस्वापि सद्दं सुत्वापि सत्ता विसञ्ञितापि होन्ति. एवं अमनुस्सपरिसा उग्गा. इति चेता परिसा उग्गट्ठानदस्सनवसेन वुत्ता. कस्मा पनेत्थ यामादिपरिसा न गहिताति? भुसं कामाभिगिद्धताय योनिसोमनसिकारविरहतो. यामादयो हि उळारुळारे कामे पटिसेवन्ता तत्थाभिगिद्धताय धम्मस्सवनाय सभावेन चित्तम्पि न उप्पादेन्ति, महाबोधिसत्तानं पन बुद्धानञ्च आनुभावेन आकड्ढियमाना कदाचि नेसं पयिरुपासनादीनि करोन्ति तादिसे महासमये. तेनेव हि विमानवत्थुदेसनापि तंनिमित्ता बहुला नाहोसि. सेट्ठनादन्ति केनचि अप्पटिहतभावेन उत्तमनादं. अभीतनादन्ति वेसारज्जयोगतो कुतोचि निब्भयनादं. सीहनादसुत्तेनाति खन्धियवग्गे आगतेन सीहनादसुत्तेन. सहनतोति खमनतो. हननतोति विधमनतो विद्धंसनतो. यथा वातिआदि ‘‘सीहनादसदिसं वा नादं नदती’’ति सङ्खेपतो वुत्तस्स अत्थस्स विञ्ञापनं.
एतन्ति ‘‘ब्रह्मचक्क’’न्ति एतं पदं. पञ्ञापभावितन्ति चिरकालपरिभाविताय पारमितापञ्ञाय विपस्सनापञ्ञाय च उप्पादितं. करुणापभावितन्ति ‘‘किच्छं वतायं लोको आपन्नो’’तिआदिनयप्पवत्ताय महाकरुणाय उप्पादितं. यथा अभिनिक्खमनतो पभुति महाबोधिसत्तानं अरियमग्गाधिगमनविरोधिनी पटिपत्ति नत्थि, एवं तुसितभवनतो नियतभावापत्तितो च पट्ठायाति दुतियततियनया च गहिता. फलक्खणेति अग्गफलक्खणे. पटिवेधनिट्ठत्ता अरहत्तमग्गञाणं वजिरूपमतायेव सातिसयो पटिवेधोति ‘‘फलक्खणे उप्पन्नं नामा’’ति वुत्तं. तेन पटिलद्धस्सपि देसनाञाणस्स किच्चनिप्फत्ति परस्स बुज्झनमत्तेन होतीति ‘‘अञ्ञासिकोण्डञ्ञस्स सोतापत्ति…पे… फलक्खणे पवत्तनं नामा’’ति वुत्तं. ततो परं पन याव परिनिब्बाना देसनाञाणप्पवत्ति, तस्सेव पवत्तितस्स धम्मचक्कस्स ठानन्ति वेदितब्बं पवत्तितचक्कस्स चक्कवत्तिनो चक्करतनस्स ठानं विय. उभयम्पीति पि-सद्देन लोकियदेसनाञाणस्स इतरेन अनञ्ञसाधारणतावसेन समानतं सम्पिण्डेति. उरसि जातताय उरसो सम्भूतन्ति ओरसं ञाणं.
इति रूपन्ति एत्थ इति-सद्दो अनवसेसतो रूपस्स सरूपनिदस्सनत्थोति तस्स ‘‘इदं रूप’’न्ति एतेन साधारणतो च सरूपनिदस्सनमाह. एत्तकं रूपन्ति एतेन अनवसेसतो ‘‘इतो उद्धं रूपं नत्थी’’ति निमित्तस्स अञ्ञस्स अभावं. इदानि तमत्थं वित्थारतो दस्सेतुं ‘‘रुप्पनसभावञ्चेवा’’तिआदि वुत्तं. तत्थ रुप्पनं सीतादिविरोधिपच्चयसमवाये विसदिसुप्पत्ति. आदि-सद्देन अज्झत्तिकबाहिरादिभेदं सङ्गण्हाति. लक्खण…पे… वसेनाति कक्खळत्तादिलक्खणवसेन सन्धारणादिरसवसेन सम्पटिच्छनादिपच्चुपट्ठानवसेन भूतत्तयादिपदट्ठानवसेन च. एवं परिग्गहितस्साति एवं साधारणतो च लक्खणादितो च परिग्गहितस्स. अविज्जासमुदयाति अविज्जाय उप्पादा, अत्थिभावाति अत्थो. निरोधविरोधी हि अत्थिभावो होति, तस्मा निरोधे असति अत्थिभावो होति, तस्मा पुरिमभवे सिद्धाय अविज्जाय सति इमस्मिं भवे रूपस्स समुदयो रूपस्स उप्पादो होतीति अत्थो. तण्हासमुदया कम्मसमुदयाति एत्थापि एसेव नयो. अविज्जादीहि च तीहि अतीतकालिकत्ता तेसं सहकारीकारणभूतं उपादानम्पि गहितमेवाति वेदितब्बं. पवत्तिपच्चयेसु कबळीकारआहारस्स बलवताय, सो एव गहितो, ‘‘आहारसमुदया’’ति पन गहितेन पवत्तिपच्चयतामत्तेन उतुचित्तानिपि गहितानेव होन्तीति द्वादससमुट्ठानिकं रूपस्स पच्चयतो दस्सनम्पि भवितब्बमेवाति दट्ठब्बं. निब्बत्तिलक्खणन्तिआदिना कालवसेन उदयदस्सनमाह. तत्थ भूतवसेन मग्गे उदयं पस्सित्वा ठितो इध सन्ततिवसेन अनुक्कमेन खणवसेन पस्सति. अविज्जानिरोधा रूपनिरोधोति अग्गमग्गञाणेन अविज्जाय अनुप्पादनिरोधतो अनागतस्स अनुप्पादनिरोधो होति पच्चयाभावे अभावतो. पच्चयनिरोधेनाति अविज्जासङ्खातस्स पच्चयस्स निरोधभावेन. तण्हानिरोधाति एत्थापि एसेव नयो. आहारनिरोधाति पवत्तिपच्चयस्स कबळीकाराहारस्स अभावा. रूपनिरोधाति तंसमुट्ठानरूपस्स अभावो होति. सेसं हेट्ठा वुत्तनयानुसारेन वेदितब्बं. विपरिणामलक्खणन्ति भवकालवसेन हेतुद्वयदस्सनं. तस्मा तं पदट्ठानवसेन पगेव पस्सित्वा ठितो इध सन्ततिवसेन दिस्वा अनुक्कमेन खणवसेन पस्सति.
इति वेदनातिआदीसुपि वुत्तनयेन अत्थो वेदितब्बो. सुखादिभेदन्ति सुखदुक्खअदुक्खमसुखादिविभागं. रूपसञ्ञादिभेदन्ति रूपसञ्ञा, सद्द… गन्ध… रस… फोट्ठब्ब … धम्मसञ्ञादिविभागं. फस्सादिभेदन्ति फस्सचेतनामनसिकारादिविभागं. लक्खण…पे… वसेनाति इट्ठानुभवनलक्खणादिलक्खणवसेन इट्ठाकारसम्भोगरसादिरसवसेन कायिकअस्सादादिपच्चुपट्ठानवसेन इट्ठारम्मणादिपदट्ठानवसेन. ‘‘फुट्ठो वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं. नि. ४.९३) वचनतो तीसु वेदनादीसु खन्धेसु फस्ससमुदयाति वत्तब्बं. विञ्ञाणप्पच्चया नामरूप’’न्ति वचनतो विञ्ञाणक्खन्धे नामरूपसमुदयाति वत्तब्बं. तेसंयेव वसेनाति ‘‘अविज्जानिरोधो वेदनानिरोधो’’तिआदिना तेसंयेव अविज्जादीनं वसेन योजेतब्बं.
उपादानक्खन्धानं समुदयत्थङ्गमवसेन तित्थियानं अविसयोपि सप्पदेसो सीहनादो दस्सितो. इदानि निप्पदेसो अनुलोमपटिलोमवसेन सङ्खेपतो वित्थारतो पच्चयाकारविसयो अनञ्ञसाधारणो दस्सीयतीति आह, ‘‘अयम्पि अपरो सीहनादो’’ति. तस्साति ‘‘इमस्मिं सती’’तिआदिना सङ्खेपतो वुत्तपटिच्चसमुप्पादपाळिया. एत्थ च ‘‘इमस्मिं सति इदं होति, इमस्स निरोधा इदं निरुझ्ती’’ति अविज्जादीनं भावे सङ्खारादीनं भावस्स, अविज्जादीनं निरोधे सङ्खारादीनं निरोधस्स कथनेन पुरिमस्मिं पच्चयलक्खणे नियमो दस्सितो ‘‘इमस्मिं सति एव, नासति, इमस्स उप्पादा एव, नानुप्पादा, निरोधा एव, नानिरोधा’’ति. तेनेदं लक्खणं अन्तोगधनियमं इध पटिच्चसमुप्पादस्स वुत्तन्ति दट्ठब्बं. निरोधोति च अविज्जादीनं विरागा विगमेन आयतिं अनुप्पादो अप्पवत्ति. तथा हि वुत्तं ‘‘अविज्जाय त्वेव असेसविरागनिरोधा’’तिआदि. निरोधविरोधी च उप्पादो, येन सो उप्पादनिरोधविभागेन वुत्तो ‘‘इमस्स निरोधा इदं निरुज्झती’’ति. तेनेतं दस्सेति ‘‘असति निरोधे उप्पादो नाम, सो चेत्थ अत्थिभावोति वुच्चती’’ति. ‘‘इमस्मिं सति इदं होती’’ति इदमेव हि लक्खणं. परियायन्तरेन ‘‘इमस्स उप्पादा इदं उप्पज्जती’’ति वदन्तेन परेन पुरिमं विसेसितं होति. तस्मा न वत्तमानंयेव सन्धाय ‘‘इमस्मिं सती’’ति वुत्तं, अथ खो मग्गेन अनिरुज्झनसभावञ्चाति विञ्ञायति. यस्मा च ‘‘इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झती’’ति द्विधापि उद्दिट्ठस्स लक्खणस्स निद्देसं वदन्तेन भगवता ‘‘अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो’’तिआदिना निरोधोव वुत्तो, तस्मा नत्थिभावोपि निरोधो एवाति नत्थिभावविरुद्धो अत्थिभावो अनिरोधोति दस्सितं होति. तेन अनिरोधसङ्खातेन अत्थिभावेन उप्पादं विसेसेति. ततो इध न केवलं अत्थिभावमत्तं उप्पादोति अत्थो अधिप्पेतो, अथ खो अनिरोधसङ्खातो अत्थिभावो चाति अयमत्थो विभावितो होति. एवमेतं लक्खणद्वयवचनं अञ्ञमञ्ञं विसेसनविसेसितब्बभावेन सात्थकन्ति वेदितब्बं. को पनायं अनिरोधो नाम, यो ‘‘अत्थिभावो, उप्पादो’’ति च वुत्तोति? अप्पहीनभावो च अनिब्बत्तितफलभावेन फलुप्पादनारहता चाति अयमेत्थ सङ्खेपो. वित्थारो पन परमत्थदीपनियं उदानट्ठकथायं (उदा. अट्ठ. १). वुत्तनयेन वेदितब्बो.
पञ्चक्खन्धविभजनादिवसेनाति पञ्चन्नं उपादानक्खन्धानं द्वादसपदिकस्स पच्चयाकारस्स विभजनवसेन. इमस्मिञ्हि दसबलसुत्ते धम्मस्स देसिताकारो पञ्चक्खन्धपच्चयाकारमत्तो. तेनाह ‘‘पञ्चक्खन्धपच्चयाकारधम्मो’’ति. आचरियमुट्ठिया अकरणेन विभूतो, सो पन अत्थतो च सद्दतो च पिहितो हेट्ठामुखजातो वा न होतीति आह ‘‘अनिकुज्जितो’’ति. विवटोति विभावितो. तेनाह ‘‘विवरित्वा ठपितो’’ति. पकासितोति ञाणोभासेन ओभासितो आदीपितोति आह ‘‘दीपितो जोतितो’’ति. तत्थ तत्थ छिन्नभिन्नट्ठाने. सिब्बितगण्ठितन्ति वाकं गहेत्वा सिब्बितं, सिब्बितुं असक्कुणेय्यट्ठाने वाकेन गण्ठितञ्च. छिन्नपिलोतिकाभावेन विगतपिलोतिको धम्मो, तस्स छिन्नपिलोतिकस्स पटिलोमता छिन्नभिन्नताभावेनाति दस्सेन्तो ‘‘न हेत्था’’तिआदिमाह. निवासनपारुपनं परिग्गहणं. सयं पटिभानं कप्पेत्वा. वड्ढेन्ता अत्तनो समयं. समणकचवरन्ति समणवेसधारणवसेन समणपटिरूपताय समणानं कचवरभूतं. अत्तनो रूपपवत्तिया करण्डं कुच्छितं धुत्तं वाति पवत्तेतीति कारण्डवो, दुस्सीलो. तं कारण्डवं. निद्धमथाति नीहरथ. कसम्बुन्ति समणकसटं. अपकस्सथाति अपकड्ढथ नन्ति अत्थो. पलापेति पलापसदिसे. तथा हि तण्डुलसाररहितो धञ्ञपटिरूपको थुसमत्तको पलापोति वुच्चति, एवं सीलादिसाररहितो समणपटिरूपको पलापो वियाति पलापो, दुस्सीलो. ते पलापे. वाहेथाति अपनेथ. पतिस्सताति बाळ्हसतिताय पतिस्सता होथाति.
सद्धाय पब्बजितेनाति राजूपद्दवादीहि अनुपद्दुतेन ‘‘एवञ्हि तं ओतिण्णं जातिआदिसंसारभयं विजिनिस्सामी’’ति वट्टनिस्सरणत्थं आगताय सद्धाय वसेन पब्बजितेन. आचारकुलपुत्तोति आचारेन अभिजातो. तेनाह ‘‘यतो कुतोची’’तिआदि. जातिकुलपुत्तोति जातिसम्पत्तिया अभिजातो. विञ्ञुप्पसत्थानि अङ्गानि सम्मापधानियङ्गभावेन, काये च जीविते च निरपेक्खभावेन वीरियं आरभन्तस्स तथापवत्तवीरियवसेन ‘‘तचो एकं अङ्ग’’न्ति वुत्तं. एस नयो सेसेसुपि. नवसु ठानेसु समाधातब्बन्ति ‘‘कालवसेन पञ्चसु, इरियापथवसेन चतूसू’’ति एवं नवसु ठानेसु वीरियं समाधातब्बं पवत्तेतब्बं.
सो दुक्खं विहरतीति कुसीतपुग्गलो निय्यानिकसासने वीरियारम्भस्स अकरणेन सामञ्ञत्थस्स अनुप्पत्तिया दुक्खं विहरति. सकं वा अत्थं सदत्थं क-कारस्स द-कारं कत्वा. कुसीतस्स अत्थपरिहायनं मूलतो पट्ठाय दस्सेतुं ‘‘छ द्वारानी’’तिआदि वुत्तं. निसज्जावसेन पीठमद्दनतो पीठमद्दनो, निरस्सनवचनं तस्स, कस्सचिपत्थस्स अधारणतो केवलं पीठभारभूतोति अधिप्पायो. अञ्ञत्थ पन ‘‘मखमद्दनो’’ति वुच्चति, तत्थ दानमिच्छाय परेसं मखं पस्सन्तोति अत्थो. लण्डपूरकोति कुच्छिपूरं भुञ्जित्वा वच्चकुटिपूरको.
‘‘आरद्धवीरियो’’तिआदीसु ‘‘कुसीतो पुग्गलो’’ति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो, आसीसाय वसेन थोमितो. आरद्धवीरियेति पग्गहितवीरिये. पहितत्तेति निब्बानं पतिपेसितचित्ते. एतेन सावकानं सम्मापटिपत्तिं सत्थुवन्दनानिसंसञ्च दस्सेसि.
हीनेनाति वट्टनिस्सितेन धम्मेन. तेनाह ‘‘हीनाय सद्धाया’’तिआदि. अग्गेनाति सेट्ठेन विवट्टनिस्सितेन धम्मेन, ईसकम्पि कतकालुसियविगतट्ठेन मण्डट्ठेन च पसन्नम्पि सुरादि न पातब्बं. सासनन्ति परियत्तिपटिपत्तिपटिवेधलक्खणं सासनं. पसन्नं विगतदोसमलत्ता पसादनियत्ता च. पातब्बञ्च पत्तेन विय सुखेन परिभुञ्जितब्बतो दुच्चरितसब्बकिलेसकसावमलपङ्कदोसरहितत्ता च.
मण्डभूता बोधिपक्खियधम्मदेसनापि देसनामण्डो. तस्स एकस्सेव पन देसनामण्डस्स पटिग्गाहका सुप्पटिपन्ना दोसरहिता चतस्सो परिसा पटिग्गहमण्डो. मग्गब्रह्मचरियं तग्गतिकत्ता सकलोपि बोधिपक्खियधम्मरासि ब्रह्मचरियमण्डो. तेनाह ‘‘कतमो देसनामण्डो’’तिआदि. तत्थ विञ्ञातारोति सच्चानं अभिसमेताविनो. तथा हि आदितो ‘‘चतुन्नं अरियसच्चानं आचिक्खणा’’तिआदि वुत्तं. पुब्बभागे ‘‘अत्थि अयं लोको’’तिआदिना इधलोकपरलोकगतसम्मोसविगमेन पवत्तो अधिमोक्खोव अधिमोक्खमण्डो. छड्डेत्वा समुच्छेदवसेन विजहित्वा. चतुभूमकस्स सद्धिन्द्रियस्स अधिमोक्खमण्डेन मण्डभूतं अधिमोक्खं. आदि-सद्देन ‘‘पग्गहमण्डो वीरियिन्द्रियं कोसज्जकसट’’न्तिआदिं पाळिसेसं सङ्गण्हाति. एत्थाति एतस्मिं सासने, ‘‘मण्डस्मि’’न्ति वा वचने. कारणवचनं, तेन ‘‘सत्था सम्मुखीभूतो’’ति सम्मुखभावनायोगो निरासङ्कफलावहोति दस्सेति. तेनाह ‘‘असम्मुखा’’तिआदि. पमाणन्ति अनुरूपं भेसज्जस्स पमाणं. उग्गमनन्ति भेसज्जस्स वमनं विरेचनं, तस्स वा वसेन दोसधातूनं वमनं विरेचनं. एवमेवाति यथा भेसज्जमण्डं वेज्जसम्मुखा निरासङ्का पिवन्ति, एवमेव ‘‘सत्था सम्मुखीभूतो’’ति निरासङ्का वीरियं कत्वा, मण्डपेय्य सासनं पिवथाति योजना. अभिञ्ञासमापत्तिपटिलाभेन सानिसंसा. मग्गफलाधिगमनेन सवड्ढि. परत्थन्ति अत्तनो दिट्ठानुगतिआपत्तिया, तथा सम्मापटिपज्जन्तानं परेसं अत्थन्ति एवमेत्थ अत्थो दट्ठब्बो.
दुतियदसबलसुत्तवण्णना निट्ठिता.