९. परिवत्तनहारविभङ्गवण्णना

३५. सम्मादिट्ठिस्स…पे… निज्जिण्णा भवतीति एत्थ यथा मग्गसम्मादिट्ठिवसेनत्थो वुत्तो, एवं कम्मस्सकताकम्मपथसम्मादिट्ठीनम्पि वसेन अत्थो लब्भतेव. कम्मपथकथा हेसा. यथावुत्तेनाकारेनाति ‘‘अविमुत्ताव समाना’’ति, ‘‘अविमुत्तिय’’न्ति च वुत्तप्पकारेन. मिच्छाभिनिवेसवसेनाति असम्मासम्बुद्धं एव सम्मासम्बुद्धोति, अनिय्यानिकं एव निय्यानिकोति, असन्तं एव पन सन्तन्ति, अनरियं एव अरियोति विपरीताभिनिवेसवसेन. मिच्छाधिमोक्खोति अयाथावपसादो, अयाथावसन्निट्ठानं वा. उप्पन्नमोहो मिच्छाविमुत्तिञाणदस्सनन्ति सम्बन्धो.

३६. वादानं वा अनुवादा वादानुवादा, तेसं वादानं उपादाति अत्थो. वादानुपवत्तियोति वादानं दोसानं अनुपवत्तियो.

अन्तद्वयपरिवत्तनन्ति कामसुखअत्तकिलमथानुयोगसङ्खातस्स अन्तद्वयस्स पटिपक्खवसेन परिवत्तनं.

एतेसुपि वारेसूति ‘‘निय्यानिको धम्मो तेसं अधम्मो, सुखो तेसं अधम्मो’’ति च इमेसु वारेसु. वुत्तनयेनाति यदि अत्तपरितापनं अत्तनो दुक्खापनं धम्मो, धम्मस्स पटिविरुद्धो अधम्मो सिया, दुक्खस्स च सुखपटिविरुद्धन्ति झानमग्गफलसुखस्स, अनवज्जपच्चयपरिभोगसुखस्स च तेसं अधम्मभावो आपज्जतीति एवं वत्तब्बा. ‘‘यं यं वा पनातिआदिना’’ति इदं अवसेसपाठामसनं. एत्थ यं यं वा पन धम्मन्ति यं वा तं वा धम्मं, कुसलं वा अकुसलं वा इट्ठं वा अनिट्ठं वाति वुत्तं होति. रोचयति वा उपगच्छति वाति चित्तेन रोचति, दिट्ठिया उपगच्छतीति. तस्स तस्स धम्मस्स यो पटिपक्खोति तस्स तस्स रुचितस्स, उपगतस्स वा धम्मस्स यो पटिपक्खो नाम. स्वस्स अनिट्ठतो अज्झापन्नो भवतीति यो धम्मो अस्स रुचितस्स, उपगतस्स वा धम्मस्स अनिट्ठतो पच्चनीकतो अब्भुपगतो होति, तेन पटिपक्खेन देसनाय परिवत्तनं परिवत्तनो हारोति अत्थो. तेनाह ‘‘पटिपक्खस्स लक्खणं विभावेती’’ति.

परिवत्तनहारविभङ्गवण्णना निट्ठिता.