१०. पच्चयसुत्तवण्णना

२०. सब्बम्पि सङ्खतं अप्पटिच्च उप्पन्नं नाम नत्थीति पच्चयधम्मोपि अत्तनो पच्चयधम्मं उपादाय पच्चयुप्पन्नो, तथा पच्चयुप्पन्नधम्मोपि अत्तनो पच्चयुप्पन्नं उपादाय पच्चयधम्मोति यथारहं धम्मानं पच्चयपच्चयुप्पन्नता. येसं विनेय्यानं पटिच्चसमुप्पाददेसनायेव सुबोधतो उपट्ठाति, तेसं वसेन सुट्ठु विभागं कत्वा पटिच्चसमुप्पादो देसितो. येसं पन विनेय्यानं तदुभयस्मिं विभज्ज सुते एव धम्माभिसमयो होति, ते सन्धाय भगवा तदुभयं विभज्ज दस्सेन्तो ‘‘पटिच्चसमुप्पादञ्च वो, भिक्खवे, देसेस्सामि पटिच्चसमुप्पन्ने च धम्मे’’ति इमं देसनं आरभीति इममत्थं विभावेन्तो ‘‘सत्था इमस्मिं सुत्ते’’तिआदिमाह. पच्चयस्स भावो पच्चयत्तं, पच्चयनिब्बत्तता. असभावधम्मे न लब्भतीति ‘‘सभावधम्मे’’ति वुत्तं. ननु च जाति जरा मरणञ्च सभावधम्मो न होति, येसं पन खन्धानं जाति जरा मरणञ्च, ते एव सभावधम्मा, अथ कस्मा देसनाय ते गहिताति? नायं दोसो, जाति जरा मरणञ्हि पच्चयनिब्बत्तानं सभावधम्मानं विकारमत्तं, नञ्ञेसं, तस्मा ते गहिताति. उप्पादा वा तथागतानन्ति न विनेय्यपुग्गलानं मग्गफलुप्पत्ति विय जातिपच्चया जरामरणुप्पत्ति तथागतुप्पादायत्ता, अथ खो सा तथागतानं उप्पादेपि अनुप्पादेपि होतियेव. तस्मा सा कामं असङ्खता विय धातु न निच्चा, तथापि ‘‘सब्बकालिका’’ति एतेन जातिपच्चयतो जरामरणुप्पत्तीति दस्सेति. तेनाह ‘‘जातियेव जरामरणस्स पच्चयो’’ति. जातिपच्चयाति च जातिसङ्खातपच्चया. हेतुम्हि निस्सक्कवचनं. ठिताव सा धातु, यायं इदप्पच्चयता जातिया जरामरणस्स पच्चयता तस्स ब्यभिचाराभावतो. इदानि न कदाचि जाति जरामरणस्स पच्चयो न होति होतियेवाति जरामरणस्स पच्चयभावे नियमेति. उभयेनपि यथावुत्तस्स पच्चयभावो यत्थ होति, तत्थ अवस्संभावितं दस्सेति. तेनाह भगवा ‘‘ठिताव सा धातू’’ति. द्वीहि पदेहि. तिट्ठन्तीति यस्स वसेन धम्मानं ठिति, सा इदप्पच्चयता धम्मट्ठितता. धम्मेति पच्चयुप्पन्ने धम्मे. नियमेति विसेसेति. हेतुगतविसेससमायोगो हि हेतुफलस्स एवं धम्मतानियामो एवाति.

अपरो नयो – ठिताव सा धातूति यायं जरामरणस्स इदप्पच्चयता ‘‘जातिपच्चया जरामरण’’न्ति, एसा धातु एस सभावो. तथागतानं उप्पादतो पुब्बे उद्धञ्च अप्पटिविज्झियमानो, मज्झे च पटिविज्झियमानो न तथागतेहि उप्पादितो, अथ खो सम्भवन्तस्स जरामरणस्स सब्बकालं जातिपच्चयतो सम्भवोति ठिताव सा धातु, केवलं पन सयम्भुञाणेन अभिसम्बुज्झनतो ‘‘अयं धम्मो तथागतेन अभिसम्बुद्धो’’ति पवेदनतो च तथागतो ‘‘धम्मसामी’’ति वुच्चति, न अपुब्बस्स उप्पादनतो. तेन वुत्तं ‘‘ठिताव सा धातू’’ति. सा एव ‘‘जातिपच्चया जरामरण’’न्ति एत्थ विपल्लासाभावतो एवं अवबुज्झमानस्स एतस्स सभावस्स, हेतुनो वा तथेव भावतो ठितताति धम्मट्ठितता, जाति वा जरामरणस्स उप्पादट्ठिति पवत्तआयूहन-संयोग-पलिबोध-समुदय-हेतुपच्चयट्ठितीति तदुप्पादादिभावेनस्सा ठितता ‘‘धम्मट्ठितता’’ति फलं पति सामत्थियतो हेतुमेव वदति. धारीयति पच्चयेहीति वा धम्मो, तिट्ठति तत्थ तदायत्तवुत्तिताय फलन्ति ठिति, धम्मस्स ठिति धम्मट्ठिति. धम्मोति वा कारणं पच्चयभावेन फलस्स धारणतो, तस्स ठिति सभावो, धम्मतो च अञ्ञो सभावो नत्थीति धम्मट्ठिति, पच्चयो. तेनाह ‘‘पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाण’’न्ति (पटि. म. मातिका ४). धम्मट्ठिति एव धम्मट्ठितता. सा एव धातु ‘‘जातिपच्चया जरामरण’’न्ति इमस्स सभावस्स, हेतुनो वा अञ्ञथत्ताभावतो, ‘‘न जातिपच्चया जरामरण’’न्ति विञ्ञायमानस्स च तब्भावाभावतो नियामता ववत्थितभावोति धम्मनियामता. फलस्स वा जरामरणस्स जातिया सति सम्भवो धम्मे हेतुम्हि ठितताति धम्मट्ठितता, असति असम्भवो धम्मनियामताति एवं फलेन हेतुं विभावेति, तं ‘‘ठिताव सा धातू’’तिआदिना वुत्तं. इमेसं जरामरणादीनं पच्चयतासङ्खातं इदप्पच्चयतं अभिसम्बुज्झति पच्चक्खकरणेन अभिमुखं बुज्झति याथावतो पटिविज्झति, ततो एव अभिसमेति अभिमुखं समागच्छति, आदितो कथेन्तो आचिक्खति, उद्दिसतीति अत्थो. तमेव उद्देसं परियोसापेन्तो देसेति. यथाउद्दिट्ठमत्तं निद्दिसनवसेन पकारेहि ञापेन्तो पञ्ञापेति. पकारेहि एव पतिट्ठपेन्तो पट्ठपेति. यथानिद्दिट्ठं पटिनिद्देसवसेन विवरति विभजति. विवटञ्हि विभत्तञ्च अत्थं हेतूदाहरणदस्सनेहि पाकटं करोन्तो उत्तानीकरोति. उत्तानीकरोन्तो तथा पच्चक्खभूतं कत्वा निगमनवसेन पस्सथाति चाह.

जातिपच्चया जरामरणन्तिआदीसूति जातिआदीनं जरामरणपच्चयभावेसु. तेहि तेहि पच्चयेहीति यावतकेहि पच्चयेहि यं फलं उप्पज्जमानारहं, अविकलेहि तेहेव तस्स उप्पत्ति, न ऊनाधिकेहीति. तेनाह ‘‘अनूनाधिकेहेवा’’ति. यथा तं चक्खुरूपालोकमनसिकारेहि चक्खुविञ्ञाणस्स सम्भवोति. तेन तंतंफलनिप्फादने तस्सा पच्चयसामग्गिया तप्पकारता तथताति वुत्ताति दस्सेति. सामग्गिन्ति समोधानं, समवायन्ति अत्थो. असम्भवाभावतोति अनुप्पज्जनस्स अभावतो. तथाविधपच्चयसामग्गियञ्हि सतिपि फलस्स अनुप्पज्जने तस्सावितथता सिया. अञ्ञधम्मपच्चयेहीति अञ्ञस्स फलधम्मस्स पच्चयेहि. अञ्ञधम्मानुप्पत्तितोति ततो अञ्ञस्स फलधम्मस्स अनुप्पज्जनतो. न हि कदाचि चक्खुरूपालोकमनसिकारेहि सोतविञ्ञाणस्स सम्भवो अत्थि. यदि सिया, तस्सा सामग्गिया अञ्ञथता नाम सिया, न चेतं अत्थीति ‘‘अनञ्ञथता’’ति वुत्तं. पच्चयतोति पच्चयभावतो. पच्चयसमूहतोति एत्थापि एसेव नयो. इदप्पच्चया एव इदप्पच्चयताति ता-सद्देन पदं वड्ढितं यथा ‘‘देवोयेव देवता’’ति, इदप्पच्चयानं समूहो इदप्पच्चयताति समूहत्थो तासद्दो यथा ‘‘जनानं समूहो जनता’’ति इममत्थं सन्धायाह ‘‘लक्खणं पनेत्थ सद्दसत्थतो वेदितब्ब’’न्ति.

न निच्चं सस्सतन्ति अनिच्चं. जरामरणं न अनिच्चं सङ्खारानं विकारभावतो अनिप्फन्नत्ता, तथापि ‘‘अनिच्च’’न्ति परियायेन वुत्तं. एस नयो सङ्खतादीसुपि. समागन्त्वा कतं सहितेहेव पच्चयेहि निब्बत्तेतब्बतो यथासभावं समेच्च सम्भुय्य पच्चयेहि कतन्ति सङ्खतं. पच्चयारहं पच्चयं पटिच्च न विना तेन सहितसमेतमेव उप्पन्नन्ति पटिच्चसमुप्पन्नं. तेनाह ‘‘पच्चये निस्साय उप्पन्न’’न्ति. खयसभावन्ति भिज्जनसभावं. विगच्छनकसभावन्ति सकभावतो अपगच्छनकसभावं. विरज्जनकसभावन्ति पलुज्जनकसभावं. निरुज्झनकसभावन्ति खणभङ्गवसेन पभङ्गुसभावं. वुत्तनयेनाति जराय वुत्तनयेन. जनकप्पच्चयानं कम्मादीनं. किच्चानुभावक्खणेति एत्थ किच्चानुभावो नाम यथा पवत्तमाने पच्चये तस्स फलं उप्पज्जति, तथा पवत्ति, एवं सन्तस्स पवत्तनक्खणे. इदं वुत्तं होति – यस्मिं खणे पच्चयो अत्तनो फलुप्पादनं पति ब्यावटो नाम होति, इमस्मिं खणे ये धम्मा रूपादयो उपलब्भन्ति ततो पुब्बे, पच्छा च अनुपलब्भमाना, तेसं ततो उप्पत्ति निद्धारीयति, एवं जातियापि सा निद्धारेतब्बा तंखणूपलद्धतोति. यदि एवं निप्परियायतोव जातिया कुतोचि उप्पत्ति सिद्धि, अथ कस्मा ‘‘एकेन परियायेना’’ति वुत्तन्ति? जायमानधम्मानं विकारभावेन उपलद्धब्बत्ता. यदि निप्फन्नधम्मा विय जाति उपलब्भेय्य, निप्परियायतोव तस्सा कुतोचि उप्पत्ति सिया, न चेवं उपलब्भति, अथ खो अनिप्फन्नत्ता विकारभावेन उपलब्भति. तस्मा ‘‘एकेन परियायेनेत्थ अनिच्चातिआदीनि युज्जन्ती’’ति वुत्तं. न पन जरामरणे, जनकप्पच्चयानं किच्चानुभावक्खणे तस्स अलब्भनतो. तेनेव ‘‘एत्थ च अनिच्चन्ति…पे… अनिच्चं नाम जात’’न्ति वुत्तं.

सविपस्सनायाति एत्थ सह-सद्दो अप्पधानभावदीपनो ‘‘समक्खिकं, समकस’’न्तिआदीसु विय. अप्पधानभूता हि विपस्सना, यथाभूतदस्सनमग्गपञ्ञा पजानाति. ‘‘पुरिमं अन्त’’न्ति वुच्चमाने पच्चुप्पन्नभावस्सपि गहणं सियाति ‘‘पुरिमं अन्तं अतीत’’न्ति वुत्तं. विज्जमानतञ्च अविज्जमानतञ्चाति सस्सतासङ्कं निस्साय ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्ति अतीते अत्तनो विज्जमानतं, अधिच्चसमुप्पत्तिआसङ्कं निस्साय ‘‘यतो पभुति अहं, ततो पुब्बे न नु खो अहोसि’’न्ति अतीते अत्तनो अविज्जमानतञ्च कङ्खति. कस्मा? विचिकिच्छाय आकारद्वयावलम्बनतो. तस्सा पन अतीतवत्थुताय गहितत्ता सस्सताधिच्चसमुप्पत्तिआकारनिस्सितता दस्सिता एव. आसप्पनपरिसप्पनपवत्तिकं कत्थचिपि अप्पटिवत्तिहेतुभूतं विचिकिच्छं कस्मा उप्पादेतीति न विचारेतब्बमेतन्ति दस्सेन्तो आह ‘‘किंकारणन्ति न वत्तब्ब’’न्ति. कारणं वा विचिकिच्छाय अयोनिसोमनसिकारो, तस्स अन्धबालपुथुज्जनभावो, अरियानं अदस्साविता चाति दट्ठब्बं. जातिलिङ्गुपपत्तियोति खत्तियब्राह्मणादिजातिं, गहट्ठपब्बजितादिलिङ्गं, देवमनुस्सादिउपपत्तिञ्च. निस्सायाति उपादाय. तस्मिं काले यं सन्तानं मज्झिमं पमाणं, तेन युत्तो पमाणिको, तदभावतो अधिकभावतो वा ‘‘अप्पमाणिको’’ति वेदितब्बो. केचीति सारसमासाचरिया. ते हि ‘‘कथं नु खो’’ति इस्सरेन वा ब्रह्मुना वा पुब्बकतेन वा अहेतुतो वा निब्बत्तोति चिन्तेतीति वदन्ति. अहेतुतो निब्बत्तिकङ्खापि हि हेतुपरामसनमेवाति. परम्परन्ति पुब्बापरप्पवत्तिं. अद्धानन्ति कालाधिवचनं, तञ्च भुम्मत्थे उपयोगवचनं दट्ठब्बं. विज्जमानतञ्च अविज्जमानतञ्चाति सस्सतासङ्कं निस्साय ‘‘भविस्सामि नु खो अहं अनागतमद्धान’’न्ति अनागते अत्तनो विज्जमानतं, उच्छेदासङ्कं निस्साय ‘‘यस्मिञ्च अत्तभावे उच्छेदनकङ्खा, ततो परं नु खो भविस्सामी’’ति अनागते अत्तनो अविज्जमानतञ्च कङ्खतीति हेट्ठा वुत्तनयेन योजेतब्बं.

पच्चुप्पन्नं अद्धानन्ति अद्धापच्चुप्पन्नस्स इधाधिप्पेतत्ता ‘‘पटिसन्धिमादिं कत्वा’’तिआदि वुत्तं. ‘‘इदं कथं, इदं कथ’’न्ति पवत्तनतो कथंकथा, विचिकिच्छा, सा अस्स अत्थीति कथंकथी. तेनाह ‘‘विचिकिच्छी’’ति. का एत्थ चिन्ता? उम्मत्तको विय बालपुथुज्जनोति पटिकच्चेव वुत्तन्ति अधिप्पायो. तं महामाताय पुत्तं. मुण्डेसुन्ति मुण्डेन अनिच्छन्तं जागरणकाले न सक्काति सुत्तं मुण्डेसुं कुलधम्मवसेन यथा एकच्चे कुलतापसा. राजभयेनाति च वदन्ति. सीतिभूतन्ति इदं मधुरकभावप्पत्तिया कारणवचनं. ‘‘सेतभूत’’न्तिपि पाठो, उदके चिरट्ठानेन सेतभावं पत्तन्ति अत्थो.

अत्तनो खत्तियभावं कङ्खति कण्णो विय सूतपुत्तसञ्ञी, सूतपुत्तसञ्ञीति सूरियदेवपुत्तस्स पुत्तसञ्ञी. जातिया विभावियमानाय ‘‘अह’’न्ति तस्स अत्तनो परामसनं सन्धायाह ‘‘एवम्पि सिया कङ्खा’’ति. मनुस्सापि च राजानो वियाति मनुस्सापि च केचि एकच्चे राजानो वियाति अधिप्पायो. वुत्तनयमेव ‘‘सण्ठानाकारं निस्साया’’तिआदिना. एत्थाति ‘‘कथं नु खोस्मी’’ति पदे. अब्भन्तरे जीवोति परपरिकप्पितं अन्तरत्तानं वदति. सोळसंसादीनन्ति आदि-सद्देन सरीरपरिमाणअङ्गुट्ठ-यवपरमाणुपरिमाणतादिके सङ्गण्हाति. सत्तपञ्ञत्ति जीवविसयाति दिट्ठिगतिकानं मतिमत्तं, परमत्थतो पन सा अत्तभावविसयावाति आह ‘‘अत्तभावस्स आगतिगतिट्ठान’’न्ति. यतायं आगतो, यत्थ च गमिस्सति, तं ठानन्ति अत्थो. सोतापन्नो अधिप्पेतो विचिकिच्छापहानस्स दिट्ठत्ता. इतरेपि तयोति सकदागामीआदयो अवारिता एव. ‘‘अयञ्च…पे… सुदिट्ठा’’ति निप्पदेसतो सच्चसंपटिवेधस्स जोतितत्ता.

पच्चयसुत्तवण्णना निट्ठिता.

आहारवग्गवण्णना निट्ठिता.