५. लक्खणहारविभङ्गवण्णना
२३. ‘‘लक्खणहारस्स विसयं पुच्छती’’ति वुत्तं, ‘‘को पन तस्स विसयो’’ति वुत्ते समानलक्खणा अवुत्तधम्मा. कायानुपस्सनाय समारद्धाय वेदनानुपस्सनादयो सुखेनेव सिज्झन्तीति तब्बचनेन वेदनागतासतिआदीनं वुत्तभावो दस्सितो सतिपट्ठानभावेन एकलक्खणत्ताति कायानुपस्सनासतिपट्ठानस्स सद्धानुग्गहितानि वीरियसतिसमाधिपञ्ञिन्द्रियानि साधनं, एवं इतरेसम्पीति कत्वा वुत्तं. अयं अत्थो अट्ठकथायमेव (नेत्ति. अट्ठ. ५१) परतो आगमिस्सति. इमिना नयेन सेसेसुपि एकलक्खणतानिद्देसेसु अत्थो वेदितब्बो. परतोति चतुब्यूहहारवण्णनायं (नेत्ति. अट्ठ. २०).
असम्मिस्सतोति वेदनादयोपि एत्थ सिता एत्थ पटिसन्धाति काये वेदनादिअनुपस्सनापसङ्गेपि आपन्ने तदसम्मिस्सतोति अत्थो.
अवयविगाहसमञ्ञातिधावनसारादानाभिनिवेसनिसेधनत्थं कायं अङ्गपच्चङ्गेहि, तानि च केसादीहि, केसादिके च भूतुपादायरूपेहि विनिब्भुजितुं ‘‘तथा न काये’’तिआदिमाह. पासादादिनगरावयवसमूहे अवयविवादिनोपि अवयविगाहणं करोन्ति. नगरं नाम कोचि अत्थो अत्थीति पन केसञ्चि समञ्ञातिधावनं सियाति इत्थिपुरिसादिसमञ्ञातिधावने नगरनिदस्सनं वुत्तं. अञ्ञो कोचि सत्तादिको. यं पस्सति इत्थिं, पुरिसं वा. ननु चक्खुना इत्थिपुरिसदस्सनं नत्थीति? सच्चं नत्थि, ‘‘इत्थिं पस्सामि, पुरिसं पस्सामी’’ति पन पवत्तसमञ्ञावसेन ‘‘यं पस्सती’’ति वुत्तं. मिच्छादस्सनेन वा दिट्ठिया यं पस्सति, न तं दिट्ठं रूपायतनं होति, रूपायतनं वा तं न होतीति अत्थो. अथ वा तं कोसादिभूतुपादायसमूहसङ्खातं दिट्ठं न होति, दिट्ठं वा यथावुत्तं न होतीति अत्थो. यं दिट्ठं तं न पस्सतीति यं रूपायतनं, केसादिभूतुपादायसमूहसङ्खातं वा दिट्ठं, तं पञ्ञाचक्खुना भूततो न पस्सतीति अत्थो.
न अञ्ञधम्मानुपस्सीति न अञ्ञसभावानुपस्सी, असुभादितो अञ्ञाकारानुपस्सी न होतीति वुत्तं होति.
पथवीकायन्ति केसादिं पथवीधम्मसमूहत्ता ‘‘कायो’’ति वदति, लक्खणपथविमेव वा अनेकभेदभिन्नं सकलसरीरगतं पुब्बापरियभावेन पवत्तमानं समूहवसेन गहेत्वा ‘‘कायो’’ति वदति. एवं अञ्ञत्थापि.
आकारसमूहसङ्खातस्साति अनिच्चतादिआकारसमुदायपरियायस्स.
तीसु भवेसु किलेसेति भवत्तयविसयकिलेसे. सब्बत्थिकन्ति सब्बत्थ लीने, उद्धते च चित्ते इच्छितब्बत्था, सब्बे वा लीने, उद्धते च भावेतब्बा बोज्झङ्गा अत्थिका एतायाति सब्बत्थिका. अन्तो सङ्कोचोति अन्तो ओलीयना, कोसज्जन्ति अत्थो.
२४. गहितेसूति भावनाग्गहणेन गहितेसु, भावितेसूति अत्थो, वचनेन वा गहितेसु. भावनाग्गहणदीपनत्थत्ता पन वचनेन गहणस्स भावनाग्गहणमेत्थ पधानं. यस्स सतिपट्ठाना भाविता, तस्स सम्मप्पधानादयो बोधिपक्खियधम्मा न भाविताति नेतं ठानं विज्जतीति च समानलक्खणतापदेसेन इममत्थं दस्सेतुं पाळियं ‘‘चतूसु सतिपट्ठानेसु भावियमानेसु चत्तारो सम्मप्पधाना भावनापारिपूरिं गच्छन्ती’’तिआदि वुत्तं.
विपल्लासा पहीयन्ति उजुविपच्चनीकभावतो. ‘‘आहारसमुदया कायस्स समुदयो, फस्ससमुदया वेदनानं समुदयो (सं. नि. ५.४०८), सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूप’’न्ति (सं. नि. १.१, ३९; म. नि. ३.१२६; महाव. १; उदा. १; विभ. २२५) वचनतो कायादीनं समुदयभूता कबळीकाराहारफस्समनोसञ्चेतनाविञ्ञाणाहाराकायादीनं परिजाननेन परिञ्ञाता होन्ति तप्पटिपक्खप्पहानतोति दस्सेन्तो ‘‘चत्तारो आहारा’’तिआदिमाह. सब्बत्थाति ‘‘उपादानेहि अनुपादानो भवती’’ति एवमादीसु.
तत्थ यस्मा पञ्च कामगुणा सविसेसा काये लब्भन्तीति विसेसेन कायो कामुपादानस्स वत्थु, सुखवेदनस्सादवसेन परलोकनिरपेक्खो ‘‘नत्थि दिन्न’’न्तिआदि (दी. नि. १.१७१; म. नि. १.४४५; २.९४-९५, २२५; ३.९१, ११६; सं. नि. ३.२१०; ध. स. १२२१; विभ. ९३८) परामासं उप्पादेतीति दिट्ठुपादानस्स वेदना, चित्ते निच्चग्गहणवसेन सस्सतस्स ‘‘अत्तनो सीलादिवसेन परिसुद्धपरामसनं होती’’ति सीलब्बतुपादानस्स चित्तं, नामरूपपरिच्छेदेन भूतं भूततो अपस्सन्तस्स ‘‘अत्ताभिनिवेसो होती’’ति अत्तवादुपादानस्स धम्मा वत्थु, तस्मा ‘‘चतूसु सतिपट्ठानेसु भावियमानेसु उपादानेहि अनुपादानो भवती’’ति वुत्तं.
यस्मा पन वुत्तनयेनेव कायो कामयोगस्स वत्थु, भवेसु सुखग्गहणवसेन भवस्सादो होतीति भवयोगस्स वेदना, सन्ततिघनग्गहणवसेन चित्ते अत्ताभिनिवेसो होतीति दिट्ठियोगस्सचित्तं, धम्मविनिब्भोगस्स दुक्करत्ता, धम्मानं धम्ममत्तताय च दुप्पटिविज्झत्ता सम्मोहो होतीति अविज्जायोगस्स धम्मा, वत्थु, तस्मा चतुसतिपट्ठानभावनाय तेसु तेसं पहानसिद्धितो योगेहि विसंयुत्तता वुत्ता. एतेनेव आसवेहि अनासवता, ओघेहि नित्तिण्णता च संवण्णिता होति कामरागादीनं एव कामयोगकामासवकामोघादिभावतो.
वुत्तनयेनेव कायो अभिज्झाकायगन्थस्स वत्थु, ‘‘दुक्खाय वेदनाय पटिघानुसयो अनुसेती’’ति (म. नि. १.४६५) दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खभूता वेदना विसेसेन ब्यापादकायगन्थस्स वत्थु, चित्ते निच्चाभिनिवेसवसेन सस्सतस्स ‘‘अत्तनो सीलेन सुद्धी’’तिआदिपरामसनं होतीति सीलब्बतपरामासस्स चित्तं वत्थु, सप्पच्चयनामरूपदस्सनाभावतो भवविभवदिट्ठिसङ्खातो इदंसच्चाभिनिवेसो होतीति तस्स धम्मा वत्थूति चतुसतिपट्ठानाति योजेतब्बं.
वुत्तनयेनेव विसेसतो कायो रागसल्लस्स वत्थु, वेदना दोससल्लस्स, ‘‘चित्तं निच्चग्गहणवसेन अत्ताभिनिवेसं अत्तानं सेय्यादितो दहती’’ति चित्तं मानसल्लस्स, वुत्तनयेनेव धम्मा मोहसल्लस्स वत्थूति चतुसतिपट्ठानाति योजेतब्बं.
यस्मा पन कायानुपस्सनादीहि कायवेदनाचित्तधम्मेसु परिञ्ञातेसु रूपवेदनासञ्ञासङ्खारक्खन्धा परिञ्ञाता होन्ति, चित्ते हि परिञ्ञाते सञ्ञापि परिञ्ञाताव होति, तस्मा ‘‘विञ्ञाणट्ठितियो चस्स परिञ्ञं गच्छन्ती’’ति वुत्तं.
तथा विसेसतो काये सापेक्खा छन्दागतिं गच्छतीति कायो छन्दागतिया वत्थु, वुत्तनयेनेव वेदना ब्यापादस्स निमित्तन्ति सा दोसागतिया वत्थु, सन्ततिघनग्गहणवसेन सरागादिचित्ते सम्मोहो होतीति मोहागतिया चित्तं, धम्मसभावानवबोधेन भयं होतीति भयागतिया धम्मा वत्थूति चतुसतिपट्ठानभावनाय अगतिगमनप्पहानं होतीति आह ‘‘अगतिगमनेहि च न अगतिं गच्छती’’ति.
‘‘अकुसलस्स सोमनस्सस्स वसेना’’ति इदं ‘‘अयम्पि अत्थो सम्भवती’’ति कत्वा वुत्तं. ‘‘सुखाय वेदनाय रागानुसयो अनुसेती’’ति (म. नि. १.४६५) पन वचनतो सुखवेदनाग्गहणेन तत्थानुसयनेन समुदयसच्चं देसितन्ति वेदितब्बं. देसितं दुक्खं अरियसच्चन्ति दुक्खदुक्खग्गहणेन सातिसयं दुक्खं अरियसच्चं पकासितं होतीति पाळियं ‘‘दुक्खं अरियसच्चं देसित’’न्ति वुत्तं. सहचरणादीसु यं वत्तब्बं, तं हेट्ठा निद्देसवारवण्णनायं (नेत्ति. अट्ठ. ५ आदयो) वुत्तं.
लक्खणहारविभङ्गवण्णना निट्ठिता.