१. आहारसुत्तवण्णना
११. आहरन्तीति आनेन्ति उप्पादेन्ति, उपत्थम्भेन्तीति अत्थो. निब्बत्ताति पसुता. भूता नाम यस्मा ततो पट्ठाय लोके जातवोहारो पटिसन्धिग्गहणतो पन पट्ठाय याव मातुकुच्छितो निक्खन्तो, ताव सम्भवेसिनो, एस ताव गब्भसेय्यकेसु भूतसम्भवेसिविभागो, इतरेसु पन पठमचित्तादिवसेन वुत्तो. सम्भव-सद्दो चेत्थ गब्भसेय्यकानं वसेन पसूतिपरियायो, इतरेसं वसेन उप्पत्तिपरियायो. पठमचित्तपठमइरियापथक्खणेसु हि ते सम्भवं उप्पत्तिं एसन्ति उपगच्छन्ति नाम, न ताव भूता उपपत्तिया न सुप्पतिट्ठितत्ता, भूता एव सब्बसो भवेसनाय समुच्छिन्नत्ता. न पुन भविस्सन्तीति अवधारणेन निवत्तितमत्थं दस्सेति. यो च ‘‘कालघसो भूतो’’तिआदीसु भूत-सद्दस्स खीणासववाचिता दट्ठब्बा. वा-सद्दो चेत्थ सम्पिण्डनत्थो ‘‘अग्गिना वा उदकेन वा’’तिआदीसु विय.
यथासकं पच्चयभावेन अत्तभावस्स पठपनमेवेत्थ आहारेहि कातब्बअनुग्गहो होतीति अधिप्पायेनाह ‘‘वचनभेदो…पे… एको येवा’’ति. सत्तस्स उप्पन्नधम्मानन्ति सत्तस्स सन्ताने उप्पन्नधम्मानं. यथा ‘‘वस्ससतं तिट्ठती’’ति वुत्ते अनुप्पबन्धवसेन पवत्ततीति वुत्तं होति, एवं ठितियाति अनुप्पबन्धवसेन पवत्तियाति अत्थो, सा पन अविच्छेदोति आह ‘‘अविच्छेदाया’’ति. अनुप्पबन्धधम्मुप्पत्तिया सत्तसन्तानो अनुग्गहितो नाम होतीति आह ‘‘अनुप्पन्नानं उप्पादाया’’ति. एतानीति ठितिअनुग्गहपदानि. उभयत्थ दट्ठब्बानि न यथासम्बन्धतो.
वत्थुगता ओजा वत्थु विय तेन सद्धिं अज्झोहरितब्बतं गच्छतीति वुत्तं ‘‘अज्झोहरितब्बको आहारो’’ति, निब्बत्तितओजं पन सन्धाय ‘‘कबळीकारो आहारो ओजट्ठमकरूपानि आहरती’’ति वक्खति. ओळारिकता अप्पोजताय न वत्थुनो थूलताय कथिनताय वा, तस्मा यस्मिं वत्थुस्मिं परित्ता ओजा होति, तं ओळारिकं. सप्पादयो दुक्खुप्पादकताय ओळारिका वेदितब्बा. विसाणादीनं तिवस्सछड्डितानं पूतिभूतत्ता मुदुकताति वदन्ति. तरच्छखेळतेमितताय पन तथाभूतानं तेसं मुदुकता. धम्मसभावो हेस. ससानं आहारो सुखुमो तरुणतिणसस्सखादनतो. सकुणानं आहारो सुखुमो तिणबीजादिखादनतो. पच्चन्तवासीनं आहारो सुखुमो मासमुग्गकुरादिभोजनत्ता. तेसन्ति परनिम्मितवसवत्तीनं. सुखुमोत्वेवाति न किञ्चि उपादाय, अथ खो सुखुमोइच्चेव निट्ठं पत्तो ततो परमसुखुमस्स अभावतो.
वत्थुवसेन पनेत्थ आहारस्स ओळारिकसुखुमता वुत्ता, सा चस्स अप्पोजमहोजताहि वेदितब्बाति दस्सेतुं ‘‘एत्थ चा’’तिआदिमाह. परिस्सयन्ति खुदावसेन उप्पन्नं विहिंसं सरीरदरथं. विनोदेतीति वत्थु तस्स विनोदनमत्तं करोति. न पन सक्कोति पालेतुन्ति सरीरं यापेतुं नप्पहोति निरोजत्ता. न सक्कोति परिस्सयं विनोदेतुं आमासयस्स अपूरणतो.
छब्बिधोपीति इमिना कस्सचि फस्सस्स अनवसेसितब्बतमाह. देसनक्कमेनेवेत्थ फस्सादीनं दुतियादिता, न अञ्ञेन कारणेनाति आह ‘‘देसनानयो एव चेसा’’तिआदि. मनसो सञ्चेतना न सत्तस्साति दस्सनत्थं मनोगहणं यथा ‘‘चित्तस्स ठिति, चेतोविमुत्ति चा’’ति आह ‘‘मनोसञ्चेतनाति चेतनावा’’ति. चित्तन्ति यं किञ्चि चित्तमेव. एकरासिं कत्वाति एकज्झं गहेत्वा विभागं अकत्वा, सामञ्ञेन गहिताति अत्थो. तत्थ लब्भमानं उपादिण्णकादिविभागं दस्सेतुं ‘‘कबळीकारो आहारो’’तिआदि वुत्तं. आहारत्थं न साधेन्तीति तादिसस्स आहारस्स अनाहरणतो. तदापीति भिज्जित्वा विगतकालेपि. उपादिण्णकाहारोति वुच्चन्तीति केचि. इदं पन आचरियानं न रुच्चति तदा उपादिण्णकरूपस्सेव अभावतो. पटिसन्धिचित्तेनेव सहजाताति लक्खणवचनमेतं, सब्बायपि कम्मजरूपपरियापन्नाय ओजाय अत्थिभावस्स अविच्छेदप्पवत्तिसम्भवदस्सनत्थो. सत्तमाति उप्पन्नदिवसतो पट्ठाय याव सत्तमदिवसापि. रूपसन्ततिं पालेति पवेणिघटनवसेन. अयमेवाति कम्मजओजा. कम्मजओजं पन पटिच्च उप्पन्नओजा अकम्मजत्ता अनुपादिण्णआहारोत्वेव वेदितब्बो. अनुपादिण्णका फस्सादयो वेदितब्बाति आनेत्वा सम्बन्धो. लोकुत्तरा फस्सादयो कथन्ति आह ‘‘लोकुत्तरा पन रुळ्हीवसेन कथिता’’ति. यस्मा तेसं कुसलानं उपेतपरियायो नत्थि, तस्मा विपाकानं उपादिण्णपरियायो नत्थेवाति अनुपादिण्णपरियायोपि रुळ्हीवसेन वुत्तोति वेदितब्बो.
पुब्बे ‘‘आहाराति पच्चया’’ति वुत्तत्ता यदि पच्चयट्ठो आहारट्ठोतिआदिना चोदेति, अथ कस्मा इमे एव चत्तारो वुत्ताति अथ कस्मा चत्तारोव वुत्ता. इमे एव च वुत्ताति योजना. विसेसप्पच्चयत्ताति एतेन यथा अञ्ञे पच्चयधम्मा अत्तनो पच्चयुप्पन्नस्स पच्चयाव होन्ति, इमे पन तथा च होति अञ्ञथा चाति समानेपि पच्चयत्ते अतिरेकपच्चया होन्ति, तस्मा ‘‘आहाराति वुत्ता’’ति इममत्थं दस्सेति. इदानि तं अतिरेकपच्चयतं दस्सेतुं ‘‘विसेसपच्चयो ही’’तिआदि वुत्तं. विसेसप्पच्चयो रूपकायस्स कबळीकारो आहारो उपथम्भकभावतो. तेनाह अट्ठकथायं ‘‘रूपारूपानं उपथम्भकत्तेन उपकारका चत्तारो आहारा आहारपच्चयो’’ति (विसुद्धि. २.६०८; पट्ठा. अट्ठ. पच्चयुद्देसवण्णना). उपथम्भकत्तञ्हि सतीपि जनकत्ते अरूपीनं आहारानं आहारजरूपसमुट्ठानकरूपाहारस्स च होति, असति पन उपथम्भकत्ते आहारानं जनकत्तं नत्थीति उपथम्भकत्तं पधानं. जनयमानोपि हि आहारो अविच्छेदवसेन उपथम्भयमानो एव जनेतीति उपथम्भकभावो एव आहारभावो. वेदनाय फस्सो विसेसपच्चयो. ‘‘फस्सपच्चया वेदना’’ति हि वुत्तं. ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति वचनतो विञ्ञाणस्स मनोसञ्चेतना. ‘‘चेतना तिविधं भवं जनेती’’ति हि वुत्तं. ‘‘विञ्ञाणपच्चया नामरूप’’न्ति पन वचनतो नामरूपस्स विञ्ञाणं विसेसपच्चयो. न हि ओक्कन्तविञ्ञाणाभावे नामरूपस्स अत्थि सम्भवो. यथाह ‘‘विञ्ञाणञ्च हि, आनन्द, मातुकुच्छिस्मिं न ओक्कमिस्सथ, अपि नु खो नामरूपं मातुकुच्छिस्मिं समुच्चिस्सथा’’तिआदि (दी. नि. २.११५). वुत्तमेवत्थं सुत्तेन साधेतुं ‘‘यथाहा’’तिआदि वुत्तं.
एवं यदिपि पच्चयत्थो आहारत्थो, विसेसपच्चयत्ता पन इमेव आहाराति वुत्ताति तं नेसं विसेसपच्चयतं अविभागतो दस्सेत्वा इदानि विभागतो दस्सेतुं ‘‘को पनेत्था’’तिआदि आरद्धं. मुखे ठपितमत्तो एव असङ्खादितो, तत्तकेनापि अब्भन्तरस्स आहारस्स पच्चयो होति एव. तेनाह ‘‘अट्ठ रूपानि समुट्ठापेती’’ति. सुखवेदनाय हितो सुखवेदनीयो. सब्बथापीति चक्खुसम्फस्सादिवसेन. यत्तका फस्सस्स पकारभेदा, तेसं वसेन सब्बप्पकारोपि फस्साहारो यथारहं तिस्सो वेदना आहरति, अनाहारको नत्थि.
सब्बथापीति इधापि फस्साहारे वुत्तनयानुसारेन अत्थो वेदितब्बो. तिसन्ततिवसेनाति कायदसकं भावदसकं वत्थुदसकन्ति तिविधसन्ततिवसेन. सहजातादिपच्चयनयेनाति सहजातादिपच्चयविधिना. पटिसन्धिविञ्ञाणञ्हि अत्तना सहजातनामस्स सहजातअञ्ञमञ्ञविपाकिन्द्रियसम्पयुत्तअत्थिअविगतपच्चयेहि पच्चयो होन्तोयेव आहारपच्चयताय तं आहारेति वुत्तं, सहजातरूपेसु पन वत्थुनो सम्पयुत्तपच्चयं ठपेत्वा विप्पयुत्तपच्चयेन, सेसरूपानं अञ्ञमञ्ञपच्चयञ्च ठपेत्वा इतरेसं पच्चयानं वसेन योजना कातब्बा. तानीति नपुंसकनिद्देसो अनपुंसकानम्पि नपुंसकेहि सह वचनतो. सासवकुसलाकुसलचेतनाव वुत्ता विसेसपच्चयभावदस्सनं हेतन्ति, तेनाह ‘‘अविसेसेन पना’’तिआदि. पटिसन्धिविञ्ञाणमेव वुत्तन्ति एत्थापि एसेव नयो. यथा तस्स तस्स फलस्स विसेसतो पच्चयताय एतेसं आहारत्थो, एवं अविसेसतोपीति दस्सेतुं ‘‘अविसेसेना’’तिआदि वुत्तं. तत्थ तंसम्पयुत्ततंसमुट्ठानधम्मानन्ति तेहि फस्सादीहि सम्पयुत्तधम्मानञ्चेव तंसमुट्ठानरूपधम्मानञ्च. तत्थ सम्पयुत्तग्गहणं यथारहतो दट्ठब्बं, समुट्ठानग्गहणं पन अविसेसतो.
उपत्थम्भेन्तो आहारकिच्चं साधेतीति उपत्थम्भेन्तो एव रूपं समुट्ठापेति, ओजट्ठमकसमुट्ठापनेनेव पनस्स उपथम्भनकिच्चसिद्धि. फुसन्तोयेवाति फुसनकिच्चं करोन्तो एव. आयूहमानावाति चेतयमाना एव अभिसन्दहन्ती एव. विजानन्तमेवाति उपपत्तिपरिकप्पनवसेन विजानन्तमेव आहारकिच्चं साधेतीति योजना. सब्बत्थ आहारकिच्चसाधनञ्च तेसं वेदनादिउप्पत्तिहेतुताय अत्तभावस्स पवत्तनमेव. कायट्ठपनेनाति कस्मा वुत्तं, ननु कम्मजादिरूपं कम्मादिनाव पवत्ततीति चोदनं सन्धायाह ‘‘कम्मजनितोपी’’तिआदि.
उपादिण्णरूपसन्ततिया उपत्थम्भनेनेव उतुचित्तजरूपसन्ततीनम्पि उपत्थम्भनसिद्धि होतीति ‘‘द्विन्नं रूपसन्ततीन’’न्ति वुत्तं. उपत्थम्भनमेव सन्धाय ‘‘अनुपालको हुत्वा’’ति च वुत्तं. रूपकायस्स ठितिहेतुता हि यापना अनुपालना. सुखादिवत्थुभूतन्ति सुखादीनं पवत्तिट्ठानभूतं. आरम्मणम्पि हि वसति एत्थ आरम्मणकरणवसेन तदारम्मणा धम्माति वत्थूति वुच्चति. फुसन्तोयेवाति इदं फस्सस्स फुसनसभावत्ता वुत्तं. न हि धम्मानं सभावेन विना पवत्ति अत्थि, वेदनापवत्तिया विना सत्तानं सन्धावनता नत्थीति आह ‘‘सुखादि…पे… होती’’ति. न चेत्थ सञ्ञीभवकथायं असञ्ञीभवो दस्सेतब्बो, तस्सापि वा कारणभूतवेदनापवत्तिवसेनेव ठितिया हेतुनो अब्यापितत्ता, तथा हि ‘‘मनोसञ्चेतना…पे… भवमूलनिप्फादनतो सत्तानं ठितिया होती’’ति वुत्ता. ततो एव विञ्ञाणं विजानन्तमेवाति उपपत्तिपरिकप्पनवसेन विजानन्तमेवाति वुत्तोवायमत्थो.
चत्तारि भयानि दट्ठब्बानि आदीनवविभावनतो. निकन्तीति निकामना, रसतण्हं सन्धाय वदति. सा हि कबळीकारे आहारे बलवती, तेनेवेत्थ अवधारणं कतं. भायति एतस्माति भयं, निकन्तियेव भयं महानत्थहेतुतो. उपगमनं विसयिन्द्रियविञ्ञाणेसु विसयविञ्ञाणेसु च सङ्गतिवसेन पवत्ति, तं वेदनादिउप्पत्तिहेतुताय ‘‘भय’’न्ति वुत्तं. अवधारणे पयोजनं वुत्तनयमेव. सेसद्वयेपि एसेव नयो. आयूहनं अभिसन्दहनं, संविधानन्तिपि वदन्ति. तं भवूपपत्तिहेतुताय ‘‘भय’’न्ति वुत्तं. अभिनिपातो तत्थ तत्थ भवे पटिसन्धिग्गहणवसेन विञ्ञाणस्स निब्बत्ति. सो भवूपपत्तिहेतुकानं सब्बेसं अनत्थानं मूलकारणताय ‘‘भय’’न्ति वुत्तं. इदानि निकन्तिआदीनं सप्पटिभयतं वित्थारतो दस्सेतुं ‘‘किं कारणा’’तिआदि आरद्धं. तत्थ निकन्तिं कत्वाति आलयं जनेत्वा, तण्हं उप्पादेत्वाति अत्थो. सीतादीनं पुरक्खताति सीतादीनं पुरतो ठिता, सीतादीहि बाधियमानाति अत्थो.
फस्सं उपगच्छन्ताति चक्खुसम्फस्सादिभेदं फस्सं पवत्तेन्ता. फस्सस्सादिनोति कायसम्फस्सवसेन फोट्ठब्बसङ्खातस्स अस्सादनसीला. कायसम्फस्सवसेन हि सत्तानं फोट्ठब्बतण्हा पवत्ततीति दस्सेतुं फस्साहारादीनवदस्सने फोट्ठब्बारम्मणं उद्धटं ‘‘परेसं रक्खितगोपितेसू’’तिआदिना. फस्सस्सादिनोति वा फस्साहारस्सादिनोति अत्थो. सति हि फस्साहारे सत्तानं फस्सारम्मणे अस्सादो, नासति, तेनाह ‘‘फस्सस्सादमूलक’’न्तिआदि.
जातिनिमित्तस्स भयस्स अभिनिपातसभावेन गहितत्ता ‘‘तम्मूलक’’न्ति वुत्तं. कम्मायूहननिमित्तन्ति अत्थो. भयं सब्बन्ति पञ्चवीसति, तिविधमहाभयं, अञ्ञञ्च सब्बभयं आगतमेव होति भयाधिट्ठानस्स अत्तभावस्स निप्फादनतो.
अभिनिपततीति अभिनिब्बत्तति. पठमाभिनिब्बत्ति हि सत्तानं तत्थ तत्थ अङ्गारकासुसदिसे भवे अभिनिपातसदिसी. तम्मूलकत्ताति नामरूपनिब्बत्तिमूलकत्ता. सब्बभयानं अभिनिपातोयेव भयं भायति एतस्माति कत्वा.
अप्पेति वियाति फलस्स अत्तलाभहेतुभावतो कारणं, तं निय्यादेति विय. तन्ति फलं. ततोति कारणतो. एतेसन्ति आहारानं. यथावुत्तेनाति ‘‘फलं निदेती’’तिआदिना वुत्तप्पकारेन अत्थेन. सब्बपदेसूति ‘‘वेदनानिरोधेना’’तिआदीसु सब्बेसु पदेसु.
पटिसन्धिं आदिं कत्वाति पटिसन्धिक्खणं आदिं कत्वा. उपादिण्णकआहारे सन्धाय ‘‘अत्तभावसङ्खातानं आहारान’’न्ति वुत्तं. ते हि निप्परियायतो तण्हानिदाना. परिपुण्णायतनानं सत्तानं सत्तसन्ततिवसेनाति परिपुण्णायतनानं सभावकानं चक्खु सोतं घानं जिव्हा कायो भावो वत्थूति इमेसं सत्तन्नं सन्ततीनं वसेन. सेसानं अपरिपुण्णायतनानं अन्धबधिरअभावकानं. ऊनऊनसन्ततिवसेनाति चक्खुना, सोतेन, तदुभयेन, भावेन च ऊनऊनसन्ततिवसेन. पटिसन्धियं जाता पटिसन्धिका. पठमभवङ्गचित्तक्खणादीति आदि-सद्देन तदारम्मणचित्तस्स सङ्गहो दट्ठब्बो.
तण्हायपि निदानं जानातीति योजना. तण्हानिदानन्तिपि पाठो. वट्टं दस्सेत्वाति सरूपतो नयतो च सकलमेव वट्टं दस्सेत्वा. इदानि तमत्थं वित्थारतो विभावेतुं ‘‘इमस्मिञ्च पन ठाने’’तिआदिमाह. अतीताभिमुखं देसनं कत्वाति पच्चुप्पन्नभवतो पट्ठाय अतीतधम्माभिमुखं तब्बिसयं देसनं कत्वा तथाकारणेन. अतीतेन वट्टं दस्सेतीति अतीतभवेन कम्मकिलेसविपाकवट्टं दस्सेति. अत्तभावोति पच्चुप्पन्नो अत्तभावो. यदि एवं कस्मा ‘‘अतीतेन वट्टं दस्सेती’’ति वुत्तन्ति? नायं दोसो ‘‘अतीतेनेवा’’ति अनवधारणतो, एवञ्च कत्वा अतीताभिमुखग्गहणं जनककम्मं गहितं, तण्हासीसेन नानन्तरियभावतो. न हि कम्मुना विना तण्हा भवनेत्ति युज्जति.
तं कम्मन्ति तण्हासीसेन वुत्तकम्मं. दस्सेतुन्ति तं अतीतं अत्तभावं दस्सेतुं. तस्सत्तभावस्स जनकं कम्मन्ति तस्स यथावुत्तस्स अत्तभावस्स जनकं. ततो परम्पि अत्तभावं आयूहितं कम्मं दस्सेतुं वुत्तं. अविज्जा च नाम तण्हा विय कम्मत्ताति कम्मस्सेव गहणं. द्वीसु ठानेसूति आहारग्गहणेन वेदनादिग्गहणेनाति द्वीसु ठानेसु. अत्तभावोति पच्चुप्पन्नकालिको अतीतकालिको च अत्तभावो. पुन द्वीसूति तण्हाग्गहणे अविज्जासङ्खारग्गहणेति द्वीसु ठानेसु. तस्स जनकन्ति पच्चुप्पन्नस्स चेव अतीतस्स च अत्तभावस्स जनकं कम्मं वुत्तन्ति योजना. कम्मग्गहणेन चेत्थ यत्थ तं कम्मं आयूहितं, सा अतीता जाति अत्थतो दस्सिता होति. तेन संसारवट्टस्स अनमतग्गतं दीपेति. सङ्खेपेनाति सङ्खेपेन हेतुपञ्चकफलपञ्चकग्गहणम्पि हि सङ्खेपो एव हेतुफलभावेन सङ्गहेतब्बधम्मानं अनेकविधत्ता.
यदि अतीतेन वट्टं दस्सितं, एवं सति सप्पदेसा पटिच्चसमुप्पादधम्मदेसना होतीति दस्सेन्तो ‘‘तत्राय’’न्तिआदिमाह. तेन हि यदिपि सरूपतो अनागतेन वट्टं इध न दस्सितं, नयतो पन तस्सपि दस्सितत्ता निप्पदेसा एव पटिच्चसमुप्पाददेसनाति दस्सेति. इदानि तमत्थं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. उदकपिट्ठे निपन्नन्ति उदकं परिप्लववसेन निपन्नं. परभागन्ति परउत्तमङ्गभागं. ओरतोति ततो अपरभागतो ओलोकेन्तो. अपरिपुण्णोति विकलावयवो. एवंसम्पदन्तिआदि उपमाय संसन्दनं.
यथा हि गीवा सरीरसन्धारककण्डरानं मूलट्ठानभूता, एवं अत्तभावसन्धारकानं सङ्खारानं मूलभूता तण्हाति वुत्तं ‘‘गीवाय दिट्ठकालो’’ति. यथा वेदनादिअनेकावयवसमुदायभूतो अत्तभावो, एवं फासुकपिट्ठिकण्डकादिअनेकावयवसमुदायभूता पिट्ठीति ‘‘पिट्ठिया…पे… तस्स दिट्ठकालो’’ति वुत्तं. तण्हासङ्खातन्ति तण्हाय कथितं. इध देसनाय पच्चया अविज्जासङ्खारा वेदितब्बाति ‘‘नङ्गुट्ठमूलस्स दिट्ठकालो विया’’ति वुत्तं. तथा हि परियोसाने ‘‘नङ्गुट्ठमूलं पस्सेय्या’’ति उपमादस्सनं कतं. नयतो परिपुण्णभावग्गहणं वेदितब्बं. पाळियं अनागतस्सापि पच्चयवट्टस्स हेतुवसेन फलवसेन वा परिपुण्णभावस्स मुखमत्तदस्सनीयत्ता आदितो फलहेतुसन्धि, मज्झे हेतुफलसन्धि, अन्तेपि फलहेतुसन्धीति एवं तिसन्धिकत्ता चतुसङ्खेपमेव वट्टं दस्सितन्ति.
आहारसुत्तवण्णना निट्ठिता.