८. तिम्बरुकसुत्तवण्णना
१८. यस्मा तिम्बरुको ‘‘वेदना अत्ता. अत्ताव वेदयती’’ति एवंलद्धिको, तस्मा ताय लद्धिया ‘‘सयंकतं सुखदुक्ख’’न्ति वदति, तं पटिसंहरितुं भगवा ‘‘सा वेदना’’तिआदिं अवोच. तेनाह ‘‘सा वेदनातिआदि सयंकतं सुखदुक्खन्ति लद्धिया निसेधनत्थं वुत्त’’न्ति. एत्थापीति इमस्मिम्पि सुत्ते. तत्राति यं वुत्तं ‘‘सा वेदना…पे… सुखदुक्ख’’न्ति, तस्मिं पाठे. आदिम्हियेवाति एत्थ भुम्मवचनेन ‘‘आदितो’’ति तो-सद्दो न निस्सक्कवचने. एव-कारेन खो-सद्दो अवधारणेति दस्सेति. यं पनेत्थ वत्तब्बं, तं अनन्तरसुत्ते वुत्तमेव. तत्थ पन ‘‘वेदनातो अञ्ञो अत्ता, वेदनाय कारको’’ति लद्धिकस्स दिट्ठिगतिकस्स वादो पटिक्खित्तो, इध ‘‘वेदना अत्ता’’ति एवंलद्धिकस्साति अयमेव विसेसो. तेनाह ‘‘एवञ्हि सति वेदनाय एव वेदना कता होती’’तिआदि. इमिस्साति याय वेदनाय सुखदुक्खं कतं, इमिस्सा. पुब्बेपीति सस्सताकारतो पुब्बेपि. पुरिमञ्हि अत्थन्ति अनन्तरसुत्ते वुत्तं अत्थं. अट्ठकथायन्ति पोराणट्ठकथायं. तन्ति पुरिमसुत्ते वुत्तमत्थं. अस्साति इमस्स सुत्तस्स. यस्मा तिम्बरुको ‘‘वेदनाव अत्ता’’ति गण्हाति, तस्मा वुत्तं ‘‘अहं सा वेदना…पे… न वदामी’’ति.
अञ्ञा वेदनातिआदीसुपि यं वत्तब्बं, तं अनन्तरसुत्ते वुत्तनयमेव. कारकवेदनाति कत्तुभूतवेदना. वेदनासुखदुक्खन्ति वेदनाभूतसुखदुक्खं कथितं, न वट्टसुखदुक्खं. ‘‘विपाकसुखदुक्खमेव वट्टती’’ति वुत्तं ‘‘सयंकतं सुखं दुक्ख’’न्तिआदिवचनतो.
तिम्बरुकसुत्तवण्णना निट्ठिता.