२. मोळियफग्गुनसुत्तवण्णना

१२. इमस्मिंयेव ठानेति ‘‘चत्तारोमे भिक्खु…पे… आहारा’’ति एवं चत्तारो आहारे सरूपतो दस्सेत्वा ‘‘इमे खो भिक्खवे…पे… अनुग्गहाया’’ति निगमनवसेन दस्सिते इमस्मिंयेव ठाने. देसनं निट्ठापेसि चतुआहारविभागदीपकं देसनं उद्देसवसेनेव निट्ठापेसि, उपरि आवज्जेत्वा तुण्ही निसीदि. दिट्ठिगतिकोति अत्तदिट्ठिवसेन दिट्ठिगतिको. वरगन्धवासितन्ति सभावसिद्धेन चन्दनगन्धेन चेव तदञ्ञनानागन्धेन च परिभावितत्ता वरगन्धवासितं. रतनचङ्कोटवरेनाति रतनमयेन उत्तमचङ्कोटकेन. देसनानुसन्धिं घटेन्तोति यथादेसिताय देसनाय अनुसन्धिं घटेन्तो, यथा उपरिदेसना वद्धेय्य, एवं उस्साहं करोन्तो. विञ्ञाणाहारं आहारेतीति तस्स आहारणकिरियाय वुत्तपुच्छाय तं दिट्ठिगतं उप्पाटेन्तो ‘‘यो एतं…पे… भुञ्जति वा’’ति आह.

विञ्ञाणाहारे नाम इच्छिते तस्स उपभुञ्जकेनपि भवितब्बं, सो ‘‘को नु खो’’ति अयं पुच्छाय अधिप्पायो. उतुसमयेति गब्भवुट्ठानसमये. सो हि उतुसमयस्स मत्तकसमयत्ता तथा वुत्तो. ‘‘उदकेन अण्डानि मा नस्सन्तू’’ति महासमुद्दतो निक्खमित्वा. गिज्झपोतका विय आहारसञ्चेतनाय तानि कच्छपण्डानि मनोसञ्चेतनाहारेन यापेन्तीति अयं तस्स थेरस्स लद्धि. किञ्चापि अयं लद्धीति फस्समनोसञ्चेतनाहारेसु किञ्चापि थेरस्स युत्ता अयुत्ता वा अयं लद्धि. इमं पञ्हन्ति ‘‘को नु खो, भन्ते, विञ्ञाणाहारं आहारेती’’ति इमं पञ्हं एताय यथावुत्ताय लद्धिया न पन पुच्छति, अथ खो सत्तुपलद्धिया पुच्छतीति अधिप्पायो. सोति दिट्ठिगतिको. न निग्गहेतब्बो उम्मत्तकसदिसत्ता अधिप्पायं अजानित्वा पुच्छाय कतत्ता. तेनाह ‘‘आहारेतीति नाहं वदामी’’तिआदि.

तस्मिं मया एवं वुत्तेति तस्मिं वचने मया ‘‘आहारेती’’ति एवं वुत्ते सति. अयं पञ्होति ‘‘को नु खो, भन्ते, विञ्ञाणाहारं आहारेती’’ति अयं पञ्हो युत्तो भवेय्य. एवं पुच्छिते पञ्हेति सत्तुपलद्धिं अनादाय ‘‘कतमस्स धम्मस्स पच्चयो’’ति एवं धम्मपवत्तवसेनेव पञ्हे पुच्छिते. तेनेव विञ्ञाणेनाति तेनेव पटिसन्धिविञ्ञाणेन सह उप्पन्नं नामञ्च रूपञ्च अतीतभवे दिट्ठिगतिकस्स वसेन आयतिं पुनब्भवाभिनिब्बत्तीति इधाधिप्पेतं. नामरूपे जाते सतीति नामरूपे निब्बत्ते तप्पच्चयभूतं भिन्दित्वा सळायतनं होति.

तत्रायं पच्चयविभागो – नामन्ति वेदनादिखन्धत्तयं इधाधिप्पेतं, रूपं पन सत्तसन्ततिपरियापन्नं, नियमतो चत्तारि भूतानि छ वत्थूनि जीवितिन्द्रियं आहारो च. तत्थ विपाकनामं पटिसन्धिक्खणे हदयवत्थुनो सहायो हुत्वा छट्ठस्स मनायतनस्स सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तविपाकअत्थिअविगतपच्चयेहि सत्तधा पच्चयो होति. किञ्चि पनेत्थ हेतुपच्चयेन किञ्चि आहारपच्चयेनाति एवं उक्कंसावकंसो वेदितब्बो. इतरेसं पन पञ्चायतनानं चतुन्नं महाभूतानं सहायो हुत्वा सहजातनिस्सयविपाकविप्पयुत्तअत्थिअविगतवसेन छधा पच्चयो होति. किञ्चि पनेत्थ हेतुपच्चयेन किञ्चि आहारपच्चयेनाति सब्बं पुरिमसदिसं. पवत्ते विपाकनामं विपाकस्स छट्ठायतनस्स वुत्तनयेन सत्तधा पच्चयो होति, अविपाकं पन अविपाकस्स छट्ठस्स ततो विपाकपच्चयं अपनेत्वा पच्चयो होति. चक्खायतनादीनं पन पच्चुप्पन्नं चक्खुपसादादिवत्थुकम्पि इतरम्पि विपाकनामं पच्छाजातविप्पयुत्तअत्थिअविगतपच्चयेहि चतुधा पच्चयो होति, तथा अविपाकम्पि वेदितब्बं. रूपतो पन वत्थुरूपं पटिसन्धियं छट्ठस्स सहजातअञ्ञमञ्ञनिस्सयविप्पयुत्तअत्थिअविगतपच्चयेहि छधा पच्चयो होति. चत्तारि पन भूतानि चक्खायतनादीनं पञ्चन्नं सहजातनिस्सयअत्थिअविगतपच्चयेहि चतुधा पच्चयो होति. रूपजीवितं अत्थिअविगतिन्द्रियवसेन तिधा पच्चयो होतीति अयञ्हेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गतो (विसुद्धि. २.५९४) गहेतब्बो.

पञ्हस्स ओकासं देन्तोति ‘‘को नु खो, भन्ते, फुसती’’ति इमस्स दिट्ठिगतिकपञ्हस्स ओकासं देन्तो. ततो विवेचेतुकामोति अधिप्पायो. सब्बपदेसूति दिट्ठिगतिकेन भगवता च वुत्तपदेसु. सत्तोति अत्ता. सो पन उच्छेदवादिनोपि याव न उच्छिज्जति, ताव अत्थेवाति लद्धि, पगेव सस्सतवादिनो. भूतोति विज्जमानो. निप्फत्तोति निप्फन्नो. न तस्स दानि निप्फादेतब्बं किञ्चि अत्थीति लद्धि. इदप्पच्चया इदन्ति इमस्मा विञ्ञाणाहारपच्चया इदं नामरूपं. पुन इदप्पच्चया इदन्ति इमस्मा नामरूपपच्चया इदं सळायतनन्ति एवं बहूसु ठानेसु भगवता कथितत्ता यथा पच्चयतो निब्बत्तं सङ्खारमत्तमिदन्ति सञ्ञत्तिं उपगतो. तेनापीति सञ्ञत्तुपगतेनापि. एकाबद्धं कत्वाति यथा पुच्छाय अवसरो न होति, तथा एकाबद्धं कत्वा. देसनारुळ्हन्ति यतो सळायतनपदतो पट्ठाय ‘‘सळायतनपच्चया फस्सो’’तिआदिना देसना पटिच्चसमुप्पादवीथिं आरुळ्हमेव. तमेवाति सळायतनपदमेव गहेत्वा. विवज्जेन्तोति विवट्टेन्तो. एवमाहाति ‘‘छन्नंत्वेवा’’तिआदिआकारेन एवं देसिते, ‘‘विनेय्यजनो पटिविज्झती’’ति एवमाह. विञ्ञाणाहारो आयतिं पुनब्भवाभिनिब्बत्तियाति एवं पुरिमभवतो आयतिभवस्स पच्चयवसेन मूलकारणवसेन च देसितत्ता ‘‘विञ्ञाणनामरूपानं अन्तरे एको सन्धी’’ति वुत्तं. तदमिना विञ्ञाणग्गहणेन अभिसङ्खारविञ्ञाणस्सापि गहणं कतन्ति दट्ठब्बं.

मोळियफग्गुनसुत्तवण्णना निट्ठिता.