१०. वेवचनहारविभङ्गवण्णना

३७. अञ्ञमञ्ञेहीति अञ्ञेहि अञ्ञेहि. आयतिन्ति पच्चवेक्खणकाले. कथञ्चीति येन केनचि पकारेन, पठमं वुत्तेन परियायेन अप्पटिविज्झन्तो अपरेन परियायेन पटिविज्झेय्याति अधिप्पायो. परियायवचनं निद्दिसतीति सम्बन्धो. एवं सब्बत्थ. तस्मिं खणेति परियायवचनस्स वुत्तक्खणे. विक्खित्तचित्तानन्ति आरम्मणन्तरेहि विविधखित्तचित्तानं. अञ्ञविहितानन्ति अञ्ञं चिन्तेन्तानं. कस्मा पन अञ्ञेन परियायेन तदत्थावबोधनं, ननु तेन वुत्ते दळ्हीकरणं होतीति चोदनं सन्धायाह ‘‘तेनेवा’’तिआदि. तत्थ तदञ्ञेसन्ति तेहि विक्खित्तचित्तादीहि अञ्ञेसं, येहि पठमं वचनं सम्मदेव गहितं. तत्थाति वुत्तवचनेनेव पुनप्पुनं वचने. अधिगतअन्वत्थताय पुनरुत्ति परिवज्जनत्थं विसेसनभावेन ताहि ताहि सञ्ञाहिपि अयम्पि सद्दो इमस्सत्थस्स वाचको, अयम्पि सद्दो इमस्सत्थस्स वाचकोति पञ्ञापनेहि. देसेतब्बस्स तस्स तस्स अत्थस्स अत्तनो चित्ते उपनिबन्धनं ठपनं. तत्थाति धम्मनिरुत्तिपटिसम्भिदायं. बीजावापनं हेतुसम्पादनं.

एवं भगवतो परियायदेसनायं अनेकानि पयोजनानि वत्वा इदानि अत्तनो सम्मासम्बुद्धताय एवं तथागता बुद्धलीलाय अनेकेहि परियायेहि धम्मं देसेन्तीति दस्सेन्तो ‘‘किं बहुना’’तिआदिमाह.

पाळियं ‘‘पिहा नाम या वत्तमानस्स अत्थस्स पत्थना’’ति पच्चुप्पन्नविसयतं दस्सेत्वा पुन अनागतविसयतं दस्सेतुं ‘‘सेय्यतरं वा’’तिआदि वुत्तन्ति ‘‘अनागतपच्चुप्पन्नत्थविसया तण्हा पिहा’’ति आह.

अत्थनिप्फत्तिपटिपालनाति इमस्मिं वा पदे पिहाय एवत्थवसेन अनागतपच्चुप्पन्नत्थविसयभावदीपनतो.

धम्मारम्मणेनेव सङ्गहिता ‘‘धम्मारम्मण’’न्त्वेव गहणं गता. चतुवीसति पदानीति एत्थ गेहसितदोमनस्सूपविचारादीनं चतुन्नं छक्कानं वसेन चतुवीस कोट्ठासा.

३८. सायेव पत्थनाकारेन धम्मनन्दीतिआदिमाहाति एत्थ अयमत्थो – सा एव पत्थनाकारेन पवत्तिया आसादिपरियायेन वुत्ता तण्हा रूपादिधम्मेसु नन्दनट्ठेन धम्मनन्दी. तेसं एव पियायनट्ठेन धम्मपेमं. गिलित्वा परिनिट्ठपेत्वा ठानतो धम्मज्झोसानन्ति.

इमिनापीति न केवलं ‘‘पञ्ञा पजानना’’तिआदिआवेणिकपरियायेनेव वेवचनं वत्तब्बं, अथ खो इमिना आधिपतेय्यादिसाधारणपरियायेनपि वेवचनं वत्तब्बन्ति अत्थो. इमिनाव नयेनाति एतेन परियायवचनेन. न हि देसनत्थसाधनं ‘‘इतिपि सो भगवा’’तिआदिपाळिनयदस्सनन्ति दस्सेति. बलनिप्फत्तिगतोतिआदीसु दससु तथागतबलेसु निप्फत्तिं पारिपूरिं गतो. सम्बोधिपहानन्तरायदेसना विसेसचोदनासु विसारदभावसङ्खातानि चत्तारि ञाणानि पत्तो अधिगतोति वेसारज्जप्पत्तो.

लोभज्झासयादिअज्झासयं विसेसेन अतिवत्तोति अज्झासयवीतिवत्तो. अतीतहेतुसङ्खेपादिसङ्खेपविरहितताय असङ्खेपसङ्खातं निब्बानं, अकुप्पधम्मताय गुणेहि वा असङ्खेपं असङ्ख्येय्यं गतो उपगतोति असङ्खेपगतो. सेसं सुविञ्ञेय्यमेव. उद्धेय्यन्ति उद्धरितब्बं.

धम्मानुस्सतियं एवं अत्थो दट्ठब्बोति सम्बन्धो. संसारदुक्खतो पाति, सन्तेन सुखेन रमेति चाति वा पारं.

अभूतपुब्बत्ताति अनुप्पन्नपुब्बत्ता, तेनस्स निच्चतंव विभावेति केनचि देवतोपसग्गादिना अनुपसज्जनीयत्ता अनुपसट्ठत्ता.

‘‘दुप्पस्स’’न्तिपि पाळि, दुरधिगमन्ति अत्थो. गुणसोभासुरभिभावेनाति गुणेहि सोभाय, सुगन्धिभावेन च.

यथा अक्खणवेधी पुग्गलो सिप्पनिप्फत्तिया रत्तन्धकारतिमिसाय अचिरक्खणालोकेन अतिसुखुमम्पि दूरगतं लक्खं विज्झति, एवं अरियसावको सीलसम्पत्तिया अतिसुखुमं निब्बानं चतुसच्चधम्मं एकपटिवेधेनेव पटिविज्झतीति आह ‘‘सिप्पञ्च सीलं अक्खणवेधिताया’’ति. लोकिकन्ति निदस्सनमत्तं दट्ठब्बं लोकुत्तरधम्मओलोकनस्सापि अधिट्ठानभावतो.

वेवचनहारविभङ्गवण्णना निट्ठिता.