७. अचेलकस्सपसुत्तवण्णना
१७. लिङ्गेन अचेलकोति पब्बजितलिङ्गेन अचेलको. तेन अचेलकचरणेन अचेलो, न निच्चेलतामत्तेनाति दस्सेति. नामेनाति गोत्तनामेन कस्सपोति. देसेति पवेदेति संसयविगमनं एतेनाति देसो, निच्छयहेतूति आह ‘‘किञ्चिदेव देस’’न्तिआदि. सो हि संसयविगमनं करोतीति कारणं. ओकासन्ति अवसंसन्दनपदेसं. तेनाह ‘‘खणं काल’’न्ति. अन्तरघरं अन्तोनिवेसनं. अन्तरे घरानि एतस्साति अन्तरघरं, अन्तोगामो. यदाकङ्खसीति यं आकङ्खसि. इति भगवा सब्बञ्ञुपवारणाय पवारेति. तेनाह ‘‘यं इच्छसी’’ति. यदाकङ्खसीति यं आकङ्खसि, कस्सप, तिक्खत्तुं पटिक्खिपन्तोपि पुच्छसि, यं आकङ्खसि, तमेव पुच्छाति अत्थो.
‘‘यावततियं पटिक्खिपी’’ति वुत्तत्ता ‘‘ततियम्पि खो’’तिआदिना पाठेन भवितब्बं. सो पन नयवसेन संखित्तोति दट्ठब्बो. येन कारणेन भगवा अचेलकस्स तिक्खत्तुं याचापेत्वा चस्स पञ्हं कथेसि, तं दस्सेतुं ‘‘कस्मा पना’’तिआदिमाह. गारवजननत्थं यावततियं पटिक्खिपि तञ्च धम्मस्स सुस्सूसाय. धम्मगरुका हि बुद्धा भगवन्तो. सत्तानं ञाणपरिपाकं आगमयमानो यावततियं याचापेतीति विभत्तिविपरिणामवसेन साधारणतो पदं योजेत्वा पुन ‘‘एत्तकेन कालेना’’ति कस्सपस्स वसेन योजेतब्बं.
माति पटिसेधे निपातो. भणीति पुनवचनवसेन किरियापदं वदति. मा एवं भणि, कथेसीति अत्थो. ‘‘इति भगवा अवोचा’’ति पन सङ्गीतिकारवचनं. सयंकतं दुक्खन्ति पुरिसस्स उप्पज्जमानदुक्खं, तेन कतं नाम तस्स कारणस्स पुब्बे तेनेव कम्मस्स उपचितत्ताति अयं नयो अनवज्जो. दिट्ठिगतिको पन पञ्चक्खन्धविनिमुत्तं निच्चं कारकवेदकलक्खणं अत्तानं परिकप्पेत्वा तस्स वसेन ‘‘सयंकतं दुक्ख’’न्ति पुच्छतीति भगवा ‘‘मा हेव’’न्ति अवोच, तेनाह ‘‘सयंकतं दुक्खन्ति वत्तुं न वट्टती’’तिआदि. एत्थ च यदि बाहिरकेहि परिकप्पितो अत्ता नाम कोचि अत्थि, सो च निच्चो, तस्स निब्बिकारताय, पुरिमरूपाविजहनतो कस्सचि विसेसाधानस्स कातुं असक्कुणेय्यताय अहिततो निवत्तनत्थं, हिते च वत्तनत्थं उपदेसो च निप्पयोजनो सिया अत्तवादिनो. कथं वा सो उपदेसो पवत्तीयति? विकाराभावतो. एवञ्च अत्तनो अजटाकासस्स विय दानादिकिरिया हिंसादिकिरिया च न सम्भवति, तथा सुखस्स दुक्खस्स च अनुभवनबन्धो एव अत्तवादिनो न युज्जति कम्मबन्धाभावतो. जातिआदीनञ्च असम्भवतो कुतो विमोक्खो. अथ पन ‘‘धम्ममत्तं तस्स उप्पज्जति चेव विनस्सति च. यस्स वसेनायं किरियावोहारो’’ति वदेय्य, एवम्पि पुरिमरूपाविजहनेन अवट्ठितस्स अत्तनो धम्ममत्तन्ति न सक्का सम्भावेतुं. ते वा पनस्स धम्मा अवत्थाभूता, ततो अञ्ञे वा सियुं अनञ्ञे वा. यदि अञ्ञे, न ताहि तस्स उप्पन्नाहिपि कोचि विसेसो अत्थि. यो हि करोति पटिसंवेदेति चवति उपपज्जति चाति इच्छितं, तस्मा तदत्थो एव यथावुत्तदोसो. किञ्च धम्मकप्पनापि निरत्थिका सिया. अथ अनञ्ञे, उप्पादविनासवन्तीहि अवत्थाहि अनञ्ञस्स अत्तनो तासं विय उप्पादविनाससम्भवतो कुतो निच्चतावकासो. तासम्पि वा अत्तनो विय निच्चतापत्तीति बन्धविमोक्खानं असम्भवो एवाति न युज्जतेवायं अत्तवादो. तेनाह ‘‘अत्ता नाम कोचि दुक्खस्स कारको नत्थीति दीपेती’’ति. परतोति ‘‘परंकतं दुक्ख’’न्तिआदिके परस्मिं तिविधेपि नये. अधिच्चसमुप्पन्नन्ति अधिच्च यदिच्छाय किञ्चि कारणं कस्सचि वा पुब्बं विना समुप्पन्नं. तेनाह ‘‘अकारणेन यदिच्छाय उप्पन्न’’न्ति. कस्मा एवमाहाति एवं वक्खमानोति अधिप्पायो. अस्साति अचेलस्स. अयन्ति भगवन्तं सन्धाय वदति. सोधेन्तोति सयं विसुद्धं कत्वा पुच्छितमत्थं एव अत्तनो पुच्छाय सुद्धिं दस्सेन्तो. लद्धिया ‘‘सयंकतं दुक्ख’’न्ति मिच्छागहणस्स पटिसेधनत्थाय.
सो करोतीति सो कम्मं करोति. सो पटिसंवेदयतीति कारकवेदकानं अनञ्ञत्तदस्सनपरं एतं, न पन कम्मकिरियाफलानं पटिसंवेदनानं समानकालतादस्सनपरं. इतीति निदस्सनत्थे निपातो. खोति अवधारणे. ‘‘सो एवा’’ति दस्सितो. अनियतादेसा हि एते निपाता. आदितोति भुम्मत्थे निस्सक्कवचनन्ति आह ‘‘आदिम्हियेवा’’ति. ‘‘सयंकतं दुक्ख’’न्ति लद्धिया पगेव ‘‘सो करोति, सो पटिसंवेदयती’’ति सञ्ञाचित्तविपल्लासा भवन्ति. सञ्ञाविपल्लासतो हि चित्तविपल्लासो, चित्तविपल्लासतो दिट्ठिविपल्लासो, तेनाह ‘‘एवं सति पच्छा सयंकतं दुक्खन्ति अयं लद्धि होती’’ति. एवं सति सञ्ञाचित्तविपल्लासानं ब्रूहितो मिच्छाभिनिवेसो, यदिदं ‘‘सयंकतं दुक्ख’’न्ति लद्धि. तस्मा पटिनिस्सज्जेतुं पापकं दिट्ठिगतन्ति दस्सेति. तेनाह भगवा ‘‘सयंकतं…पे… एतं परेती’’ति. वट्टदुक्खं अधिप्पेतं अविसेसतो अत्थीति च वुत्तत्ता. सस्सतं सस्सतगाहं दीपेति परेसं पकासेति, तथाभूतो च सस्सतं दळ्हग्गाहं गण्हातीति. तस्साति दिट्ठिगतिकस्स. तं ‘‘सयंकतं दुक्ख’’न्ति एवं पवत्तं विपरीतदस्सनं. एतं सस्सतग्गहणं. परेति उपेति. तेनाह ‘‘कारकञ्च…पे… अत्थो’’ति. एकमेव गण्हन्तन्ति सतिपि वत्थुभेदे अयोनिसो उप्पज्जनेन एकमेव कत्वा गण्हन्तं.
इध ‘‘आदिम्हियेवा’’ति पदे. ‘‘परंकतं दुक्ख’’न्ति लद्धिया पगेवातिआदिना हेत्थ वुत्तनयानुसारेन अत्थो वेदितब्बो. अयञ्हेत्थ योजना – ‘‘परंकतं दुक्ख’’न्ति लद्धिया पगेव अञ्ञो करोति, अञ्ञो पटिसंवेदयतीति सञ्ञाचित्तविपल्लासा भवन्तीति सब्बं हेट्ठा वुत्तनयेनेव योजेतब्बं. एवं सतीति एवं मुदुके उच्छेदविपल्लासे पठमुप्पन्ने सति पच्छा ‘‘परंकतं दुक्ख’’न्ति अयं लद्धि होतीति सम्बन्धो. कारकोति कम्मस्स कारको. तेन कतन्ति कम्मकारकेन कतं. कम्मुना हि फलस्स वोहारो अभेदोपचारकत्ता. एवन्ति दिट्ठिसहगता वेदना सातसभावा किलेसपरिळाहादिना सपरिस्सया सउपायासा, एवं. ‘‘पगेव इतरे’’ति वुत्तवेदनाय अभितुन्नस्स विद्धस्स. ‘‘वुत्तनयेन योजेतब्ब’’न्ति वत्वा तं योजनं दस्सेन्तो ‘‘तत्राय’’न्तिआदिमाह. उच्छेदन्ति सतो सत्तस्स उच्छेदं विनासं, विभवन्ति अत्थो. असतो हि विनासासम्भवतो अत्थिभावनिबन्धनो उच्छेदो. यथा हेतुफलभावेन पवत्तमानानं सभावधम्मानं सतिपि एकसन्तानपरियापन्नानं भिन्नसन्ततिपतितेहि विसेसे हेतुफलानं परमत्थतो अविनाभावत्ता भिन्नसन्तानपतितानं विय अच्चन्तभेदसन्निट्ठानेन नानत्तनयस्स मिच्छागहणं उच्छेदाभिनिवेसस्स कारणं. एवं हेतुफलभूतानं धम्मानं विज्जमानेपि सभावभेदे एकसन्ततिपरियापन्नताय एकत्तनयेन अच्चन्ताभेदगहणम्पि कारणमेवाति दस्सेतुं ‘‘सत्तस्सा’’ति वुत्तं पाळियं. सन्तानवसेन हि वत्तमानेसु खन्धेसु घनविनिब्भोगाभावेन एकत्तगहणनिबन्धनो सत्तग्गाहो, सत्तस्स च अत्थिभावग्गाहनिबन्धनो उच्छेदग्गाहो, यावायं अत्ता न उच्छिज्जति, तावायं विज्जतियेवाति गहणतो निरुदयविनासो इध उच्छेदोति अधिप्पेतोति ‘‘उच्छेद’’न्ति वुत्तं. विसेसेन नासो विनासो, अभावो. सो पन मंसचक्खुपञ्ञाचक्खूनं दस्सनपथातिक्कमोयेव होतीति वुत्तं ‘‘अदस्सन’’न्ति. अदस्सने हि नाससद्दो लोके निरुळ्होति. सभावविगमो सभावापगमो विभवो. यो हि निरुदयविनासेन उच्छिज्जति, न सो अत्तनो सभावेन तिट्ठति.
एते तेति वा ये इमे तया ‘‘सयंकतं दुक्ख’’न्ति च पुट्ठेन मया ‘‘सो करोति, सो पटिसंवेदयती’’तिआदिना, ‘‘अञ्ञो करोति, अञ्ञो पटिसंवेदयती’’तिआदिना च पटिक्खित्ता सस्सतुच्छेदसङ्खाता अन्ता, ते उभो अन्तेति योजना. अथ वा एते तेति यत्थ पुथू अञ्ञतित्थिया अनुपचितञाणसम्भारताय परमगम्भीरं सण्हं सुखुमं सुञ्ञतं अप्पजानन्ता सस्सतुच्छेदे निमुग्गा सीसं उक्खिपितुं न विसहन्ति, एते ते उभो अन्ते अनुपगम्माति योजना. देसेतीति पठमं ताव अनञ्ञसाधारणे पटिपत्तिधम्मे ञाणानुभावेन मज्झिमाय पटिपदाय ठितो, करुणानुभावेन देसनाधम्मे मज्झिमाय पटिपदाय ठितो धम्मं देसेति. एत्थ हीति हि-सद्दो हेतुअत्थो. यस्मा कारणतो…पे… निद्दिट्ठो, तस्मा मज्झिमाय पटिपदाय ठितो धम्मं देसेतीति योजना. कारणतो फलं दीपितन्ति योजना, अभिधेय्यानुरूपञ्हि लिङ्गवचनानि होन्ति. अस्साति फलस्स. न कोचि कारको वा वेदको वा निद्दिट्ठो, अञ्ञदत्थु पटिक्खित्तो हेतुफलमत्ततादस्सनतो केवलं दुक्खक्खन्धगहणतोति. एत्तावताति ‘‘एते ते, कस्सप…पे… दुक्खक्खन्धस्स निरोधो होती’’ति एत्तकेन ताव पदेन. सेसपञ्हाति ‘‘सयंकतञ्च परंकतञ्च दुक्ख’’न्तिआदिका सेसा चत्तारो पञ्हा. अट्ठकथायं पन ‘‘किं नु खो, भो गोतम, नत्थि दुक्ख’’न्ति पञ्हो पाळियं सरूपेनेव पटिक्खित्तोति न उद्धतो. पटिसेधिता होन्तीति ततियपञ्हो, ताव पठमदुतियपञ्हपटिक्खेपेनेव पटिक्खित्तो, सो हि पञ्हो विसुं विसुं पटिक्खेपेन एकज्झं पटिक्खेपेन च. तेनाह ‘‘उभो…पे… पटिक्खित्तो’’ति. एत्थ च यस्स अत्ता कारको वेदको वा इच्छितो, तेन विपरिणामधम्मो अत्ता अनुञ्ञातो होति. तथा च सति अनुपुब्बधम्मप्पवत्तिया रूपादिधम्मानं विय, सुखादिधम्मानं विय चस्स पच्चयायत्तवुत्तिताय उप्पादवन्तता आपज्जति. उप्पादे च सति अवस्संभावी निरोधोति अनवकासा निच्चताति. तस्स ‘‘सयंकत’’न्ति पठमपञ्हपटिक्खेपो पच्छा चे अत्तनो निरुळ्हस्स समुदयो होतीति पुब्बे विय अनेन भवितब्बं, पुब्बे विय वा पच्छापि. सेसपञ्हाति ततियपञ्हादयो. ततियपञ्हो पटिक्खित्तोति एवञ्च ततियपञ्हो पटिक्खित्तो वेदितब्बो – ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना सततं समितं पच्चयायत्तस्स दीपनेन दुक्खस्स अधिच्चसमुप्पन्नता पटिक्खित्ता, ततो एव तस्स अजाननञ्च पटिक्खित्तं. तेनाह भगवा ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति (म. नि. ३.१२६; सं. नि. २.३९-४०; महाव. १; उदा. १).
यं परिवासं समादियित्वा परिवसतीति योजना. वचनसिलिट्ठतावसेनाति ‘‘भगवतो सन्तिके पब्बज्जं लभेय्यं उपसम्पद’’न्ति याचन्तेन तेन वुत्तवचनसिलिट्ठतावसेन. गामप्पवेसनादीनीति आदि-सद्देन नातिदिवापटिक्कमनं, नवेसियादिगोचरता, सब्रह्मचारीनं किच्चेसु दक्खतादि, उद्देसादीसु तिब्बच्छन्दता, तित्थियानं अवण्णभणने अत्तमनता, बुद्धादीनं अवण्णभणने अनत्तमनता, तित्थियानं वण्णभणने अनत्तमनता, बुद्धादीनं वण्णभणने अत्तमनताति (महाव. ८७) इमेसं सङ्गहो. अट्ठ वत्तानीति इमानि अट्ठ तित्थियवत्तानि पूरेन्तेन. एत्थ च नातिकालेन गामप्पवेसना तत्थ विसुद्धकायवचीसमाचारेन पिण्डाय चरित्वा नातिदिवापटिक्कमनन्ति इदमेकं वत्तं.
अयमेत्थ पाठोति एतस्मिं कस्सपसुत्ते अयं पाठो. अञ्ञत्थाति सीहनादसुत्तादीसु (दी. नि. १.४०२-४०३). घंसित्वा कोट्टेत्वाति यथा सुवण्णं निघंसित्वा अधिकरणिया कोट्टेत्वा निद्दोसमेव गय्हति, एवं परिवासवत्तचरणेन घंसित्वा सुद्धभाववीमंसनेन कोट्टेत्वा सुद्धो एव अञ्ञतित्थियपुब्बो इध गय्हति. तिब्बच्छन्दतन्ति सासनं अनुपविसित्वा ब्रह्मचरियवासे तिब्बच्छन्दतं दळ्हतराभिरुचितं. अञ्ञतरं भिक्खुं आमन्तेसीति नामगोत्तेन अपाकटं एकं भिक्खुं आणापेसि एहिभिक्खुउपसम्पदाय उपनिस्सयाभावतो. गणे निसीदित्वाति भिक्खू अत्तनो सन्तिके पत्तासनवसेन गणे निसीदित्वा.
अचेलकस्सपसुत्तवण्णना निट्ठिता.