३. उपनिससुत्तवण्णना
२३. जानतो पस्सतोति एत्थ दस्सनं पञ्ञाचक्खुनाव दस्सनं अधिप्पेतं, न मंसचक्खुनाति आह ‘‘द्वेपि पदानि एकत्थानी’’ति. एवं सन्तेपीति पदद्वयस्स एकत्थत्तेपि ञाणलक्खणञाणप्पभावविसयस्स्स तथादस्सनभावाविरोधनाति अत्थो. तेनाह ‘‘जाननलक्खणञ्हि ञाण’’न्तिआदि. ञाणप्पभावन्ति ञाणानुभावेन ञाणकिच्चविसयोभासन्ति अत्थो. तेनाह ‘‘ञाणेन विवट्टे धम्मे पस्सती’’ति. जानतो पस्सतोति च जाननदस्सनमुखेन पुग्गलाधिट्ठाना देसना पवत्ताति आह – ‘‘ञाणलक्खणं उपादाया’’तिआदि. जानतोति वा पुब्बभागञाणेन जानतो, अपरभागेन ञाणेन पस्सतो. जानतोति वा वत्वा न जाननं अनुस्सवाकारपरिवितक्कमत्तवसेन इधाधिप्पेतं, अथ खो रूपानि विय चक्खुविञ्ञाणेन रूपादीनि तेसञ्च समुदयादिके पच्चक्खे कत्वा दस्सनन्ति विभावेतुं ‘‘पस्सतो’’ति वुत्तन्ति एवं वा एत्थ अत्थो.
आसवानं खयन्ति आसवानं अच्चन्तप्पहानं. सो पन तेसं अनुप्पादनिरोधो सब्बेन सब्बं अभावो एवाति आह ‘‘असमुप्पादो खीणाकारो नत्थिभावो’’ति. आसवक्खयसद्दस्स खीणाकारादीसु आगतट्ठानं दस्सेतुं ‘‘आसवानं खया’’तिआदि वुत्तं. उजुमग्गानुसारिनोति किलेसवङ्ककायवङ्कादीनं पहानेन उजुभूते सविपस्सनाहेट्ठिममग्गधम्मे अनुस्सरन्तस्स. यदेव हिस्स परिक्खीणं. खयस्मिं पठमं ञाणं ‘‘ततो अञ्ञा अनन्तरा’’ति खयसङ्खाते अग्गमग्गे तप्परियापन्नमेव ञाणं पठमं उप्पज्जति, तदनन्तरं पन अञ्ञा अरहत्तन्ति. यदिपि गाथाय ‘‘खयस्मिं’’इच्चेव वुत्तं, समुच्छेदवसेन पन ‘‘आसवे खीणे मग्गो खयो’’ति वुच्चतीति आह ‘‘मग्गो आसवक्खयोति वुत्तो’’ति. समणोति समितपापो अधिप्पेतो, सो पन खीणासवो होतीति. ‘‘आसवानं खया’’ति इध फलं, परियायेन पन आसवक्खयो मग्गो, तेन पत्तब्बतो फलं. एतेनेव निब्बानस्सपि आसवक्खयभावो वुत्तोति वेदितब्बो.
जानतो एव पस्सतो एवाति एवमेत्थ नियमो इच्छितो, न अञ्ञथा विसेसाभावतो अनिट्ठापन्नोवाति तस्स नियमस्स फलं दस्सेतुं ‘‘नो अजानतो नो अपस्सतो’’ति वुत्तन्ति आह ‘‘यो पन न जानाति, न पस्सति, तस्स नो वदामीति अत्थो’’ति. इमिना खन्धानं परिञ्ञा आसवक्खयस्स एकन्तिककारणन्ति दस्सेति. एतेनाति ‘‘नो अजानतो, नो अपस्सतो’’ति एतेन वचनेन. ते पटिक्खित्ताति के पन तेति? ‘‘बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति (दी. नि. १.१६८; म. नि. २.२२८) अहेतू अप्पच्चया सत्ता विसुज्झन्ती’’ति (दी. नि. १.१६८; म. नि. २.१०१, २२७) एवमादिवादा. तेसु केचि अभिजातिसङ्कन्तिमत्तेन संसारसुद्धिं पटिजानन्ति, अञ्ञे इस्सरपजापतिकारणादिवसेन. तयिदं सब्बं संसारादीहीति एत्थेव सङ्गहितन्ति दट्ठब्बं. पुरिमेन पदद्वयेनाति ‘‘जानतो पस्सतो’’ति इमिना पदद्वयेन. उपायो वुत्तो ‘‘आसवक्खया’’ति अधिकारतो. इमिनाति ‘‘नो अजानतो, नो अपस्सतो’’ति इमिना पदद्वयेन. अनुपायो होति एस आसवानं खयस्स, यदिदं पञ्चन्नं खन्धानं अपरिञ्ञाति ‘‘जानतो पस्सतो’’ति इमिनाव अनियमवचनेन अनुपायपटिसेधोपि अत्थतो बोधितो होतीति. तमेव हि अत्थतो बोधितभावं विभावेतुं एवं संवण्णना कताति दट्ठब्बं.
दब्बजातिकोति दब्बरूपो. सो हि ‘‘द्रब्यो’’ति वुच्चति ‘‘द्रब्यं विनस्सति नाद्रब्य’’न्तिआदीसु. दब्बजातिको वा सारसभावो, सारुप्पसीलाचारोति अत्थो. यथाह ‘‘न खो दब्ब दब्बा एवं निब्बेठेन्ती’’ति (पारा. ३८४). वत्तसीसे ठत्वाति वत्तं उत्तमं धुरं कत्वा. यो हि परिसुद्धाजीवो कातुं अजानन्तानं सब्रह्मचारीनं अत्तनो वा वस्सवातादिपटिबाहनत्थं छत्तादीनि करोति, सो वत्तसीसे ठत्वा करोति नाम. पदट्ठानं न होतीति न वत्तब्बं नाथकरणधम्मभावेन मग्गफलाधिगमस्स उपनिस्सयभावतो. वुत्तञ्हि ‘‘यानि तानि सब्रह्मचारीनं उच्चावचानि किच्चकरणीयानि, तत्थ दक्खो होती’’तिआदि (दी. नि. ३.३४५). एवं जानतोति एवं वेज्जकम्मादीनं जाननहेतु मिच्छाजीवपच्चया कामासवादयो आसवा वड्ढन्तियेव, न पहीयन्ति. ‘‘एवं खो…पे… आसवानं खयो होती’’ति इमाय पाळिया अरहत्तस्सेव गहणं युत्तं फलग्गहणेन हेतुनो अवुत्तसिद्धत्ता. तेनाह ‘‘आसवानं खयन्ते जातत्ता’’ति.
आगमनं आगमो, तं आवहतीति आगमनीया, पुब्बभागपटिपदा. खयस्मिन्ति भावेनभावलक्खणे भुम्मं, खयेति पन विसये. तेनाह ‘‘आसवक्खयसङ्खाते’’ति. उपनिसीदति फलं एत्थाति कारणं उपनिसा. अरहत्तफलविमुत्ति उक्कट्ठनिद्देसतो. साति विमुत्ति. अस्साति पच्चवेक्खणञाणस्स. मनस्मिं विवट्टनिस्सिते पन अनन्तरूपनिस्सयापि पच्चया सम्भवन्तीति ‘‘लब्भमानवसेन पच्चयभावो वेदितब्बो’’ति वुत्तं.
विरज्जति असेससङ्खारतो एतेनाति विरागो, मग्गो. निब्बिन्दति एतायाति निब्बिदा, बलवविपस्सना. तेनाह ‘‘एतेना’’तिआदि. पटिसङ्खानुपस्सनापि मुच्चितुकम्यतापक्खिका एवाति अधिप्पायेन ‘‘चतुन्नं ञाणानं अधिवचन’’न्ति वुत्तं. ‘‘याव मग्गामग्गञाणदस्सनविसुद्धि, ताव तरुणविपस्सना’’ति हि वचनतो उपक्किलेसविमुत्तउदयब्बयञाणतो परं बलवविपस्सना. रूपारूपधम्मानं विसेसभूतो सामञ्ञभूतो च यो यो सभावो यथासभावो, तस्स जाननं यथासभावजाननं. तदेव दस्सनं. पच्चक्खकरणत्थेन ञातपरिञ्ञा तीरणपरिञ्ञा च गहिता होति. तेनाह ‘‘तरुणविपस्सन’’न्तिआदि. सङ्खारपरिच्छेदेञाणन्ति नामरूपपरिग्गहञाणं वदति. कङ्खावितरणं पच्चयपरिग्गहो धम्मट्ठितिञाणन्तिपि वुच्चति. नयविपस्सनादिकं अनुपस्सनाञाणं सम्मसनं. मग्गामग्गेञाणन्ति मग्गामग्गं ववत्थपेत्वा ठितं ञाणं. सो हि पादकज्झानसमाधि तरुणविपस्सनाय पच्चयो होति. ‘‘समाहितो यथाभूतं पजानाति पस्सती’’ति (सं. नि. ३.५.; ४.९९; ५.१०७१) हि वुत्तं.
पुब्बभागसुखन्ति उपचारज्झानसहितसुखं. दरथ पटिप्पस्सद्धीति कामच्छन्दादिकिलेसदरथस्स पटिपस्सम्भनं. ‘‘सुखंपाहं, भिक्खवे, सउपनिसं वदामी’’ति एत्थ अधिप्पेतसुखं दस्सेतुं ‘‘अप्पनापुब्बभागस्स सुखस्सा’’ति वुत्तं. ‘‘पस्सद्धकायो सुखं वेदेती’’ति (दी. नि. १.४६६;३.३५९; अ.नि. १.३.९६) वुत्तअप्पनासुखस्स पस्सद्धिया पच्चयत्ते वत्तब्बमेव नत्थि. सुखन्ति एत्थापि एसेव नयो. बलवपीतीति फरणलक्खणप्पत्ता पीति. तादिसा हि वितक्कविचारसुखसमाधीहि लद्धप्पच्चया नीवरणं विक्खम्भन्ती तंनिमित्तं दरथं परिळाहं पटिपस्सम्भेति. तेनाह ‘‘सा हि दरथप्पस्सद्धिया पच्चयो होती’’ति. दुब्बलपीतीति तरुणपीति. तेनाह ‘‘सा हि बलवपीतिया पच्चयो होती’’ति. सद्धाति रतनत्तयगुणानं कम्मफलस्स च सद्दहनवसेन पवत्तो अधिमोक्खो, सा पन यस्मा अत्तनो विसये पुनप्पुनं उप्पज्जति, न एकवारमेव, तस्मा आह ‘‘अपरापरं उप्पज्जनसद्धा’’ति. यस्मा सद्दहन्तो सद्धेय्यवत्थुस्मिं पमुदितो होति, तस्मा आह ‘‘सा हि दुब्बलपीतिया पच्चयो होती’’ति. दुक्खदुक्खादिभेदस्स सब्बस्सपि दुक्खस्स वट्टदुक्खन्तोगधत्ता तस्स च इधाधिप्पेतत्ता वुत्तं ‘‘दुक्खन्ति वट्टदुक्ख’’न्ति. जरामरणदुक्खन्ति केचि, सोकादयो चाति अपरे. तदुभयस्सपि सङ्गण्हनतो पठमो एवत्थो युत्तो. यस्मा दुक्खप्पत्तो कम्मस्स फलानि सद्दहति, रतनत्तये च पसादं उप्पादेति, तस्मा वुत्तं ‘‘तञ्हि अपरापरसद्धाय पच्चयो होती’’ति. यस्मा ‘‘आचरियानं सन्तिके धम्मं सुत्वा पवत्तिदुक्ख’’न्ति चिन्तयतो ‘‘एकन्ततो अयं धम्मो इमस्स दुक्खस्स समतिक्कमाय होती’’ति सद्धा उप्पज्जति. तेनाह ‘‘धम्मं सुत्वा तथागते सद्धं पटिलभती’’तिआदि (दी. नि. १.१९१). सविकाराति उप्पादविकारेन सविकारा खन्धजाति जायनट्ठेन. जातिया पन असति तत्थ तत्थ भवे नत्थि दुक्खस्स सम्भवोति आह ‘‘सा हि वट्टदुक्खस्स पच्चयो’’ति. कम्मभवोति कम्मभवादिको तिविधोपि कम्मभवो. सो हि उपपत्तिभवस्स पच्चयो. एवमादिं सन्धायाह ‘‘एतेनुपायेना’’ति. सेसपदानीति उपादानादिपदानि. अनुलोमञाणं सङ्खारुपेक्खापक्खिकत्ता निब्बानग्गहणेन गहितं, गोत्रभुञाणं पठममग्गस्स आवज्जनं. सो हि तेन विपस्सनाय किञ्चि किञ्चि विसेसट्ठानं कयिरतीति तं अनामसित्वा निब्बिदूपनिसो विरागोति ‘‘विरागो’’इच्चेव वुत्तं.
केन उदकेन विदारयित्वा गतपदेसोति कत्वा कन्दरो. नितम्बोतिपि उदकस्स. यथा निन्नं उदकं पवत्तति, तथा निवत्तनभावेन नदीकुञ्छोतिपि वुच्चति. हेमन्तगिम्हउतुवसेन अट्ठ मासे पवत्तो पथवीविवरोति कत्वा पदरो. खुद्दिका उदकवाहिनियो साखा वियाति साखा, खुद्दका सोब्भा कुसुब्भा ओ-कारस्स उ-कारं कत्वा. एवमेव खोतिआदि ‘‘सेय्यथापि, भिक्खवे’’तिआदिना उपनीताय उपमाय उपमेय्येन संसन्दनन्ति, तं योजेत्वा दस्सेतुं ‘‘अविज्जा पब्बतोति दट्ठब्बा’’तिआदि वुत्तं. तत्थ अविज्जा च सन्तानवसेन चिरंतनकालप्पवत्तनतो पचुरजनेहि दुप्पजहनतो ‘‘पब्बतो’’ति वुत्ता. लोकत्तयाभिब्यापनतो अभिसन्दनतो च अभिसङ्खारा मेघसदिसा. अभिसङ्खारा मेघोति दट्ठब्बाति आनेत्वा सम्बन्धो. तथा सेसपदद्वयेपि. विञ्ञाणादिवट्टं अनुपवत्तितो परम्परपच्चयतो च कन्दरादिसदिसा. विमुत्ति एकरसत्ता, हानिवुद्धिअभावतो च सागरसदिसाति उपमासंसन्दनं.
तत्थ यस्मा पुरिमसिद्धाय अविज्जाय सति अभिसङ्खारा, नासति, तस्मा ते उपरिपब्बते पवत्ता विय होन्तीति वुत्तं ‘‘अविज्जा…पे… वस्सनं वेदितब्ब’’न्ति. अस्सुतवा हीतिआदि वुत्तस्सेव अत्थस्स समत्थनं. तण्हाय अभिलासं कत्वाति एतेन सब्बस्सपि अभिसङ्खारवुट्ठितेमनत्थं दीपेति. तण्हा हि ‘‘स्नेहो’’ति वुत्ता. अन्तिमभविकस्स अन्तभवनिब्बत्तको अभिसङ्खारो निब्बानं न पत्तो, तदन्तस्स भागस्स निब्बानं आहच्च ठितो विय होतीति ‘‘महासमुद्दं आहच्च ठितकालो विया’’ति उपमानिदस्सनं कतं. विञ्ञाणादिवट्टं पूरेत्वापि इमिनापि हि अन्तिमभविकस्सेव विञ्ञाणप्पवत्ति दस्सिता. सा हि पूरिताति वत्तब्बा ततो परं विञ्ञाणादिवट्टस्सेव अभावतो. जातस्स पुग्गलस्स जातिपच्चयवट्टदुक्खवेदनाय धम्मस्सवनं इच्छितब्बं, तं पन यदिपि इमस्मिं सुत्ते न आगतं, सुत्तन्तरेसु पन आगतमेवाति ततो आहरित्वा तं वत्तब्बन्ति दस्सेन्तो ‘‘बुद्धवचनं पना’’तिआदिमाह. तयिदं सावकबोधिसत्तानं वसेनायं देसनाति कत्वा वुत्तं. इतरेसं पन वसेन वुच्चमानं सुत्तन्तरग्गहणत्थं पयोजनं नत्थीति ‘‘या ही’’तिआदिमाह. पाळिया वसेन गहितमेवाति सङ्खेपतो वुत्तअत्थस्स वित्थारतो दस्सनं. निब्बत्तीति निब्बत्तमाना खन्धा गहिताति आह ‘‘सविकारा’’ति. अनिच्चतालक्खणादिदीपनतो लक्खणाहटं. कम्माकम्मन्ति विनिच्छयं. निज्जटन्ति निग्गुम्बं, सुद्धन्ति अत्थो. पथवीकसिणादीसु कम्मं आरभतीतिआदि पाळियं समथपुब्बङ्गमा विपस्सना दस्सिताति कत्वा वुत्तं. एवञ्हि पामोज्जादिदस्सनं सम्भवतीति. देवस्साति मेघस्स. कस्मा पनेत्थ ‘‘खीणासवस्स…पे… ठितकालो वेदितब्बो’’ति वुत्तं, ननु पुब्बे देवट्ठानियो अभिसङ्खारो वुत्तो, न अभिसङ्खारो खीणासवोति? नायं दोसो, कारणूपचारेन फलस्स वुत्तत्ता. अभिसङ्खारमूलको हि खन्धसन्तानो खन्धसन्ताने च उच्छिन्नसंयोगे खीणासवसमञ्ञाति.
उपनिससुत्तवण्णना निट्ठिता.