४. पदट्ठानहारविभङ्गवण्णना

२२. तेसं तेसन्ति अनवसेसपरियादानं, तेन ये सुत्ते वुत्ता च धम्मा, ये च तेसं कारणभूतं, तेसं सब्बेसम्पीति वुत्तं होति. सब्बधम्मयाथावअसम्पटिवेधोति इममत्थं दस्सेतुं ‘‘कत्थ पन सो’’तिआदि वुत्तं.

पियायितब्बजातियन्ति पेमनीयसभावं. मिच्छापटिपदाति पमादापत्ति, मिच्छाभिनिवेसो वा. एकवारं उप्पन्नापि पाणातिपातचेतना वेरप्पसवनतो दोसस्स, एकवारं उप्पन्नापि पमादापत्ति, मिच्छाभिनिवेसो वा मोहस्स उप्पत्तिकारणन्ति पाळियं अवुत्तम्पि नयतो निद्धारेतब्बन्ति दस्सेन्तो ‘‘दोसस्स…पे… इमिनाव नयेन अत्थो वेदितब्बो’’ति आह. निमित्तत्थग्गहणलक्खणं वण्णसण्ठानं, अनुब्यञ्जनत्थग्गहणलक्खणं अनुब्यञ्जनन्ति ‘‘निमित्तानुब्यञ्जनग्गहणलक्खणा’’ति वुत्तं. तत्थ तत्थ निमित्तं इत्थिपुरिसनिमित्तं. अनुब्यञ्जनं हत्थपादहसितकथितादि. फस्सो पच्चयो एतिस्साति फस्सपच्चया, तंभावो फस्सपच्चयता. अस्सादेति एतायाति अस्सादो, तण्हा.

वत्थूनि ञेय्यधम्मोति आह ‘‘वत्थुअविप्पटिपत्ति विसयसभावपटिवेधो’’ति. इधाधिप्पेतं सम्मापटिपत्तिं दस्सेतुं ‘‘सीलसमाधिसम्पदान’’न्ति वुत्तं. एकदेसुपलक्खणवसेन, वण्णगन्धरागिसप्पायवसेन वा पाळियं ‘‘विनीलकविपुब्बकग्गहणलक्खणा असुभसञ्ञा’’ति वत्वा ‘‘तस्सा निब्बिदापदट्ठान’’न्ति वुत्तं निब्बिदं दस्सेन्तो ‘‘निब्बिदा’’तिआदि वुत्तं. तत्थ परितस्सनतो विसेसेतुं ‘‘ञाणेना’’ति विसेसितं. तथा पवत्तन्ति निब्बिदनाकारेन पवत्तनं.

योनिसो उम्मुज्जन्तिया विदेहरञ्ञो धीताय रुचाय जातिस्सरञाणं कम्मस्सकतञ्ञाणस्स कारणं अहोसि, न पन असप्पुरिसूपनिस्सयतो, अयोनिसो उम्मुज्जन्तस्स तस्सेव रञ्ञो सेनापतिनो अलातस्स बीजकस्स दासस्साति इममत्थं दस्सेन्तो ‘‘इमस्स च…पे… उदाहरितब्बो’’ति आह. सोति पसादो. अवत्थाविसेसोति सम्पयुत्तधम्मानं अनाविलभावलक्खितो अवत्थाभेदो. आयतनगतोति ठानगतो, रतनत्तयविसयोति अत्थो. ‘‘कायो’’तिआदिना अवत्थाविसेसेन विना सभावसिद्धमेव पदट्ठानं दस्सेति.

इमस्मिं च ठाने पाळियं पुब्बे येसं धम्मानं पदट्ठानं निद्धारितं, ते धम्मा येसं धम्मानं पदट्ठानानि होन्ति, ते दस्सेतुं ‘‘अपरो नयो’’तिआदि आरद्धन्ति वेदितब्बं. अस्सादमनसिकारो अयोनिसोमनसिकारलक्खणो वुत्तो निदस्सनमत्तअत्थोति वेदितब्बो, येभुय्येन सत्तानं लोभवसेन अयोनिसोमनसिकारा संवत्तन्तीत्ति दस्सनत्थं वा एवं वुत्तं. उपपत्ति एव ओपपच्चयं, तस्स भावो ओपपच्चयिकन्ति आह ‘‘उपपत्तिभवभावेना’’ति. ववत्थितभावोति ववत्थितभावो रूपस्स दस्सनादिपटिनियतारम्मणकिच्चता. भवस्स अङ्गानीति भवस्स कारणानि. दुतिये अङ्गानीति अवयवा, कम्मवट्टम्पि वा कारणङ्गभावेन योजेतब्बं.

कम्मट्ठानस्साति भावनाय ब्रूहना वड्ढना. तेसूति तित्थञ्ञुतादीसु. कल्याणमित्तस्स सम्मदेव पयिरुपासनायपीति तं निस्साय लद्धेन सब्बाय धम्मस्सवनेन धम्मुपसंहितं पामोज्जं होतीति तित्थञ्ञुता पीतञ्ञुताय पदट्ठानं. एवं याय विमुत्तिया सति विमुत्तिञाणदस्सनं होतीति सा तस्स पदट्ठानन्ति अयमत्थो पाकटोति आह ‘‘पुरिमानं…पे… सुविञ्ञेय्यो एवा’’ति. सह अधिट्ठानेनाति ञातपरिञ्ञाय सद्धिं. ञातपरिञ्ञा हि तीरणपरिञ्ञाय अधिट्ठानं. सेसं सुविञ्ञेय्यमेव.

पदट्ठानहारविभङ्गवण्णना निट्ठिता.